आदिपर्व
अध्यायः १६५
वैशंपायन उवाच।
तां विदित्वा चिरगतां हिडिम्बो राक्षसेश्वरः।
अवतीर्य द्रुमात्तस्मादाजगामाशु पाण्डवान्।।
लोहिताक्षो महाबाहुरूर्ध्वकेशो महाननः।
मेघसङ्घातवर्ष्मा च तीक्ष्णदंष्ट्रो भयानकः।।
तलं तलेन संहत्य बाहू विक्षिप्य चासकृत्।
उद्वृत्तनेत्रः संक्रुद्धो दन्तान्दन्तेषु निष्कुषन्।।
कोऽद्य मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः।
न बिभेति हिडिम्बी च प्रेषिता किमनागता।।
वैशंपायन उवाच।
तमापतन्तं दृष्ट्वै तथा विकृतदर्शनम्।
हिडिम्बोवाच वित्रस्ता भीमसेनमिदं वचः।।
आपतत्येष दुष्टात्मा संक्रुद्धः पुरुषादकः।
साऽहं त्वां भ्रातृभिः सार्धं यद्ब्रवीमि तथा कुरु।।
अहं कामगमा वीर रक्षोबलसमन्विता।
आरुहेमां मम श्रोणिं नेष्यामि त्वां विहायसा।।
प्रबोधयैतान्संसुप्तान्मातरं च परन्तप।
सर्वानेव गमिष्याभि गृहीत्वा वो विहायसा।।
भीम उवाच।
मा भैस्त्वं पृथुसुश्रोणि नैष कश्चिन्मयि स्थिते।
अहमेनं हनिष्यामि पश्यन्त्यास्ते सुमध्यमे।।
नायं प्रतिबलो भीरु राक्षसापसदो मम।
सोढुं युधि परिस्पन्दमथवा सर्वराक्षसाः।।
पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाविमौ।
ऊरू परिघसङ्काशौ संहतं चाप्युरो महत्।।
विक्रमं मे यथेन्द्रस्य साऽद्य द्रक्ष्यसि शोभने।
माऽवमंस्थाः पृथुश्रोणि मत्वा मामिह मानुषम्।।
हिडिम्बोवाच।
नावमन्ये नरव्याघ्र त्वामहं देवरूपिणम्।
दृष्टप्रभावस्तु मया मानुषेष्वेव राक्षसः।।
वैशंपायन उवाच।
तथा संजल्पतस्तस्य भीमसेनस्य भारत।
वाचः शुश्राव ताः क्रुद्धो राक्षसः पुरुषादकः।।
अवेक्षमाणस्तस्याश्च हिडिम्बो मानुषं वपुः।
स्रग्दामपूरितशिखां समग्रेन्दुनिभाननाम्।।
सुभ्रूनासाक्षिकेशान्तां सुकुमारनखत्वचम्।
सर्वाभरणसंयुक्तां सुसूक्ष्माम्बरधारिणीम्।।
तां तथा मानुषं रूपं बिभ्रतीं सुमनोहरम्।
पुंस्कामां शङ्कमानश्च चुक्रोध पुरुषादकः।।
संक्रुद्धो राक्षसस्तस्या भगिन्याः कुरुसत्तम।
उत्फाल्य विपुले नेत्रे ततस्तामिदमब्रवीत्।।
को हि मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः।
न बिभेषि हिडिम्बे किं मत्कोपाद्विप्रमोहिता।।
धिक्त्वामसति पुंस्कामे मम विप्रियकारिणि।
पूर्वेषां राक्षसेन्द्राणां सर्वेषामयशस्करि।।
यानिमानाश्रिताऽकार्षीर्विप्रियं समुहन्मम।
एष तानद्य वै सर्वान्हनिष्यामि त्वया सह।।
वैशंपायन उवाच।
एवमुक्त्वा हिडिम्बां स हिडिम्बो लोहितेक्षणः।
वधायाभिपपातैनान्दन्तैर्दन्तानुपस्पृशन्।।
गर्जन्तमेवं विजने भीमसेनोऽभिवीक्ष्य तम्।
रक्षन्प्रबोधं भ्रातॄणां मातुश्च परवीरहा।।
तमापतान्तं संप्रेक्ष्य भीमः प्रहरतां वरः।
भर्त्सयामास तेजस्वी तिष्ठतिष्ठेति चाब्रवीत्।।
वैशंपायन उवाच।
भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव।
भगिनीं प्रति सङ्क्रुद्धमिदं वचनमब्रवीत्।।
किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः।
मामासादय दुर्बुद्धे तरसा त्वं नराशन।।
मय्येव प्रहरैहि त्वं न स्त्रियं हन्तुमर्हसि।
विशेषतोऽनपकृते परेणापकृते सति।।
न हीयं स्ववशा बाला कामयत्यद्य मामिह।
चोदितैषा ह्यनङ्गेन शरीरान्तरचारिणा।।
भगिनी तव दुर्वृत्त रक्षसां वै यशोहर।
त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च।।
कामयत्यद्य मां भीरुस्तव नैषापराध्यति।
अनङ्गेन कृते दोषे नेमां गर्हितुमर्हसि।।
मयि तिष्ठति दुष्टात्मन्न स्त्रियं हन्तुमर्हसि।
संगच्छस्व मया सार्धमेकेनैको नराशन।।
अहमेको गमिष्यामि त्वामद्य यमसादनम्।
अद्य मद्बलनिष्पिष्टं शिरो राक्षस दीर्यताम्।
कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसाः।।
अद्य गात्राणि ते कङ्काः श्येना गोमायवस्तथा।
कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे।।
क्षणेनाद्य करिष्येऽहमिदं वनमराक्षसम्।
पुरा यद्दूषितं नित्यं त्वया भक्षयता नरान्।।
अद्य त्वां भगिनी रक्षः कृष्यमाणं मयाऽसकृत्।
द्रक्ष्यत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम्।।
निराबाधास्त्वयि हते मया राक्षसपांसन।
वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः।।
हिडिम्ब उवाच।
गर्जितेन वृथा किं ते कत्थितेन च मानुष।
कृत्वैतत्कर्मणा सर्वं कत्थेया मा चिरं कृथाः।।
बलिनं मन्यसे यच्चाप्यात्मानं सपराक्रमम्।
ज्ञास्यस्यद्य समागम्य मयात्मानं बलाधिकम्।।
न तावदेतान्हिंसिष्ये स्वपन्त्वेते यथासुखम्।
एष त्वामेव दुर्बुद्धे निहन्म्यद्याप्रियंवदम्।।
पीत्वा तवासृग्गात्रेभ्यस्ततः पश्चादिमानपि।
हनिष्यामि ततः पश्चादिमां विप्रियकारिणीम्।।
वैशंपायन उवाच।
एवमुक्त्वा ततो बाहुं प्रगृह्य पुरुषादकः।
अभ्यद्रवत संक्रुद्धो भीमसेनमरिन्दमम्।।
तस्याभिद्रवतस्तूर्णं भीमो भीमपराक्रमः।
वेगेन प्रहितं बाहुं निजग्राह हसन्निव।।
निगृह्य तं बलाद्भीमो विस्फुरन्तं चकर्ष ह।
तस्माद्देशाद्धनूंष्यष्टौ सिंहः क्षुद्रमृगं यथा।।
ततः स राक्षसः क्रुद्धः पाण्डवेन बलार्दितः।
भीमसेनं समालिङ्ग्य व्यनदद्भैरवं रवम्।।
पुनर्भीमो बलादेनं विचकर्ष महाबलः।
मा शब्दः सुखसुप्तानां भ्रातॄणां मे भवेदिति।।
`हस्ते गृहीत्वा तद्रक्षो दूरमन्यत्र नीतवान्।
पृच्छे गृहीत्वा तुण्डेन गरुडः पन्नगं यथा।।'
अन्योन्यं तौ समासाद्य विचकर्षतुरोजसा।
हिडिम्बो भीमसेनश्च विक्रमं चक्रतुः परम्।।
बभञ्जतुस्तदा वृक्षाँल्लताश्चाकर्षतुस्तदा।
मत्ताविव चं संरब्धौ वारणौ षष्टिहायनौ।।
`पादपानुद्धरन्तौ तावूरुवेगेन वेगितौ।
स्फोटयन्तौ लताजालान्यूरुभ्यां गृह्य सर्वशः।।
वित्रासयन्तौ तौ शब्दैः सर्वतो मृगपक्षिणः।
बलेन बलिनौ मत्तावन्योन्यवधकाङ्क्षिणौ।।
भीमराक्षसयोर्युद्धं तदाऽवर्तत दारुणम्।
पुरा देवासुरे युद्धे वृत्रवासवयोरिव।।
भङूक्त्वा वृक्षान्महाशाखांस्ताडयामासतुः क्रुधा।
सालतालतमालाम्रवटार्जुनविभीतकान्।।
न्यग्रोधप्लक्षखर्जूरपनसानश्मकण्टकान्।
एतानन्यान्महावृक्षानुत्खाय तरसाऽखिलान्।।
उत्क्षिप्यान्योन्यरोषेण ताडयामासतू रणे।
यदाऽभवद्वनं सर्वं निर्वृक्षं वृक्षसङ्कुलम्।।
तदा शिलाश्च कुञ्जांश्च वृक्षान्कण्टकिनस्तथा।
ततस्तौ गिरिशृङ्गाणि पर्वतांश्चाभ्रलेलिहान्।।
शैलांश्च गण्डपाषाणानुत्खायादाय वैरिणौ।
चिक्षेपतुरुपर्याजावन्योन्यं विजयेषिणौ।।
तद्वनं परितः पञ्चयोजनं निर्महीरुहम्।
निर्लतागुल्मपाषाणं निर्मृगं चक्रतुर्भृशम्।।
तयोर्युद्धेन राजेन्द्र तद्वनं भीमरक्षसोः।
मुहूर्तेनाभवत्कूमर्पृष्ठवच्छ्लक्ष्णमव्ययम्।।
ऊरुबाहुपरिक्लेशात्कर्षन्तावितरेतरम्।
उत्कर्षन्तौ विकर्षन्तौ प्रकर्षन्तौ परस्परम्।।
तौ स्वनेन विना राजन्गर्जन्तौ च परस्परम्।
पाषाणसंघट्टनिभैः प्रहारैरभिजघ्नतुः।।
अन्योन्यं च समालिङ्ग्य विकर्षन्तौ परस्परम्।
बाहुयुद्धमभूद्धोरं बलिवासवयोरिव।
युद्धसंरम्भनिर्गच्छत्फूत्काररवनिस्वनम्।।'
तयोः शब्देन महता विबुद्धास्ते नरर्षभाः।
सह मात्रा च ददृशुर्हिडिम्बामग्रतःस्थिताम्।।
।। इति श्रीमन्महाभारते आदिपर्वणि
हिडिम्बवधपर्वणि पञ्चषष्ट्यधिकशततमोऽध्यायः।। 165 ।।