आदिपर्व
अध्यायः २२५
धृतराष्ट्र उवाच।
भीष्मः शान्तनवो विद्वान्द्रोणश्च भगवानृषिः।
`हितं च परमं सत्यमब्रूतां वाक्यमुत्तमम्।'
हितं च परमं वाक्यं त्वं च सत्यं ब्रवीषि माम्।।
यथैव पाण्डोस्ते वीराः कुन्तीपुत्रा महारथाः।
तथैव धर्मतः सर्वे मम पुत्रा न संशयः।।
यथैव मम पुत्राणामिदं राज्यं विधीयते।
तथैव पाण्डुपुत्राणामिदं राज्यं न संशयः।।
क्षत्तरानय गच्छैतान्सह मात्रा सुसत्कृतान्।
तया च देवरूपिण्या कृष्णया सह भारत।।
दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा।
दिष्ट्या द्रुपदकन्यां च लब्धवन्तो महारथाः।।
दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरोचनः।
दिष्ट्या मम परं दुःखमपनीतं महाद्युते।।
`त्वमेव गत्वा विदुर तानिहानय मा चिरम्।
वैशंपायन उवाच।
एवमुक्तस्ततः क्षत्ता रथमारुह्य शीघ्रगम्।
आगात्कतिपयाहोभिः पाञ्चालान्राजधर्मवित्'।।
ततो जगाम विदुरो धृतराष्ट्रस्य शासनात्।
सकाशं यज्ञसेनस्य पाण्डवानां च भारत।।
समुपादाय रत्नानि वसूनि विविधानि च।
द्रौपद्याः पाण्डवानां च यज्ञसेनस्य चैव ह।।
तत्र गत्वा स धर्मज्ञः सर्वशास्त्रविशारदः।
द्रुपदं न्यायतो राजन्संयुक्तमुपतस्थिवान्।।
स चापि प्रतिजग्राह धर्मेण विदुरं ततः।
चक्रतुश्च यथान्यायं कुशलप्रश्नसंविदम्।।
ददर्श पाण्डवांस्तत्र वासुदेवं च भारत।
स्नेहात्परिष्वज्य स तान्पप्रच्छानामयं ततः।।
तैश्चाप्यमितबुद्दिः स पूजितो हि यथाक्रमम्।
वचनाद्धृतराष्ट्रस्य स्नेहयुक्तं पुनःपुनः।।
पप्रच्छानामयं राजंस्ततस्तान्पाण्डुनन्दनान्।
प्रददौ चापि रत्नानि विविधानि वसूनि च।।
पाण्डवानां च कुन्त्याश्च द्रौपद्याश्च विशांपते।
द्रुपदस्य च पुत्राणां यथा दत्तानि कौरवैः।।
प्रोवाच चामितमतिः प्रश्रितं विनयान्वितः।
द्रुपदं पाण्डुपुत्राणां सन्निधौ केशवस्य च।।
विदुर उवाच।
राजञ्छृणु सहामात्यः सपुत्रश्च वचो मम।
धृतराष्ट्रः सपुत्रस्त्वां सहामात्यः सबान्धवः।।
अब्रवीत्कुशलं राजन्प्रीयमाणः पुनःपुनः।
प्रीतिमांस्ते दृढं चापि संबन्धेन नराधिप।।
तथा भीष्मः शान्तनवः कौरवैः सह सर्वशः।
कुशलं त्वां महाप्राज्ञः सर्वतः परिपृच्छति।।
भारद्वाजो महाप्राज्ञो द्रोणः प्रियसखस्तव।
समाश्लेषमुपेत्य त्वां कुशलं परिपृच्छति।।
धृतराष्ट्रश्च पाञ्चाल्य त्वया संबन्धमेयिवान्।
कृतार्थं मन्यतेत्मानं तथा सर्वेऽपि कौरवाः।।
न तथा राज्यसंप्राप्तिस्तेषां प्रीतिकरी मता।
यथा संबन्धकं प्राप्य यज्ञसेन त्वया सह।।
एतद्विदित्वा तु भवान्प्रस्थापयतु पाण्डवान्।
द्रष्टुं हि पाण्डुपुत्रांश्च त्वरन्ति कुरवो भृशम्।।
विप्रोषिता दीर्घकालमेते चापि नरर्षभाः।
उत्सुका नगरं द्रष्टुं भविष्यन्ति तथा पृथा।।
कृष्णामपि च पाञ्चालीं सर्वाः कुरुवरस्त्रियः।
द्रष्टुकामाः प्रतीक्ष्ते पुरं च विषयाश्च नः।।
स भवान्पाण्डुपुत्राणामाज्ञापयतु मा चिरम्।
गमनं सहदाराणामेतदत्र मतं मम।।
निसृष्टेषु त्वया राजन्पाण्डवेषु महात्मसु।
ततोऽहं प्रेषयिष्यामि धृतराष्ट्रस्य शीघ्रगान्।
आगमिष्यन्ति कौन्तेयाः कुन्ती च सह कृष्णया।।
।। इति श्रीमन्महाभारते आदिपर्वणि
विदुरागमनराज्यलाभपर्वणि
पञ्चविंशत्यधिकद्विशततमोऽध्यायः।। 225 ।।