आदिपर्व

अध्यायः २१८

Adi Parva (Sanskrit) · Adhyaya 218
अक्षर का आकार

वैशंपायन उवाच।

सौमदत्तेर्वचः श्रुत्वा कर्णो वैकर्तनो वृषा।
उवाच वचनं काले कालज्ञः सर्वकर्मणाम्।।

नीतिपूर्वमिदं सर्वमुक्तं वचनमर्थवत्।
वचनं नाभ्यसूयामि श्रूयतां यद्वचस्त्विति।।

द्वैधीभावो न गन्तव्यः सर्वकर्मसु मानवैः।
द्विधाभूतेन मनसा अन्यत्कर्म न सिध्यति।।

संप्रयाणासनाभ्यां तु कर्शनेन तथैव च।
नैतच्छक्यं पुरं हर्तुमाक्रन्दश्चाप्यशोभनः।।

अवमर्दनकालोऽत्र मतश्चिन्तयतो मम।
यावन्नो वृष्णयः पार्ष्णिं न गृह्णन्तिरणप्रियाः।।

भवन्तश्च तथा हृष्टाः स्वबाहुबलशालिनः।
प्राकारमवमृद्रन्तु परिघाः पूरयन्त्वपि।।

प्रस्रावयन्तु सलिलं क्रियतां विषमं समम्।
तृणकाष्ठेन महता खातमस्य प्रपूर्यताम्।।

घुष्यतां राजमार्गेषु परेषां यो हनिष्यति।
नागमश्वं पदातिं वा दानमानं स लप्स्यति।।

नागे दशसहस्राणि पञ्च चाश्वपदातिषु।
रथे वै द्विगुणं नागाद्वसु दास्यन्ति पार्थिवाः।।

यश्च कामसुखे सक्तो बालश्च स्थविरश्च यः।
अयुद्धमनसो ये च ते तु तिष्ठन्तु भीरवः।।

प्रदरश्च न दातव्यो न गन्तव्यमचोदितैः।
यशो रक्षत भद्रं वो जेष्यामो वै रिपून्वयम्।।

अनुलोमाश्च नो वाताः सततं मृगपक्षिणः।
अग्नयश्च विराजन्ते शस्त्राणि कवचानि च।।

वैशंपायन उवाच।

ततः कर्णवचः श्रुत्वा धार्तराष्ट्रप्रियैषिणः।
निर्ययुः पृथिवीपालाश्चालयन्तः परान्रणे।।

न हि तेषां मनःसक्तिरिन्द्रियार्थेषु सर्वशः।
यथा परिरपुघ्नानां प्रसभं युद्ध एव च।।

वैकर्तनपुरोव्रातः सैन्धवोर्मिमहास्वनः।
दुःशासनमहामत्स्यो दुर्योधनमहाग्रहः।।

स राजसागरो भीमो भीमघोषप्रदर्शनः।
अभिदुद्राव वेगेन पुरं तदपसव्यतः।।

तदनीकमनाधृष्यं शस्त्राग्निव्यालदीपितम्।
समुत्कम्पितमाज्ञाय चुक्रुशुर्द्रुपदात्मजाः।।

ते मेघसमनिर्घोषैर्बलिनः स्यन्दनोत्तमैः।
निर्ययुर्नगरद्वारात्त्रासयन्तः परान्र

धृष्टद्युम्नः शिखण्डी च सुमित्रः प्रियदर्शनः।
चित्रकेतुः सुकेतुश्च ध्वजकेतुश्च वीर्यवान्।।

पुत्रा द्रुपदराजस्य बलवन्तो जयैषिणः।
द्रुपदस्य महावीर्यः पाण्डरोष्णीषकेतनः।।

पाण्डरव्यजनच्छत्रः पाण्डरध्वजवाहनः।
स पुत्रगणमध्यस्थः शुशुभे राजसत्तमः।।

चन्द्रमा ज्योतिषां मध्ये पौर्णमास्यामिवोदितः।
अथोद्धूतपताकाग्रमजिह्मगतिमव्ययम्।।

द्रुपदानीकमायान्तं कुरुसैन्यमभिद्रवत्।
तयोरुभयतो जज्ञे तेषां तु तुमुलः स्वनः।।

बलयोः संप्रसरतोः सरितां स्रोतसोरिव।
प्रकीर्णरथनागाश्वैस्तान्यनीकानि सर्वशः।।

ज्योतींषईव प्रकीर्णानि सर्वतः प्रचकाशिरे।
उत्कृष्टभेरीनिनदे संप्रवृत्ते महारवे।।

अमर्षिता महात्मानः पाण्डवा निर्ययुस्ततः।
रथांश्च मेघनिर्घोषान्युक्तान्परमवाजिभिः।।

धून्वन्तो ध्वजिनः शुभ्रानास्थाय भरतर्षभाः।
ततः पाण्डुसुतान्दृष्ट्वा रथस्थानात्तकार्मुकान्।।

नृपाणामभवत्कम्पो वेपथुर्हृदयेषु च।
निर्यातेष्वथ पार्थेषु द्रोपदं तद्बलं रणे।।

आविशत्परमो हर्षः प्रमोदश्च जयं प्रति।
सुमुहूर्तं व्यतिकरः सैन्यानामभवद्भृशम्।।

ततो द्वन्द्वमयुध्यन्त मृत्युं कृत्वा पुरस्कृतम्।
जघ्नतुः समरे तस्मिन्सुमित्रप्रियदर्शनौ।।

जयद्रथश्च कर्णश्च पश्यतः सव्यसाचिनः।
अर्जुनः प्रेक्ष्य निहतौ सौमित्रप्रियदर्शनौ।।

जयद्रथसुतं तत्र जघान पितुरन्तिके।
वृषसेनादवरजं सुदामानं धनंजयः।।

कर्णपुत्रं महेष्वासं रथनीडादपातयत्।
तौ सुतौ निहतौ दृष्ट्वा राजसिंहौ तरस्विनौ।।

नामृष्येतां महाबाहू प्रहारमिव सद्गजौ।
तौ जग्मतुरसंभ्रान्तौ फल्गुनस्य रथंप्रति।।

प्रतिमुक्ततलत्राणौ शपमानौ परस्परम्।
सन्निपातस्तयोरासीदतिघोरो महामृधे।।

वृत्रशम्बरयोः सङ्क्ये वज्रिणेव महारणे।
त्रीनश्वाञ्जघ्नतुस्तस्य फल्गुनस्य नर्षभौ।।

ततः किलिकिलाशब्दः कुरूणामभवत्तदा।
तान्हयान्निहतान्दृष्ट्वा भीमसेनः प्रतापवान्।।

निमेषान्तरमात्रेण रथमश्वैरयोजयत्।
उपयातं रथं दृष्ट्वा दुर्योधनपुरःसरौ।।

सौबलः सौमदत्तिश्च समेयातां परन्तपौ।
तैः पञ्चभिरदीनात्मा भीमसेनो महाबलः।।

अयुध्यत तदा वीरैरिन्द्रियार्थैरिवेश्वरः।
तैर्निरुद्धो न संत्रासं जगाम समितिंजयः।।

पञ्चभिर्द्विरदैर्मत्तैर्निरुद्ध इव केसरी।
तस्यैते युगपत्पञ्च पञ्चभिर्निशितैः शरैः।।

सारथिं वाजिनश्चैव निन्युर्वैवस्वतक्षयम्।
हताश्वात्स्यन्दनश्रेष्ठादवरुह्य महारथः।।

चचार विविधान्मार्गानसिमुद्यम्य पाण्डवः।
अश्वस्कन्धेषु चक्रेषु युगेष्वीषासु चैव हि।।

व्यचरत्पातयञ्शत्रून्सुपर्ण इव भोगिनः।
विधनुष्कं विकवचं विरथं च समीक्ष्य तम्।।

अभिपेतुर्नव्याघ्रा अर्जुनप्रमुखा रथाः।
धृष्टद्युम्नः शिखण्डी च यमौ च युधि दुर्जयौ।।

तस्मिन्महारथे युद्धे प्रवृत्ते शरवृष्टिभिः।
रथध्वजपताकाश्च सवर्मन्तरधीयत।।

तत्प्रवृत्तं चिरं कालं युद्धं सममिवाभवत्।
रथेन तान्महाबाहुरर्जुनो व्यधमत्पुनः।।

तमापतन्तं दृष्ट्वेव महाबाहुर्धनुर्धरः।
कर्णोऽस्त्रविदुषां श्रेष्ठो वारयामास सायकैः।।

स तेनाभिहतः पार्थो वासविर्वज्रसन्निभान्।
त्रीञ्शरान्संदधे क्रुद्धो वधात्क्रुद्धस्य पाण्डवः।।

तैः शरैराहतं कर्णं ध्वजयष्टिमुपाश्रितम्।
अपोवाह रथाच्चाशु सूतः परपुरंजयम्।।

ततः पराजिते कर्णे धार्तराष्ट्रान्महाभयम्।
विवेश समुदग्रांश्च पाण्डवान्प्रसमीक्ष्य तु।।

तत्प्रकम्पितमत्यर्थं तद्दृष्ट्वा सौबलो बलम्।
गिरा मधुरया चापि समाश्वासयतासकृत्।।

धार्तराष्ट्रैस्ततः सर्वैर्दुर्योधनपुरःसरैः।
धृतं तत्पुनरेवासीद्बलं पार्थप्रपीडितम्।।

ततो दुर्योधनं दृष्ट्वा भीमो भीमपराक्रमः।
अक्रुध्यत्स महाबाहुरगारं जातुषं स्मरन्।।

ततः संग्रामशिरसि ददर्श विपुलद्रुमम्।
आयामभूतं तिष्ठन्तं स्कन्धपञ्चाशदुन्नतम्।।

महास्कन्धं महोत्सेधं शक्रध्वजमिवोच्छ्रितम्।
तमुत्पाठ्य च पाणिभ्यामुद्यम्य चरणावपि।।

अभिपेदे परान्सङ्ख्ये वज्रपाणिरिवासुरान्।
भीमसेनभयार्तानि फल्गुनाभिहतानि च।।

न शेकुस्तान्यनीकानि धार्तराष्ट्राण्युदीक्षितुम्।
तानि संभ्रान्तयोधानि श्रान्तवाजिगजानि च।।

दिशः प्राकालयद्भीमो दिवीवाभ्राणि मारुतः।
तान्निवृत्तान्निरानन्दान्नरवारणवाजिनः।।

नानुसस्रुर्न चाजघ्नुर्नोचुः किंचिच्च दारुणम्।
स्वमेव शिबिरं जग्मुः क्षत्रियाः शरविक्षताः।।

परेऽप्यभिययुर्हृष्टाः पुरं पौरसुखावहाः।
मुहूर्तमभवद्युद्धं तेषां वै पाण्डवैः सह।।

यावत्तद्युद्धमभवन्महद्देवासुरोपमम्।
तावदेवाभवच्छान्तं निवृत्ता वै महारथाः।।

सुव्रतं चक्रिरे सर्वे सुवृतामब्रुवन्वधूम्।
कृतार्थं द्रुपदं चोचुर्धृष्टद्युम्नं च पार्षतम्।।

शकुनिः सिन्धुराजश्च कर्णदुर्योधनावपि।
तेषां तदाभवद्दुःखं हृदि वाचा तु नाब्रुवन्।।

ततः प्रयाता राजानः सर्व एव यथागतम्।
धार्तराष्ट्रा हि ते सर्वे गता नागपुरं तदा।।

प्रागेव पूर्निरोधात्तु पाण्डवैरश्वसादिनः।
प्रेषिता गच्छतारिष्टानस्मानाख्यात शौरये।।

तेऽचिरेणैव कालेन संप्राप्ता यादवीं पुरीम्।
ऊचुः संकर्षणोपेन्द्रौ वचनं वचनक्षमौ।।

कुशलं पाण्डवाः सर्वानाहुः स्मान्धकवृष्णयः।
आत्मनश्चाहतानाहुर्विमुक्ताञ्जातुषाद्गृहात्।।

समाजे द्रौपदीं लब्धामाहू राजीवलोचनाम्।
आत्मनः सदृशीं सर्वैः शीलवृत्तसमाधिभिः।।

तच्छ्रुत्वा वचनं कृष्णस्तानुवाचोत्तरं वचः।
सर्वमेतदहं जाने वधात्तस्य तु रक्षसः।।

तत उद्योजयामास माधवश्चतुरङ्गिणीम्।
सेनामुपानयत्तूर्णं पाञ्चालनगरीं प्रति।।

ततः संकर्षणश्चैव केशवश्च महाबलः।
यादवैः सह सर्वैश्च पाण्डवानभिजग्मतुः।।

पितृष्वसारं संपूज्य नत्वा चैव तु यादवीम्।
द्रौपदीं भूषणैः शुभ्रैर्भूषयित्वा यथाविधि।।

पाण्डवान्हर्षयित्वा तु पूजयामासतुश्च तान्।
न्यायतः पूजितौ राज्ञा द्रुपदेन महात्मना।।

यादवाः पूजिताः सर्वे पाण्डवैश्च महात्मभिः।
रेमिरे पाण्डवैः सार्धं ते पाञ्चालपुरे तदा।।

।। इति श्रीमन्माहाभारते आदिपर्वणि
विदुरागमनराज्यलाभपर्वणि
अष्टादशाधिकद्विशततमोऽध्यायः।। 218 ।।