आदिपर्व
अध्यायः १६८
वैशंपायन उवाच।
युधिष्ठिरवचः श्रुत्वा कुन्तीमङ्गेऽधिरोप्य सा।
भीमार्जुनान्तरगता यमाभ्यां च पुरस्कृता।।
तिर्यग्युधिष्ठिरे याति हिडिम्बा भीमगामिनी।
शालिहोत्रसरो रम्यमाससाद जलार्थिनी।।
वनस्पतितलं गत्वा परिमृज्य गृहं यथा।
पाण्डवानां च वासं सा कृत्वा पर्णमयं तथा।।
आत्मनश्च तथा कुन्त्या एकोद्देशे चकार सा।
पाण्डवास्तु ततः स्नात्वा शुद्धाः सन्ध्यामुपास्य च।।
तृषिताः क्षुत्पिपासार्ता जलमात्रेण वर्तयन्।
शालिहोत्रस्ततो ज्ञात्वा क्षुधार्तान्पाण्डवांस्तदा।।
मनसा चिन्तयामास पानीयं भोजनं महत्।
ततस्ते पाण्डवाः सर्वे विश्रान्ताः पृथया सह।।
यथा जतुगृहे वृत्तं राक्षसेन कृतं च यत्।
कृत्वा कथा बहुविधाः कथान्ते पाण्डुनन्दनम्।।
कुन्ती राजसुता वाक्यं भीमसेनमथाब्रवीत्।
यथा पाण्डुस्तथा मान्यस्तव ज्येष्ठो युधिष्ठिरः।।
अहं धर्मविदाऽनेन मान्या गुरुतरा तव।
तस्मात्पाण्डुहितार्थं मे युवराज हितं कुरु।।
निकृता धार्तराष्ट्रेण पापेनाकृतबुद्धिना।
दुष्कृतस्य प्रतीकारं न पश्यामि वृकोदर।।
तस्मात्कतिपयाहेन योगक्षेमं भविष्यति।
क्षेमं दुर्गमिमं वासं वत्स्याम हि यथा वयम्।।
इदमन्यन्महदुःखं धर्मकृच्छ्रं वृकोदर।
दृष्ट्वैव त्वां महाप्राज्ञ अनङ्गाभिप्रचोदिता।।
युधिष्ठिरं च मां चैव वरयामास धर्मतः।
धर्मार्थं देहि पुत्रं त्वं स नः श्रेयः करिष्यति।।
प्रतिवाक्यं तु नेच्छामि आवयोर्वचनं कुरु।
वैशंपायन उवाच।
तथेति तत्प्रतिज्ञाय भीमसेनोऽब्रवीदिदम्।।
शासनं ते करिष्यामि वेदशासनमित्यपि।
समक्षं भ्रातृमध्ये तु तां चोवाच स राक्षसीम्।।
शृणु राक्षसि सत्येन समयं ते वदाम्यहम्।'
यावत्कालेन भवति पुत्रस्योत्पादनं शुभे।।
तावत्कालं चरिष्यामि त्वया सह सुमध्यमे।
`विशेषतो मत्सकाशे मा प्रकाशय नीचताम्।।
उत्तमस्त्रीगुणोपेता भजेथा वरवर्णिनि।
वैशंपायन उवाच।
सा तथेति प्रतिज्ञाय हिडिम्बा राक्षसी तथा।।
गताऽहनि निवेशेषु भोज्यं राजार्हमानयत्।
सा कदाचिद्विहारार्थं हिडिम्बा कामरूपिणी।।
भीमसेनमुपादाय ऊर्ध्वमाचक्रमं तदा।
शैलशृङ्गेषु रम्येषु देवतायतनेषु च।।
मृगपक्षिविघृष्टेषु रमणीयेषु सर्वेषु।
कृत्वा सा परमं रूपं सर्वाभरणभूषिता।।
संजल्पन्ती सुमधुरं रमयामास पाण्डवम्।
तथैव वनदुर्गेषु पर्वतद्रुमसानुषु।।
सरस्तु रमणीयेषु पद्मोत्पलवनेषु च।
नदीद्वीपप्रदेशेषु वैडूर्यसिकतेषु च।।
देवारण्येषु पुण्येषु तथा पर्वतसानुषु।
सुतीर्थवनतोयासु तथा गिरिनदीषु च।।
सागरस्य प्रदेशेषु भणिहेमयुतेषु च।
गुह्यकानां निवासेषु कुलपर्वतसानुषु।।
सर्वर्तुफलवृक्षेषु मानसेषु वनेषु च।
बिभ्रती परमं रूपं रमयामास पाण्डवम्।।
`यथा सुमोदते स्वर्गे सुकृत्यप्सरसा सह।
सुतरां परमप्रीतस्तथा रेमे महाद्युतिः।।
शुभं हि जघनं तस्याः सवर्णमणिमेखलम्।
न ततर्प तदा मृद्गन्भीमसेनो मुहुर्मुहुः।।'
रमयन्ती ततो भीमं तत्रतत्र मनोजवा।
सा रेमे तेन संहर्षात्तृप्यन्ती च मुहुर्मुहुः।।
अहस्सु रमयन्ती सा निशाकालेषु पाण्डवम्।
आनीय वै स्वके गेहे दर्शयामास मातरम्।।
भ्रातृभिः सहितो नित्यं स्वपते पाण्डवस्तथा।
कुन्त्याः परिचरन्ती सा तस्याः पार्श्वेवसन्निशां।।
कामांश्च मुखवासादीनानयिष्यति भोजनम्।
तस्यां रात्र्यां व्यतीतायामाजगाम महाव्रतः।।
पाराशर्यो महाप्राज्ञो दिव्यदर्शी महातपाः।
तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं शुभम्।
तस्थुः प्राञ्जलयः सर्वे सस्नुषा चैव माधवी।।
श्रीव्यास उवाच।
मयेदं मनसा पूर्वं विदितं भरतर्षभाः।
यथा स्थितैरधर्मेण धार्तराष्ट्रौर्विवासिताः।।
तद्विदित्वाऽस्मि संप्राप्तश्चिकीर्ष्वै परं हितम्।
न विषादो हि वः कार्यः सर्वमेतत्सुखाय वः।।
सुहृद्वियोजनं कर्म पुराकृतमरिन्दमाः।
तस्य सिद्धिरियं प्राप्ता मा शोचत परन्तपाः।।
समाप्ते दुष्कृते चैव यूयं ते वै न संशयः।
स्वराष्ट्रे विहरिष्यन्तो भविष्यथ सबान्धवाः।।
दीनतो बालतश्चैव स्नेहं कुर्वन्ति बान्धवाः।
तस्मादभ्यधिकः स्नेहो युष्मासु मम संप्रति।।
स्नेहपूर्वं चिकीर्षामि हितं यत्तन्निबोधत।
वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः।।
एतद्वै शालिहोत्रस्य तपसा निर्मितं सरः।
रमणीयमिदं तोयं क्षुत्पिपासाश्रमापहम्।।
कार्यार्थिनस्तु षण्मासान्विहरध्वं यथासुखम्।।
वैशंपायन उवाच।
एवं स तान्समाश्वास्य व्यासः पार्थानरिन्दमान्।
स्नेहाच्च संपरिष्वज्य कुन्तीमाश्वासयत्प्रभुः।।
स्नुषे मा रोद मा रोदेत्येवं व्यासोऽब्रवीद्वचः।
जीवपुत्रे सुतस्तेऽयं धर्मनित्यो युधिष्ठिरः।।
पृथिव्यां पार्थइवान्सर्वान्प्रशासिष्यति धर्मराट्।
धर्मेण जित्वा पृथिवीमखिलां धर्मकृद्वशी।।
स्थापयित्वा वशे सर्वां सपर्वतवनां शुभाम्।
भीमसेनार्जुनबलाद्भोक्ष्यत्ययमसंशयम्।।
पुत्रास्तव च माद्र्याश्च पञ्चैते लोकविश्रुताः।
स्वराष्ट्रे विहरिष्यन्ति सुखं सुमनसस्तदा।।
यक्ष्यन्ति च नरव्याघ्रा विजित्य पृथिवीमिमाम्।
राजसूयाश्वमेधाद्यैः क्रतुभिर्भूरिदक्षिणैः।।
अनुगृह्य सुहृद्वर्गं धनेन च सुखेन च।
पितृपैतामहं राज्यमहारिष्यन्ति ते सुताः।।
स्नुषा कमलपत्राक्षी नाम्ना कमलपालिका।
वशवर्तिनी तु भीमस्य पुत्रमेषा जनिष्यति।।
तेन पुत्रेण कृच्छ्रेषु भविष्यथ च तारिताः।
इह मासं प्रतीक्षध्वमागमिष्याम्यहं पुनः।।
देशकालौ विदित्वैवं यास्यध्वं परमां मुदम्।।
वैशंपायन उवाच।
स तैः प्राञ्जलिभिः सर्वैस्तथेत्युक्तो जनाधिप।
जगाम भगवान्व्यासो यथागतमृषिः प्रभुः।।
।। इति श्रीमन्महाभारते आदिपर्वणि
हिडिम्बवधपर्वणि अष्टषष्ट्यधिकशततमोऽध्यायः।। 168 ।।