आदिपर्व
अध्यायः २३५
वैशंपायन उवाच।
कथयित्वा च तत्सर्वं ब्राह्मणेभ्यः स भारत।
प्रययौ हिमवत्पार्श्वं ततो वज्रधरात्मजः।।
अगस्त्यवटमासाद्य वसिष्ठस्य च पर्वतम्।
भृगुतुङ्गे च कौन्तेयः कृतवाञ्शौचमात्मनः।।
प्रददौ गोसहस्राणि सुबहूनि च भारत।
निवेशांश्च द्विजातिभ्यः सोऽददत्कुरुसत्तमः।।
हिरण्यबिन्दोस्तीर्थे च स्नात्वा पुरुषसत्तमः।
दृष्टवान्पाण्डवश्रेष्ठः पुण्यान्यायतनानि च।।
अवतीर्य नरश्रेष्ठो ब्राह्मणैः सह भारत।
प्राचीं दिशमभिप्रेप्सुर्जगाम भरतर्षभः।।
आनुपूर्व्येण तीर्थानि दृष्टवान्कुरुसत्तमः।
नदीं चोत्पलिनीं रम्यामरण्यं नैमिषं प्रति।।
नन्दामपरनन्दां च कौशिकीं च यशस्विनीम्।
महानदीं गयां चैव गङ्गामपि च भारत।।
एवं तीर्थानि सर्वाणि पश्यमानस्तथाश्रमान्।
आत्मनः पावनं कुर्वन्ब्राह्मणेभ्यो ददौ च गाः।।
अङ्गवङ्गकलिङ्गेषु यानि तीर्थानि कानिचित्।
जगाम तानि सर्वाणि पुण्यान्यायतनानि च।।
दृष्ट्वा च विधिवत्तानि धनं चापि ददौ ततः।
कलिङ्गराष्ट्रद्वारेषु ब्राह्मणाः पाण्डवानुगाः।
अभ्यनुज्ञाय कौन्तेयमुपावर्तन्त भारत।।
स तु तैरभ्यनुज्ञातः कुन्तीपुत्रो धनञ्जयः।
सहायैरल्पकैः शूरः प्रययौ यत्र सागरः।।
स कलिङ्गानतिक्रम्य देशानायतनानि च।
हर्म्याणि रमणीयानि प्रेक्षणाणो ययौ प्रभुः।।
महेन्द्रपर्वतं दृष्ट्वा तापसैरुपशोभितम्।
`गोदावर्यां ततः स्नात्वा तामतीत्य महाबलः।।
कावेरीं तां समासाद्य सङ्गमे सागरस्य च।
स्नात्वा संपूज्य देवांश्च पितॄंश्च मुनिभिः सह'।।
समुद्रतीरेण शनैर्मणलूरं जगाम ह।।
तत्र सर्वाणि तीर्थानि पुण्यान्यायतनानि च।
अभिगम्य महाबाहुरभ्यगच्छन्महीपतिम्।।
मणलूरेश्वरं राजन्धर्मज्ञं चित्रवाहनम्।
तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना।।
तां ददर्श पुरे तस्मिन्विचरन्तीं यदृच्छया।
दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहनीम्।।
अभिगम्य च राजानमवदत्स्वं प्रयोजनम्।
देहि मे खल्विमां राजन्क्षत्रियाय महात्मने।।
तच्छ्रुत्वा त्वब्रवीद्राजा कस्य पुत्रोऽसि नाम किम्।
उवाच तं पाण्डवोऽहं कुन्तीपुत्रो धनञ्जयः।।
तमुवाचाथ राजा स सान्त्वपूर्वमिदं वचः।
राजा प्रभञ्जनो नाम कुलेऽस्मिन्संबभूव ह।।
अपुत्रः प्रसवेनार्थी तपस्तेपे स उत्तमम्।
उग्रेण तपसा तेन देवदेवः पिनाकधृक्।।
ईश्वरस्तोषितः पार्थ देवदेवः उमापतिः।
स तस्मै भघवान्प्रादादेकैकं प्रसवं कुले।।
एकैकः प्रसवस्तस्माद्भवत्यस्मिन्कुले सदा।
तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे।।
एका च मम कन्येयं कुलस्योत्पादनी भृशम्।
पुत्रो ममायमिति मे भावना पुरुषर्षभ।।
पुत्रिकाहेतुविधिना संज्ञिता भरतर्षभ।
तस्मादेकः सुतो योऽस्यां जायते भारत त्वया।।
एतच्छुल्कं भवत्वस्याः कुलकृज्जायतामिह।
एतेन समयेनेमां प्रतिगृह्णीष्व पाण्डव।।
स तथेति प्रतिज्ञाय तां कन्यां प्रतिगृह्य च।
`मासे त्रयोदशे पार्थः कृत्वा वैवाहिकीं क्रियाम्।'
उवास नगरे तस्मिन्मासांस्त्रीन्स तया सह।।
।। इति श्रीमन्महाभारते आदिपर्वणि
अर्जुनवनवासपर्वणि
पञ्चत्रिंशदधिकद्विशततमोऽध्यायः।। 235 ।।