आदिपर्व
अध्यायः १९१
अर्जुन उवाच।
किंनिमित्तमभूद्वैरं विश्वामित्रवसिष्ठयोः।
वसतोराश्रमे दिव्ये शंस नः सर्वमेव तत्।।
गन्धर्व उवाच।
इदं वासिष्ठमाख्यानं पुराणं परिचक्षते।
पार्थ सर्वेषु लोकेषु यथावत्तन्निबोध मे।।
कान्यकुब्जे महानासीत्पार्थिवो भरतर्षभ।
गाधीति विश्रुतो लोके कुशिकस्यात्मसंभवः।।
तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः।
विश्वामित्र इति ख्यतो बभूव रिपुमर्दनः।।
स चचार सहामात्यो मृगयां गहने वने।
मृगान्विध्यन्वराहांश्च रम्येषु मरुधन्वसु।।
व्यायामकर्शितः सोऽथ मृगलिप्सुः पिपासितः।
आजगाम नरश्रेष्ठ वसिष्ठस्याश्रमं प्रति।।
तमागतमभिप्रेक्ष्य वसिष्ठः श्रेष्ठभागृषिः।
विश्वामित्रं नरश्रेष्ठं प्रतिजग्राह पूजया।।
पाद्यार्घ्याचमनीचैस्तं स्वागतेन च भारत।
तथैव परिजग्राह वन्येन हविषा तदा।।
तस्याथ कामधुग्धेनुर्वसिष्ठस्य महात्मनः।
उक्ता कामान्प्रयच्छेति सा कामान्दुदुहे ततः।।
`बाष्पाढ्यस्योदनस्यैव राशयः पर्वतोपमाः।
निष्ठानानि च सूपांश्च दधिकुल्यास्तथैव च।।
कूपांश्च घृतसंपूर्णान्गौड्यान्नानि सहस्रशः।
इक्षून्मधूनि लाजांश्च मैरेयांश्च वरासवान्।।'
ग्राम्यारण्याश्चौषधीश्च दुदुहे पय एव च।
षड्रसं चामृतनिभं रसायनमनुत्तमम्।।
भोजनीयानि पेयानि भक्ष्याणि विविधानि च।
लेह्यान्यमृतकल्पानि चोष्याणि च तथार्जुना।।
रत्नानि च महार्हाणि वासांसि विविधानि च।
तैः कामैः सर्वसंपूर्णैः पूजितश्च महिपतिः।।
सामात्यः सबलश्चैव तुतोष स भृशं तदा।
षडुन्नतां सुपार्श्वोरुं पृथुपञ्चसमावृताम्।।
मण्डूकनेत्रां स्वाकारां पीनोधसमनिन्दिताम्।
सुवालघिं शङ्कुकर्णां चारुशृङ्गां मनोरमाम्।।
पुष्टायतशिरोग्रीवां विस्मितः सोऽभिवीक्ष्यताम्।
अभिनन्द्य स तां राजा नन्दिनीं गाधिनन्दनः।।
अब्रवीच्च भृशं तुष्टः स राजा तमृषिं तदा।
अर्बुदेन गवां ब्रह्मन्मम राज्येन वा पुनः।।
नन्दिनीं संप्रयच्छस्व भुङ्क्ष्व राज्यं महामुने।
वसिष्ठ उवाच।
देवतातिथिपित्रर्थं याज्यार्थं च पयस्विनी।।
अदेया नन्दिनीयं वै राज्येनापि तवानघ।
विश्वामित्र उवाच।
`रत्नं हि भगवन्नेतद्रत्नहारी च पार्थिवः।'
क्षत्रियोऽहं भवान्विप्रस्तपःस्वाध्यायसाधनः।।
ब्राह्णेषु कुतो वीर्यं प्रशान्तेषु धृतात्मसु।
अर्बुदेन गवां यस्त्वं न ददासि ममेप्सितम्।।
स्वधर्मं न प्रहास्यामि नेष्यामि च बलेन गाम्।
वसिष्ठ उवाच।
बलस्थश्चासि राजा च बाहुवीर्यश्च क्षत्रियः।।
यथेच्छसि तथा क्षिप्रं कुरु मा त्वं विचारय।
गन्धर्व उवाच।
एवमुक्तस्तथा पार्थ विश्वामित्रो बलादिव।।
हंसचन्द्रप्रतीकाशां नन्दिनीं तां जहार गाम्।
`सा तदा ह्रियमाणा च विश्वामित्रबलैर्बलात्।'
कशादण्डप्रणुदिता काल्यमाना इतस्ततः।।
हंभायमाना कल्याणी वसिष्ठस्याथ नन्दिनी।
आगम्याभिमुखी पार्थ तस्थौ भगवदुन्मुखी।।
भृशं च ताड्यमाना वै न जगामाश्रमात्ततः।
वसिष्ठ उवाच।
शृणोमि ते रवं भद्रे विनदन्त्याः पुनः पुनः।।
ह्रियसे त्वं बलाद्भद्रे विश्वामित्रेण नन्दिनि।
किं कर्तव्यं मया तत्र क्षमावान्ब्राह्मणो ह्यहम्।
गन्धर्व उवाच।
सा भयान्नन्दिनी तेषां बलानां भरतर्षभ।
विश्वामित्रभयोद्विग्ना वसिष्ठं समुपागमत्।।
गौरुवाच।
कशाग्रदण्डाभिहतां क्रोशन्तीं मामनाथवत्।
विश्वामित्रबलैर्घोरैर्भगवन् किमुपेक्षसे।।
गन्धर्व उवाच।
एवं तस्यां तदा पार्थ धर्षितायां महामुनिः।
न चुक्षुभे तदा धैर्यान्न चचाल धृतव्रतः।।
वसिष्ठ उवाच।
क्षत्रियाणां बलं तेजो ब्राह्मणानां क्षमा बलम्।
क्षमा मां भजते यस्माद्गम्यतां यदि रोचते।।
नन्दिन्युवाच।
किं नु त्यक्ताऽस्मि भगवन्यदेवं त्वं प्रभाषसे।
अत्यक्ताऽहं त्वया ब्रह्मन्नेतुं शक्या न वै बलात्।।
वसिष्ठ उवाच।
न त्वां त्यजामि कल्याणि स्थीयतां यदि शक्यते।
दृढेन दाम्ना बद्ध्वैष वत्सस्ते हियते बलात्।।
गन्धर्व उवाच।
स्थीयतामिति तच्छ्रुत्वा वसिष्ठस्य पयस्विनी।
ऊर्ध्वाञ्चितशिरोग्रीवा प्रबभौ रौद्रदर्शना।।
क्रोधरक्तेक्षणा सा गौर्हंभारवघनस्वना।
विश्वामित्रस्य तत्सैन्यं व्यद्रावयत सर्वशः।।
कशाग्रदण्डाभिहता काल्यमाना ततस्ततः।
क्रोधरक्तेक्षणा क्रोधं भूय एव समाददे।।
आदित्य इव मध्याह्ने क्रोधदीप्तवपुर्बभौ।
अङ्गारवर्षं मुञ्चन्ती मुहुर्वालधितो महत्।।
असृजत्पह्लवान्पुच्छात्प्रस्रवाद्द्राविडाञ्छकान्।
योनिदेशाच्च यवानाञ्शकृतः शबरान्बहून्।।
मूत्रतश्चासृजत्कांश्चिच्छबरांश्चैव पार्श्वतः।
पौण्ड्रान्किरातान्यवनान्सिंहलान्बर्बरान्खसान्।।
चिबुकांश्च पुलिन्दांश्च चीनान्हूणान्सकेरलान्।
ससर्ज फेनतः सा गौर्म्लेच्छान्बहुविधानपि।।
तैर्विसृष्टैर्महासैन्यैर्नानाम्लेच्छगणैस्तदा।
नानावरणसंछन्नैर्नानायुधधरैस्तथा।।
अवाकीर्यत संरब्धैर्विश्वामित्रस्य पश्यतः।
एकैकश्च तदा योधः पञ्चभिः सप्तभिर्वृतः।।
अस्त्रवर्षेण महता वध्यमानं बलं तदा।
प्रभग्नं सर्वतस्त्रस्तं विश्वामित्रस्य पश्यतः।।
`तस्य तच्चतुरङ्गं वै बलं परमदुःसहम्।
प्रभग्नं सर्वतो घोरं पयस्विन्या विनिर्जितम्।।'
न च प्राणैर्वियुज्यन्ते केचित्तत्रास्य सैनिकाः।
विश्वामित्रस्य संक्रुद्धैर्वासिष्ठैर्भरतर्षभ।।
सा गौस्तत्सकलं सैन्यं कालयामास दूरतः।
विश्वामित्रस्य तत्सैन्यं काल्यमानं त्रियोजनम्।।
क्रोशमानं भयोद्विग्नं त्रातारं नाध्यगच्छत।
`विश्वामित्रस्ततो दृष्ट्वा क्रोधाविष्टः स रोदसी।।
ववर्ष शरवर्षाणि वसिष्ठे मुनिसत्तमे।
घोररूपांश्च नाराचान्क्षुरान्भल्लान्महामुनिः।।
विश्वामित्रप्रयुक्तांस्तान्वैणवेन व्यमोचयत्।
वसिष्ठस्य तदा दृष्ट्वा कर्मकौशलमाहवे।।
विश्वामित्रोऽपि कोपेन भूयः शत्रुनिपातनः।
दिव्यास्त्रवर्षं तस्मै स प्राहिणोन्मुनये रुषा।।
आग्नेयं वारुणं चैन्द्रं याम्यं वायव्यमेव च।
विससर्ज महाभागे वसिष्ठे ब्रह्मणः सुते।।
अस्त्राणि सर्वतो ज्वालां विसृजन्ति प्रपेदिरे।
युगान्तसमये घोराः पतङ्गस्येव रश्मयः।।
वसिष्ठोऽपि महातेजा ब्रह्मशक्तिप्रयुक्तया।
यष्ट्या निवारयामास सर्वाण्यस्त्राणि स स्मयन्।।
ततस्ते भस्मसाद्भूताः पतन्ति स्म महीतले।
अपोह्य दिव्यान्यस्त्राणि वसिष्ठो वाक्यमब्रवीत्।।
निर्जितोऽसि महाराज दुरात्मन्गाधिनन्दन।
यदि तेऽस्ति परं शौर्यं तद्दर्शय मयि स्थिते।।
गन्धर्व उवाच।
विश्वामित्रस्तथा चोक्तो वसिष्ठेन नराधिपः।
नोवाच किंचिद्व्रीडाढ्यो विद्रावितमहाबलः'।।
दृष्ट्वा तन्महदाश्चर्यं ब्रह्मतेजोभवं तदा।
विश्वामित्रः क्षत्रभावान्निर्विण्णो वाक्यमब्रवीत्।
धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम्।।
बलाबले विनिश्चित्य तप एव परं बलम्।
गन्धर्व उवाच।
स राज्यं स्फीतमुत्सृज्य तां च दीप्तां नृपश्रियम्।।
भोगांश्च पृष्ठतः कृत्वा तपस्येव मनो दधे।
स गत्वा तपसा सिद्धिं लोकान्विष्टभ्य तेजसा।।
तताप सर्वान्दीप्तौजा ब्राह्मणत्वमवाप्तवान्।
अपिबच्च ततः सोममिन्द्रेण सह कौशिकः।।
`एवंवीर्यस्तु राजर्षिर्विप्रर्षिः संबभूव ह'।।
।। इति श्रीमन्महाभारते आदिपर्वणि
चैत्ररथपर्वमि एकनवत्यधिकशततमोऽध्यायः।। 191 ।।