आदिपर्व
अध्यायः २००
वैशंपायन उवाच।
ततस्ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः।
तं ब्राह्मणं पुरस्कृत्य पाञ्चाल्याश्च स्वयंवरम्।
प्रययुर्द्रौपदीं द्रष्टुं तं च देशं महोत्सवम्।।
ततस्ते तं महात्मानं शुद्धात्मानमकल्मषम्।
ददृशुः पाण्डवा वीराः पथि द्वैपायनं तदा।।
तस्मै यथावत्सत्कारं कृत्वा तेन च सत्कृताः।
कथान्ते चाभ्यनुज्ञाताः प्रययुर्द्रुपदक्षयम्।।
पश्यन्तो रमणीयानि वनानि च सरांसि च।
तत्रतत्र वसन्तश्च शनैर्जग्मुर्महराथाः।।
स्वाध्यायवन्तः शुचयो मधुराः प्रियवादिनः।
आनुपूर्व्येण संप्राप्ताः पाञ्चालान्पाण्डुनन्दनाः।।
ते तु दृष्ट्वा पुरं तच्च स्कन्धावारं च पाण्डवाः।
कुम्भकारस्य शालायां निवासं चक्रिरे तदा।।
तत्र भैक्षं समाजह्रुर्ब्राह्मणीं वृत्तिमाश्रिताः।
तान्संप्राप्तांस्तथा वीराञ्जज्ञिरे न नराः क्वचित्।।
`यज्ञसेनस्तु पाञ्चालो भीष्मद्रोमकृतागसम्।
ज्ञात्वाऽऽत्मानं तदारेभे त्राणायात्मक्रियां क्षमां।।
अवाप्य धृष्टद्युम्नं हि न स द्रोणमचिन्तयत्।
स तु वैरप्रसङ्गाच्च भीष्माद्भयमचिन्तयत्।।
कन्यादानात्तु शरणं सोऽमन्यत महीपतिः।'
यज्ञसेनस्य कामस्तु पाण्डवाय किरीटिने।।
दास्यामि कृष्मामिति वै न चैनं विवृणोति सः।
`जामातृबलसंयोगं मेने हि बलवत्तरम्।।'
सोऽन्वेषमाणः कौन्तेयान्पाञ्चालो जनमेजय।
दृढं धनुरथानम्यं कारयामास भारत।।
`वैयाघ्रपद्यस्योग्रं वै सृञ्जयस्य महीपतिः।
तद्धनुः किन्धुरं नाम देवदत्तमुपानयत्।।
आयसी तस्य च ज्याऽऽसीत्प्रतिबद्धा महाबला।
न तु ज्यां प्रसहेदन्यस्तद्धनुःप्रवरं महत्।।
शङ्करेण वरं दत्तं प्रीतेन च महात्मना।
तन्निष्फलं स्यान्न तु मे इति प्रामाण्यमागतः।।
मया कर्तव्यमधुना दुष्करं लक्ष्यवेधनम्।
इति निश्चित्य मनसा कारितं लक्ष्यमुत्तमम्।।'
यन्त्रं वैहायसं चापि कारयामास कृत्रिमम्।
तेन यन्त्रेण सहितं राजँल्लक्ष्यं च काञ्चनम्।।
द्रुपद उवाच।
इदं सज्यं धनुः कृत्वा सज्जैरेभिश्च सायकैः।
अतीत्य लक्ष्य यो वेद्धा स लब्धा मत्सुतामिति।।
वैशंपायन उवाच।
इति स द्रुपदो राजा स्वयंवरमघोषयत्।
तच्छ्रुत्वा पार्थिवाः सर्वे समीयुस्तत्र भारत।।
ऋषयश्च महात्मानः स्वयंवरदिदृक्षवः।
दुर्योधनपुरोगाश्च सकर्णाः कुरवो नृप।।
`यादवा वासुदेवेन सार्धमन्धकवृष्णयः।'
ततोऽर्चिता राजगुणा द्रुपदेन महात्मना।।
उपोपविष्टा मञ्चेषु द्रष्टुकामाः स्वयंवरम्।
`ब्राह्मणाश्च महाभागा देशेभ्यः समुपागमन्।।
ब्राह्मणैरेव सहिताः पाण्डवाः समुपाविशन्।
त्रयस्त्रिंशत्सुराः सर्वे विमानैर्व्योम्न्यवस्थिताः।।
ततः पौरजनाः सर्वे सागरोद्धूतनिःस्वनाः।
शिंशुमारशिरः प्राप्य न्यविशंस्ते स्म पार्थिवाः।।
प्रागुत्तरेण नगराद्भूमिभागे समे शुभे।
समाजवाटः शुशुभे भवनैः सर्वतो वृतः।।
प्राकारपरिखोपेतो द्वारतोरणमण्डितः।
वितानेन विचित्रेण सर्वतः समलङ्कृतः।।
तूर्यौघशतसङ्कीर्णः परार्ध्यागुरुधूपितः।
चन्दनोदकसिक्तश्च माल्यदामोपशोभितः।।
कैलासशिखरप्रख्यैर्नभस्तलविलेखिभिः।
सर्वतः संवृतः शुभ्रैः प्रासादैः सुकृतोच्छ्रयै।।
सुवर्णजालसंवीतैर्मणिकुट्टिमभूषणैः।
सुखारोहणसोपानैर्महासनपरिच्छदैः।।
स्रग्दामसमवच्छन्नैरगुरूत्तमवासितैः।
हंसांशुवर्णैर्बहुभिरायोजनसुगन्धिभिः।।
असंबाधशतद्वारैः शयनासनशोभितैः।
बहुधातुपिनद्धाङ्गैर्हिमवच्छिखरैरिव।।
तत्र नानाप्रकारेषु विमानेषु स्वलङ्कृताः।
स्पर्धमानास्तदाऽन्योन्यं निषेदुः सर्वपार्थिवाः।।
तत्रोपविष्टान्ददृशुर्महासत्वान्पृथग्जनाः।
राजसिंहान्महाभागान्कृष्णागुरुविभूषितान्।।
महाप्रसादान्ब्राह्मण्यान्स्वराष्ट्रपरिरक्षिणः।
प्रियान्सर्वस्य लोकस्य सुकृतैः कर्मभिः शुभैः।।
मञ्चेषु च परार्द्ध्येषु पौरजानपदा जनाः।
कृष्णादर्शनसिद्ध्यर्थं सर्वतः समुपाविशन्।।
ब्राह्मणैस्ते च सहिताः पाण्डवाः समुपाविशन्।
ऋद्धिं पञ्चालराजस्य पश्यन्तस्तामनुत्तमाम्।।
ततः समाजो ववृधे स राजन्दिवसान्बहून्।
रत्नप्रदानबहुलः शोभितो नटनर्तकैः।।
वर्तमाने समाजे तु रमणीयेऽह्नि षोडशे।
`मैत्रे मुहूर्ते तस्याश्च राजदाराः पुराविदः।
पुत्रवत्यः सुवसनाः प्रतिकर्मोपचक्रमुः।।
वैडूर्यमयपीठे तु निविष्टां द्रौपदीं तदा।
सतूर्यं स्नापयाञ्चक्रुः स्वर्णकुम्भस्थितैर्जलैः।।
तां निवृत्ताभिषेकां च दुकूलद्वयधारिणीम्।
निन्युर्मणिस्तम्भवतीं वेदिं वै सुपरिष्कृताम्।।
निवेश्य प्राङ्मुखीं हृष्टां विस्मिताक्ष्यः प्रसाधिकाः।
केनालङ्करणेनेमामित्यन्योन्यं व्यलोकयन्।।
धूपोष्मणा च केशानामार्द्रभावं व्यपोहयन्।
बबन्धुरस्या धम्मिल्लं माल्यैः सुरभिगन्धिभिः।।
दूर्वामधूकरचितं माल्यं तस्या ददुः करे।
चक्रुश्च कृष्णागरुणा पत्रसङ्गं कुचद्वये।।
रेजे सा चक्रवाकाङ्का स्वर्णदीर्घा सरिद्वरा।
अलकैः कुटिलैस्तस्या मुखं विकसितं बभौ।।
आसक्तभृङ्गं कुसुमं शशिम्बिम्बं जिगाय तत्।
कालाञ्जनं नयनयोराचारार्थं समादधुः।।
भूषणं रत्नखचितैरलंचक्रुर्यथोचितम्।
माता च तस्याः पृषती हरितालमनश्शिलाम्।।
अङ्गुलीभ्यामुपादाय तिलकं विदधे मुखे।
अलङ्कृतां वधूं दृष्ट्वा योषितो मुदमाययुः।।
माता न मुमुदे तस्याः पतिः कीदृग्भविष्यति।
सौविदल्लाः समागम्य द्रुपदस्याज्ञया ततः।।
एनामारोपयामासुः करिणीं कुचभूषिताम्।
ततोऽवाद्यन्त वाद्यानि मङ्गलानि दिवि स्पृशन्।।
विलासिनीजनाश्चापि प्रवरं करिणीशतम्।
माङ्गल्यगीतं गायन्त्यः पार्स्वयोरुभयोर्ययुः।।
जनापसरणे व्यग्राः प्रतिहार्यः पुरा ययुः।
कोलाहलो महानासीत्तस्मिन्पुरवरे तदा।।
धृष्टद्युम्नो ययावग्रे हयमारुह्य भारत।
द्रुपदो रङ्गदेशे तु बलेन महता युतः।।
तस्थौ व्यूह्य महानीकं पालितं दृढधन्विभिः।'
आप्लुताङ्गीं सुवसनां सर्वाभरणभूषिताम्।।
मालां च समुपादाय काञ्चनीं समलङ्कृताम्।
`आगतां ददृशुः सर्वे रङ्गभूमिमलङ्कृताम्।।'
अवतीर्णा ततो रङ्गं द्रौपदी भरतर्षभ।
`तस्थौ प्रमुदितान्सर्वान्नृपतीन्रङ्गमण्डले।
प्रेक्षन्ती व्रीडितापाङ्गी द्रष्टृणां सुमनोहरा।।'
पुरोहितः सोमकानां मन्त्रविद्ब्राह्मणः शुचिः।
परिस्तीर्य जुहावाग्निमाज्येन विधिवत्तदा।।
संतर्पयित्वा ज्वलनं ब्राह्मणान्स्वस्ति वाच्य च।
वारयामास सर्वाणि वादित्राणि समन्ततः।।
निःशब्दे तु कृते तस्मिन्धृष्टद्युम्नो विशांपते।
कृष्णामादाय विधिवन्मेघदुन्दुभिनिःस्वनः।।
रङ्गमध्यं गतस्तत्र मेघगम्भीरया गिरा।
वाक्यमुच्चैर्जगादेदं श्लक्ष्णमर्थवदुत्तमम्।।
इदं धनुर्लक्ष्यमिमे च बाणाः
शृण्वन्तु मे भूपतयः समेताः।
छिद्रेण यन्त्रस्य मसर्पयध्वं
शरैः शितैर्व्योमचरैर्दशार्धैः।।
एतन्महत्कर्म करोति यो वै
कुलेन रूपेण बलेन युक्तः।
तस्याद्य भार्या भगिनी ममेयं
कृष्णा भवित्री न मृषा ब्रवीमि।।
तानेवमुक्त्वा द्रुपदस्य पुत्रः
पश्चादिदं तां भगिनीमुवाच।
नाम्ना च गोत्रेण च कर्मणा च
संकीर्तयन्भूमिपतीन्समेतान्।।
।। इति श्रीमन्महाभारते आदिपर्वणि
स्वयंवरपर्वणि द्विशततमोऽध्यायः।। 200 ।।