आदिपर्व

अध्यायः २१४

Adi Parva (Sanskrit) · Adhyaya 214
अक्षर का आकार

व्यास उवाच।

पुरा वै नैमिशारण्ये देवाः सत्रमुपासते।
तत्र वैवस्वतो राजञ्शामित्रमकरोत्तदा।।

ततो यमो दीक्षितस्तत्र राज-
न्नामारयत्कंचिदपि प्रजानाम्।
ततः प्रजास्ता बहुला बभूवुः
कालातिपातान्मरणप्रहीणाः।।

सोमश्च शक्रो वरुणः कुबेरः
साध्या रुद्रा वसवोऽथाश्विनौ च।
प्रजापतिर्भुवनस्य प्रणेता
समाजग्मुस्तत्र देवास्तथाऽन्ये।।

ततोऽब्रुवँल्लोकगुरुं समेता
भयात्तीव्रान्मानुषाणां विवृद्ध्या।
तस्माद्भयादुद्विजन्तः सुखेप्सवः
प्रयाम सर्वे शरणं भवन्तम्।।

पितामह उवाच।

किं वो भयं मानुषेभ्यो यूयं सर्वे यदाऽमराः।
मा वो मर्त्यसकाशाद्वै भयं भवितुमर्हति।।

देवा ऊचुः।

मर्त्या अमर्त्याः संवृत्ता न विशेषोऽस्ति कश्चन।
अविशेषादुद्विजन्तो विशेषार्थमिहागताः।।

श्रीभगवानुवाच।

वैवस्वतो व्यापृतः सत्रहेतो-
स्तेन त्विमे न म्रियन्ते मनुष्याः।
तस्मिन्नेकाग्रे कृतसर्वकार्ये
तत एषां भवितैवान्तकालः।।

वैवस्वतस्यैव तनुर्विभक्ता
वीर्येण युष्माकमुत प्रवृद्धा।
सैषामन्तो भविता ह्यन्तकाले
न तत्र वीर्यं भविता नरेषु।।

व्यास उवाच।

ततस्तु ते पूर्वजदेववाक्यं
श्रुत्वा जग्मुर्यत्र देवा यजन्ते।
समासीनास्ते समेता महाबला
भागीरथ्यां ददृशुः पुण्डरीकम्।।

दृष्ट्वा च तद्विस्मितास्ते बभूवु-
स्तेषामिन्द्रस्तत्र शूरो जगाम।
सोऽपश्यद्योषामथ पावकप्रभां
यत्र देवी गङ्गा सततं प्रसूता।।

सा तत्र योषा रुदती जलार्थिनी
गङ्गां देवीं व्यवगाह्य व्यतिष्ठत्।
तस्याश्रुबिन्दुः पतितो जले य-
स्तत्पद्ममासीदथ तत्र काञ्चनम्।।

तदद्भुतं प्रेक्ष्य वज्री तदानी-
मपृच्छत्तां योषितमन्तिकाद्वै।
का त्वं भद्रे रोदिषि कस्य हेतो-
र्वाक्यं तथ्यं कामयेऽहं ब्रवीहि।।

स्त्र्युवाच।

त्वं वेत्स्यसे मामिह याऽस्मि शक्र
यदर्थं चाहं रोदिमि मन्दभाग्या।
आगच्छ राजन्पुरतो गमिष्ये
द्रष्टाऽसि तद्रोदिमि यत्कृतेऽहम्।।

व्यास उवाच।

तां गच्छन्तीमन्वगच्छत्तदानीं
सोऽपश्यदारात्तरुणं दर्शनीयम्।
सिद्धासनस्थं युवतीसहायं
क्रीडन्तमक्षैर्गिरिराजमूर्ध्नि।।

तमब्रवीद्देवराजो ममेदं
त्वं विद्धि विद्वन्भुवनं वशे स्थितम्।
ईशोऽहस्मीति समन्युरब्रवी-
द्दृष्ट्वा तमक्षैः सुभृशं प्रमत्तम्।।

क्रुद्धं च शक्रं प्रसमीक्ष्य देवो
जहाय शक्रं च शैरुदैक्षत।
संस्तम्भितोऽभूदथ देवराज-
स्तेनेक्षितः स्थाणुरिवावतस्थे।।

यदा तु पर्याप्तमिहास्य क्रीडया
तदा देवीं रुदतीं तामुवाच।
आनीयतामेष यतोऽहमारा-
न्नैनं दर्पः पुनरप्याविशेत।।

ततः शक्रः स्पृष्टमात्रस्तया तु
स्रस्तैरङ्गैः पतितोऽभूद्धरण्याम्।
तमब्रवीद्भगवानुग्रतेजा
मैवं पुनः शक्र कृथाः कथंचित्।।

निवर्तयैनं च महाद्रिराजं
बलं च वीर्यं च तवाप्रमेयम्।
छिद्रस्य चैवाविश मध्यमस्य
यत्रासते त्वद्विधाः सूर्यभासः।।

स तद्विवृत्य विवरं महागिरे-
स्तुल्यद्युतींश्चतुरोऽन्यान्ददर्श।
स तानभिप्रेक्ष्य बभूव दुःखितः
कच्चिन्नाहं भविता वै यथेमे।।

ततो देवो गिरिशो वज्रपाणिं
विवृत्य नेत्रे कुपितोऽभ्युवाच।
दरीमेतां प्रविश त्वं शतक्रतो
यन्मां बाल्यादवमंस्थाः पुरस्तात्।।

उक्तस्त्वेवं विभुना देवराजः
प्रावेपताऽऽर्तो भृशमेवाभिषङ्गात्।
स्रस्तैरङ्गैरनिलेनेव नुन्न-
मश्वत्थपत्रं गिरिराजमूर्ध्नि।।

स प्राञ्जलिर्वै वृषवाहनेन
प्रवेपमानः सहसैवमुक्तः।
उवाच देवं बहुरूपमुग्र-
मद्याशेषस्य भुवनस्य त्वं भवाद्यः।।

तमब्रवीदुग्रवर्चाः प्रहस्य
नैवंशीलाः शेषमिहाप्नुवन्ति।
एतेऽप्येवं भवितारः पुरस्ता-
त्तस्मादेतां दरीमाविश्य शेष्य।।

एषा भार्या भविता वो न संशयो
योनिं सर्वे मानुषीमाविशध्वम्।
तत्र यूयं कर्म कृत्वाऽविषह्यं
बहूनन्यान्निधनं प्रापयित्वा।।

कर्तव्यमन्यद्विविधार्थयुक्तम्।।

पूर्वेन्द्रा ऊचुः।

गमिष्यामो मानुषं देवलोका-
द्दुराधरो विहितो यत्र मोक्षः।
देवास्त्वस्मानादधीरञ्जनन्यां
धर्मो वायुर्मघवानश्विनौ च।।

व्यास उवाच।

एतच्छ्रुत्वा वज्रपाणिर्वचस्तु
देवश्रेष्ठं पुनरेवेदमाह।
वीर्येणाहं पुरुषं कार्यहेतो-
र्दद्यामेषां पञ्चमं मत्प्रसूतम्।।

विश्वभुग्भूतधामा च शिबिरिन्द्रः प्रतापवान्।
शान्तिश्चतुर्थस्तेषां वै तेजस्वी पञ्चमः स्मृतः।।

तेषां कामं भगवानुग्रधन्वा
प्रादादिष्टं सन्निसर्गाद्यथोक्तम्।
तां चाप्येषां योषितं लोककान्तां
श्रियं भार्यां व्यदधान्मानुषेषु।।

तैरेव सार्धं तु ततः स देवो
जगाम नारायणमप्रमेयम्।
अनन्तमव्यक्तमजं पुराणं
सनातनं विश्वमनन्तरूपम्।।

शुक्लमेकमपरं चापि कृष्णम्।।

केशो योऽसौ वर्णतः कृष्ण उक्तः।।

ये ते पूर्वं शक्ररूपा निबद्धा-
स्तस्यां दर्यां पर्वतस्योत्तरस्य।
इहैव ते पाण्डवा वीर्यवन्तः
शक्रस्यांशः पाण्डवः सव्यसाची।।

एवमेते पाण्डवाः संबभूवु-
र्ये ते राजन्पूर्वमिन्द्रा बभूवुः।
लक्ष्मीश्चैषां पूर्वमेवोपदिष्टा
भार्या यैषा द्रौपदी दिव्यरूपा।।

कथं हि स्त्री कर्मणा ते महीतला-
त्समुत्तिष्ठेदन्यतो दैवयोगात्।
यस्या रूपं सोमसूर्यप्रकाशं
गन्धश्चास्याः कोशमात्रात्प्रवाति।।

इदं चान्यत्प्रीतिपूर्वं नरेन्द्र
ददानि ते वरमत्यद्भुतं च।
दिव्यं चक्षुः पश्य कुन्तीसुतांस्त्वं
पुण्यैर्दिव्यैः पूर्वदेहैरुपेतान्।।

वैशंपायन उवाच।

ततो व्यासः परमोदारकर्मा
शुचिर्विप्रस्तपसा तस्य राज्ञः।
चक्षुर्दिव्यं प्रददौ तांश्च सर्वान्
राजाऽपश्यत्पूर्वदेहैर्यथावत्।।

ततो दिव्यान्हेमकिरीटमालिनः
शक्रप्रख्यान्पावकादित्यवर्णान्।
बद्धापीडांश्चारुरूपांश्च यूनो
व्यूढोरस्कांस्तालमात्रान्ददर्श।।

दिव्यैर्वस्त्रैरजोभिः सुगन्धै-
र्माल्यैश्चाग्र्यैः शोभमानानतीव।
साक्षात्त्र्यक्षान्वा वसूंश्चापि रुद्रा-
नादित्यान्वा सर्वगुणोपपन्नान्।।

तान्पूर्वेन्द्रानभिवीक्ष्याभिरूपा-
त्र्शक्रात्मजं चेन्द्ररूपं निशम्य।
प्रीतो राजा द्रुपदो विस्मितश्च
दिव्यां मायां तामवेक्ष्याप्रमेयाम्।।

तां चैवाग्र्यां स्त्रियमतिरूपयुक्तां
दिव्यां साक्षात्सोमवह्निप्रकाशाम्।
योग्यां तेषां रूपतेजोयशोभिः
पत्नी मत्वा हृष्टवान्पार्थिवेन्द्रः।।

स तद्दृष्ट्वा महदाश्चर्यरूपं
जग्राह पादौ सत्यवत्याः सुतस्य।
नैतच्चित्रं परमर्षे त्वयीति
प्रसन्नचेताः स उवाच चैनम्।।

`व्यास उवाच।

इदं चापि पुरावृत्तं तन्निबोध च भूमिम।
कीर्त्यमानं नृपर्षीणां पूर्वेषां दारकर्मणि।।

नितन्तुर्नाम राजर्षिर्बभूव भुवि विश्रुतः।
तस्य पुत्रा महेष्वासा बभूवुः पञ्च भूमिताः।।

साल्वेयः शूरसेनश्च श्रुतसेनश्च वीर्यवान्।
तिन्दुसारोऽतिसारश्च क्षत्रियाः क्रतुयाजिनः।।

नातिचक्रमुरन्योन्यमन्योन्यस्य प्रियंवदाः।
अनीर्ष्यवो धर्मविदः सौम्याश्चैव प्रियकराः।।

एतान्नैतन्तवान्पञ्च शिबिपुत्री स्वयंवरे।
अवाप स्वपतीन्वीरान्भौमाश्वी मनुजाधिपान्।।

वीणेव मधुरारावा गान्धर्वस्वरमूर्च्छिता।
उत्तमा सर्वनारीणां भौमाश्वी ह्यभवत्तदा।।

यस्या नैतन्तवाः पञ्च पतयः क्षत्रियर्षभाः।
बभूवुः पृथिवीपालाः सर्वैः समुदिता गुणैः।।

तेषामेकाभवद्भार्या राज्ञामौशीनरी शुभा।
भौमाश्वी नाम भद्रं ते तथारूपगुणान्विता।।

पञ्चभ्यः पञ्चधा पञ्च दायादान्सा व्यजायत।
तेभ्यो नैतन्तवेभ्यस्तु राजशार्दूल वै तदा।।

पृथगाख्याऽभवत्तेषां भ्रातॄणां पञ्चधा भुवि।
यथावत्कीर्त्यमानांस्ताञ्छृणु मे राजसत्तम।।

साल्वेयाः शूरसेनाश्च श्रुतसेनाश्च पार्थिवाः।
तिन्दुसारातिसाराश्च वंशा एषां नृपोत्तम।।

एवमेकाऽभवद्भार्या भौमाश्वी भुवि विश्रुता।
तथैव द्रुपदैषा ते सुता वै देवरूपिणी।
पञ्चानां विहिता पत्नी कृष्णा पार्षत्यनिन्दिता'।।

व्यास उवाच।

आसीत्तपोवंने काचिदृषेः कन्या महात्मनः।
नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती।।

तोषयामास तपसा सा किलोग्रेण शङ्करम्।
तामुवाचेश्वरः प्रीतो वृणु काममिति स्वयम्।।

सैवमुक्ताऽब्रवीत्कन्या देवं वरदमीश्वरम्।
पतिं सर्वगुणोपेतमिच्छामीति पुनःपुनः।।

ददौ तस्यै स देवेशस्तं वरं प्रीतमानसः।
पञ्च ते पतयो भद्रे भविष्यन्तीति शङ्करः।।

सा प्रसादयती देवमिदं भूयोऽभ्यभाषत।
एकं पतिं गुणोपेतं त्वत्तोऽर्हामीति शङ्कर।।

तां देवदेवः प्रीतात्मा पुनः प्राह शुभं वचः।
पञ्चकृत्वस्त्वयोक्तोऽहं पतिं देहीति वै पुनः।।

तत्तथा भविता भद्रे वचस्तद्भद्रमस्तु ते।
देहमन्यं गतायास्ते सर्वमेतद्भविष्यति।।

द्रुपदैषा हि सा जज्ञे सुता वै देवरूपिणी।
पञ्चानां विहिता पत्नी कृष्णा पार्षत्यनिन्दिता।।

`सैव नालायनी भूत्वा रूपेणाप्रतिमा भुवि।
मौद्गल्यं पतिमास्थाय शिवाद्वरमभीप्सती।।

एतद्देवरहस्यं ते श्रावितं राजसत्तम।
नाख्यातव्यं कस्यचिद्वै देवगुह्यमिदं यतः।।'

स्वर्गश्रीः पाण्डवार्थं तु समुत्पन्ना महामखे।
सेह तप्त्वा तपो घोरं दुहितृत्वं तवागता।।

सैषा देवी रुचिरा देवजुष्टा
पञ्चानामेका स्वकृतेनेह कर्मणा।
सृष्टा स्वयं देवपत्नी स्वयंभुवा
श्रुत्वा राजन्द्रुपदेष्टं कुरुष्व।।

।। इति श्रीमन्महाभारते आदिपर्वणि
वैवाहिकपर्वणि चतुर्दशाधिकद्विशततमोऽध्यायः।। 214 ।।