आदिपर्व
अध्यायः २३३
वैशंपायन उवाच।
एवं ते समयं कृत्वा न्यवसंस्तत्र पाण्डवाः।
वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः।।
तेषां मनुजसिंहानां पञ्चानाममितौजसाम्।
बभूव कृष्णा सर्वेषां पार्थानां वशवर्तिनी।।
ते तया तैश्च सा वीरैः पतिभिः सह पञ्चभिः।
बभूव परमप्रीता नागैरिव सरस्वती।।
वर्तमानेषु धर्मेण पाण्डवेषु महात्मसु।
व्यवर्धन्कुरवः सर्वे हीनदोषाः सुखान्विताः।।
अथ दीर्घेण कालेन ब्राह्मणस्य विशांपते।
कस्यचित्तस्करा जह्रुः केचिद्गा नृपसत्तम।।
ह्रियमाणे धने तस्मिन्ब्राह्मणः क्रोधमूर्च्छितः।
आगम्य खाण्डवप्रस्थमुदक्रोशत्स पाण्डवान्।।
ह्रियते गोधनं क्षुद्रैर्नृशंसैरकृतात्मभिः।
प्रसह्य चास्मद्विषयादभ्यधावत पाण्डवाः।।
ब्राह्मणस्य प्रशान्तस्य हविर्ध्वाङ्क्षैः प्रलुप्यते।
शार्दूलस्य गुहां शून्यां नीचः क्रोष्टाभिमर्दति।।
अरक्षितारं राजानं बलिषद्भागहारिणम्।
तमाहुः सर्वलोकस्य समग्रं पापचारिणम्।।
ब्राह्मणस्वे हृते चोरैर्धर्मार्थे च विलोपिते।
रोरूयमाणे च मयि क्रियतां हस्तधारणा।।
वैशंपायन उवाच।
रोरूयमाणस्याभ्याशे भृशं विप्रस्य पाण्डवः।
तानि वाक्यानि शुश्राव कुन्तीपुत्रो धनञ्जयः।।
श्रुत्वैव च महाबाहुर्मा भैरित्याह तं द्विजम्।
आयुधानि च यत्रासन्पाण्डवानां महात्मनां।।
कृष्णया सह तत्रास्ते धर्मराजो युधिष्ठिरः।
संप्रवेशाय चाशक्तो गमनाय च पाण्डवः।।
तस्य चार्तस्य तैर्वाक्यैश्चोद्यमानः पुनःपुनः।
आक्रन्दे तत्र कौन्तेयश्चिन्तयामास दुःखितः।।
ह्रियमाणे धने तस्मिन्ब्राह्मणस्य तपस्विनः।
अश्रुप्रमार्जनं तस्य कर्तव्यमिति निश्चयः।।
उपर्रेक्षणजोऽधर्मः सुमहान्स्यान्महीपतेः।
यद्यस्य रुदतो द्वारि न करोम्यद्य रक्षणम्।।
अनास्तिक्यं च सर्वेषामस्माकमपि रक्षणे।
प्रतितिष्ठेत लोकेऽस्मिन्नधर्मश्चैव नो भवेत्।।
अनापृच्छय तु राजानं गते मयि न संशयः।
अजातशत्रोर्नृपतेर्मयि चैवानृतं भवेत्।।
अनुप्रवेशे राज्ञस्तु वनवासो भवेन्मम।
सर्वमन्यत्परिहृतं धर्षणात्तु महीपतेः।।
अधर्मो वै महानस्तु वने वा मरणं मम।
शरीरस्य विनाशेन धर्म एव विशिष्यते।।
एवं विनिश्चित्य ततः कुन्तीपुत्रो धनञ्जयः।
अनुप्रविश्य राजानमापृच्छय च विशांपते।।
`मुखमाच्छाद्य निबिडमुत्तरीयेण वाससा।
अग्रजं चार्जुनो गेहादभिवाद्याशु निःसृतः।।'
धनुरादाय संहृष्टो ब्राह्मणं प्रत्यभाषत।
ब्राह्मणा गम्यतां शीघ्रं यावत्परधनैर्षिणः।।
न दूरे ते गताः क्षुद्रास्तावद्गच्छावहे सह।
यावन्निवर्तयाम्यद्य चोरहस्ताद्धनं तव।।
सोऽनुसृत्य महाबाहुर्धन्वी वर्मी रथी ध्वजी।
शरैर्विध्वस्य तांश्चोरानवजित्य च तद्धनम्।।
ब्राह्मणं समुपाकृत्य यशः प्राप्य च पाण्डवः।
ततस्तद्गेधनं पार्थो दत्त्वा तस्मै द्विजातये।।
आजगाम पुरं वीरः सव्यसाची धनञ्जयः।
सोऽभिवाद्य गुरून्सर्वान्सर्वैश्चाप्यभिनन्दितः।।
धर्मराजमुवाचेदं व्रतमादिश मे प्रभो।
समयः समतिक्रान्तो भवत्संदर्शने मया।।
वनवासं गमिष्यामि समयो ह्येष नः कृतः।
इत्युक्तो धर्मरास्तु सहसा वाक्यमप्रियम्।।
कथमित्यब्रवीद्वाचा शोकार्तः सज्जमानया।
युधिष्ठिरो गुडाकेशं भ्राता भ्रातरमच्युतम्।।
उवाच दीनो राजा च धनञ्जयमिदं वचः।
प्रमाणमस्मि यदि ते मत्तः शृणु वचोऽनघ।।
अनुप्रवेशे यद्वीर कृतवांस्त्वं ममाप्रियम्।
सर्वं तदनुजानामि व्यलीकं न च मे हृदि।।
गुरोरनुप्रवेशो हि नोपघातो यवीयसः।
यवीयसोऽनुप्रवेशो ज्येष्ठस्य विधिलोपकः।।
निवर्तस्व महाबाहो कुरुष्व वचनं मम।
न हि ते धर्मलोपोऽस्ति न च ते धर्पणा कृता।।
अर्जुन उवाच।
न व्याजेन चरेद्धर्ममिति मे भवतः श्रुतम्।
न सत्याद्विचलिष्यामि सत्येनायुधमालभे।।
वैशंपायन उवाच।
सोऽभ्यनुज्ञाय राजानं वनचर्याय दीक्षितः।
वने द्वादश मासांस्तु वासायानुजगाम ह।।
।। इति श्रीमन्महाभारते आदिपर्वणि
अर्जुनवनवासपर्वणि
त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः।। 233 ।।