आदिपर्व
अध्यायः २२०
`वैशंपायन उवाच।
दुर्योधनेनैवमुक्तः कर्णेन च विशांपते।
पुत्रं च सूतपुत्रं च धृतराष्ट्रोऽब्रवीदिदम्।। '
धृतराष्ट्र उवाच।
अहमप्येवमेवैतच्चिकीर्षामि यथा युवाम्।
विवेक्तुं नाहमिच्छामि त्वाकारं विदुरं प्रति।।
ततस्तेषां गुणानेव कीर्तयामि विशेषतः।
नावबुध्येत विदुरो ममाभिप्रायमिङ्गितैः।।
यच्च त्वं मन्यसे प्राप्तं तद्ब्रवीहि सुयोधन।
राधेय मन्यसे यच्च प्राप्तकालं वदाशु मे।।
दुर्योधन उवाच।
अद्य तान्कुशलैर्विप्रैः सुगुप्तैराप्तकारिभिः।
कुन्तीपुत्रान्भेदयामो माद्रीपुत्रौ च पाण्डवौ।।
अथवा द्रुपदो राजा महद्भिर्वित्तसंचयैः।
पुत्राश्चास्य प्रलोभ्यन्ताममात्याश्चैव सर्वशः।।
परित्यजेद्यथा राजा कुन्तीपुत्रं युधिष्ठिरम्।
अथ तत्रैव वा तेषां निवासं रोचयन्तु ते।।
इहैषां दोषवद्वासं वर्णयन्तु पृथक्पृथक्।
ते भिद्यमानास्तत्रैव मनः कुर्वन्तु पाण्डवाः।।
अथवा कुशळाः केचिदुपायनिपुणा नराः।
इतरेतरतः पार्थान्भेदयन्त्वनुरागतः।।
व्युत्थापयन्तु वा कृष्णां बहुत्वात्सुकरं हि तत्।
अथवा पाण्डवांस्तस्यां भेदयन्तु ततश्च ताम्।।
भीमसेनस्य वा राजन्नुपायकुशलैर्नरैः।
मृत्युर्विधीयतां छन्नैः स हि तेषां बलाधिकः।।
तमाश्रित्य हि कौन्तेयः पुरा चास्मान्न मन्यते।
सहि तीक्ष्णश्च शूरश्च तेषां चैव परायणम्।।
तस्मिंस्त्वभिहते राजन्हतोत्साहा हतौजसः।
यतिष्यन्ते न राज्याय स हि तेषां व्यपाश्रयः।।
अजेयो ह्यर्जुनः सङ्ख्ये पृष्ठगोपे वृकोदरे।
तमृते फाल्गुनो युद्धे राधेयस्य न पादभाक्।।
ते जानानास्तु दौर्बल्यं भीमसेनमृते महत्।
अस्मान्बलवतो ज्ञात्वा न यतिष्यन्ति दुर्बलाः।।
इहागतेषु वा तेषु निदेशवशवर्तिषु।
प्रवर्तिष्यामहे राजन्यथाशास्त्रं निबर्हणम्।।
`दर्पं वा वदतां तेषां केचिदत्र मनस्विनः।
द्रुपदस्यात्मजा राजन्प्रभिद्यन्ते ततः परैः।।'
अथवा दर्शनीयाभिः प्रमदाभिर्विलोभ्यताम्।
एकैकस्तत्र कौन्तेयस्ततः कृष्णा विरज्यताम्।।
प्रेष्यतां चैव राधेयस्तेषामागमनाय वै।
तैस्तैः प्रकारैः सन्नीय पात्यन्तामाप्तकारिभिः।।
एतेषामप्युपायानां यस्ते निर्दोषवान्मतः।
तस्य यप्रोगमातिष्ठ पुरा कालोऽतिवर्तते।।
यावद्ध्यकृतविश्वासा द्रुपदे पार्थिवर्षभे।
तावदेव हि ते शक्या न शक्यास्तु ततः परम्।।
एषा मम मतिस्तात निग्रहाय प्रवर्तते।
साध्वी वा यदि वाऽसाध्वी किं वा राधेय मन्यसे।।
।। इति श्रीमन्महाभारते आदिपर्वणि
विदुरागमनराज्यलाभपर्वणि
विंशत्यधिकद्विशततमोऽध्यायः।। 220 ।।