आदिपर्व

अध्यायः २०३

Adi Parva (Sanskrit) · Adhyaya 203
अक्षर का आकार

वैशंपायन उवाच।

यदा निवृत्ता राजानो धनुषः सज्यकर्मणः।
अथोदतिष्ठद्विप्राणां मध्याज्जिष्णुरुदारधीः।।

उदक्रोशन्विप्रमुख्या विधुन्वन्तोऽजिनानि च।
दृष्ट्वा संप्रस्थितं पार्थमिन्द्रकेतुसमप्रभम्।।

केचिदासन्विमनसः केचिदासन्मुदान्विताः।
आहुः परस्परं केचिन्निपुणा बुद्धिजीविनः।।

यत्कर्णशल्यप्रमुखैः क्षत्रियैर्लोकविश्रुतैः।
नानतं बलवद्भिर्हि धनुर्वेदपरायणैः।।

तत्कथं त्वकृतास्त्रेण प्राणतो दुर्बलीयसा।
वटुमात्रेण शक्यं हि सज्यं कर्तुं धनुर्द्विजाः।।

अवहास्या भविष्यन्ति ब्राह्मणाः सर्वराजसु।
कर्मण्यस्मिन्नसंसिद्धे चापलादपरीक्षिते।।

यद्येष दर्पाद्धर्षाद्वाप्यथ ब्राह्मणचापलात्।
प्रस्थितो धनुरायन्तुं वार्यतां साधु मा गमत्।।

नावहास्या भविष्यामो न च लाघवमास्थिताः।
न च विद्विष्टतां लोके गमिष्यामो महीक्षिताम्।।

केचिदाहुर्युवा श्रीमान्नागराजकरोपमः।
पीनस्कन्धोरुबाहुश्च धैर्येण हिमवानिव।।

सिंहखेलगतिः श्रीमान्मत्तनागेन्द्रविक्रमः।
संभाव्यमस्मिन्कर्मेदमुत्साहाच्चानुमीयते।।

शक्तिरस्य महोत्साहा न ह्यशक्तः स्वयं व्रजेत्।
न च तद्विद्यते किंचित्कर्म लोकेषु यद्भवेत्।।

ब्राह्मणानामसाध्यं च नृषु संस्थानचारिषु।
अब्भक्षा वायुभक्षाश्च फलाहारा दृढव्रताः।।

दुर्बला अपि विप्रा हि बलीयांसः स्वेतजसा।
ब्राह्मणो नावमन्तव्यः सदसद्वा समाचरन्।।

सुखं दुःखं महद्ध्रस्वं कर्म यत्समुपागतम्।
जामदग्न्येन रामेण निर्जिताः क्षत्रिया युधि।।

पीतः समुद्रोऽगस्त्येन अगाधो ब्रह्मतेजसा।
तस्माद्ब्रुवन्तु सर्वेऽत्र वटुरेष धनुर्महान्।।

आरोपयतु शीघ्रं वै तथेत्यूचुर्द्विजर्षभाः।

वैशंपायन उवाच।

एवं तेषां विलपतां विप्राणां विविधा गिरः।।

अर्जुनो धनुषोऽभ्याशे तस्थौ गिरिरिवाचलः।
`अर्जुनः पाण्डवश्रेष्ठो धृष्टद्युम्नमथाब्रवीत्।।

एतद्धनुर्ब्राह्मणानां सज्यं कर्तुमलं तु किम्।

वैशंपायन उवाच।

तस्य तद्वचनं श्रुत्वा धृष्टद्युम्नोऽब्रवीद्वचः।।

ब्राह्मणो वाथ राजन्यो वैश्यो वा शूद्र एव वा।
एतेषां यो धनुःश्रेष्ठं सज्यं कुर्याद्द्विजोत्तम।।

तस्मै प्रदेया भगिनी सत्यमुक्तं मया वचः।।

वैशंपायन उवाच।

ततः पश्चान्महातेजाः पाण्डवो रणदुर्जयः।'
स तद्धनुः परिक्रम्य प्रदक्षिणमथाकरोत्।।

प्रणम्य शिरसा देवमीनं वरदं प्रभुम्।
कृष्णं च मनसा कृत्वा जगृहे चार्जुनो धनुः।।

यत्पार्थिवै रुक्मसुनीथवक्रै
राधेयदुर्योधनशल्यसाल्वैः।
तदा धनुर्वेदपरैर्नृसिंहैः
कृतं न सज्यं महतोऽपि यत्नात्।।

तदर्जुनो वीर्यवतां सदर्प-
स्तदैन्द्रिरिन्द्रावरजप्रभावः।
सज्यं च चक्रे निमिषान्तरेण
शरांश्च जग्राह दशार्दसङ्ख्यान्।।

विव्याध लक्ष्यं निपपात तच्च
छिद्रेण भूमौ सहसातिविद्धम्।
ततोऽन्तरिक्षे च बभूव नादः
समाजमध्ये च महान्निनादः।।

पुष्पाणि दिव्यानि ववर्ष देवः
पार्थस्य मूर्ध्नि द्विषतां निहन्तुः।।

चेलानि विव्यधुस्तत्र ब्राह्मणाश्च सहस्रशः।
विलक्षितास्ततश्चक्रुर्हाहाकारांश्च सर्वशः।
न्यपतंश्चात्र नभसः समन्तात्पुष्पवृष्टयः।।

शताङ्गानि च तूर्याणि वादकाः समवादयन्।
सूतमागधसङ्घाश्चाप्यस्तुवंस्तत्र सुस्वराः।।

तं दृष्ट्वा द्रुपदः प्रीतो बभूव रिपुसूदनः।
सह सैन्यैश्च पार्थस्य साहाय्यार्थमियेष सः।।

तस्मिंस्तु शब्दे महति प्रवृद्धे
युधिष्ठिरो धर्मभृतां वरिष्ठः।
आवासमेवोपजगाम शीघ्रं
सार्धं यमाभ्यां पुरुषोत्तमाभ्याम्।।

विद्धं तु लक्ष्यं प्रसमीक्ष्य कृष्णा
पार्थं च शक्रप्रतिमं निरीक्ष्य।
`स्वभ्यस्तरूपापि नवेव नित्यं
विनापि हासं हसतीव कन्या।।

मदादृतेऽपि स्खलतीव भावै-
र्वाचा विना व्याहरतीव दृष्ट्या।
आदाय शुक्लं वरमाल्यदाम
जगाम कुन्तीसुतमुत्स्मयन्ती।।

गत्वा च पश्चात्प्रसमीक्ष्य कृष्णा
पार्थस्य वक्षस्यविशङ्कमाना।
क्षिप्त्वा स्रजं पार्थिववीरमध्ये
वराय वव्रे द्विजसङ्घमध्ये।।

शचीव देवेन्द्रमथाग्निदेवं
स्वाहेव लक्ष्मीश्च यथा मुकुन्दम्।
उषेव सूर्यं मदनं रतीव
महेश्वरं पर्वतराजपुत्री।।'

स तामुपादाय विजित्य रङ्गे
द्विजातिभिस्तैरभिपूज्यमानः।
रङ्गान्निरक्रामदचिन्त्यकर्मा
पत्न्या तया चाप्यनुगम्यमानः।।

।। इति श्रीमन्महाभारते आदिपर्वणि
स्वयंवरपर्वणि त्र्यधिकद्विशततमोऽध्यायः।। 203 ।।