आदिपर्व
अध्यायः १५२
वैशंपायन उवाच।
प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम्।
दुर्योधनो लक्षयित्वा पर्यतप्यत दुर्मनाः।।
ततो वैकर्तनः कर्णः शकुनिश्चापि सौबलः।
अनेकारभ्युपायैस्ते जिघांसन्ति स्म पाण्डवान्।।
पाण्डवा अपि तत्सर्वं प्रतिचक्रुर्यथाबलम्।
उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः।।
गुणैः समुदितान्दृष्ट्वा पौराः पाण्डुसुतांस्तदा।
कथयाञ्चक्रिरे तेषां गुणान्संसत्सु भारत।।
राज्यप्राप्तिं च संप्राप्तं ज्येष्ठं पाण्डुसुतं तदा।
कथयन्ति स्म संभूय चत्वरेषु सभासु च।।
प्रज्ञाश्चक्षुरचक्षुष्ट्वाद्धृतराष्ट्रो जनेश्वरः।
राज्यं न प्राप्तवान्पूर्वं स कथं नृपतिर्भवेत्।।
तथा शान्तनवो भीष्मः सत्यसन्धो महाव्रतः।
प्रत्याख्याय पुरा राज्यं न स जातु ग्रहीष्यति।।
ते वयं पाण्डवज्येष्ठं तरुणं वृद्धशीलिनम्।
अभिषिञ्चाम साध्वद्य सत्यकारुण्यवेदिनम्।।
स हि भीष्मं शान्तनवं धृतराष्ट्रं च धर्मवित्।
सपुत्रं विविधैर्भोगैर्योजयिष्यति पूजयन्।।
वैशंपायन उवाच।
तेषां दुर्योधनः श्रुत्वा तानि वाक्यानि जल्पताम्।
युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः।।
स तप्यमानो दुष्टात्मा तेषां वाचो न चक्षमे।
ईर्ष्यया चापि संतप्तो धृतराष्ट्रमुपागमत्।।
ततो विरहितं दृष्ट्वा पितरं प्रतिपूज्य सः।
पौरानुरागसंतप्तः पश्चादिदमभाषत।।
श्रुता मे जल्पतां तात पौराणामशिवा गिरः।
त्वामनादृत्य भीष्मं च पतिमिच्छन्ति पाण्डवम्।।
मतमेतच्च भीष्मस्य न स राज्यं बुभुक्षति।
अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः।।
पितृतः प्राप्तवान्राज्यं पाण्डुरात्मगुणैः पुरा।
त्वमन्धगुणसंयोगात्प्राप्तं राज्यं न लब्धवान्।।
स एष पाण्डोर्दायाद्यं यदि प्राप्नोति पाण्डवः।
तस्य पुत्रो ध्रुवं प्राप्तस्तस्य तस्यापि चापरः।।
ते वयं राजवंशेन हीनाः सह सुतैरपि।
अवज्ञाता भविष्यामो लोकस्य जगतीपते।।
सततं निरयं प्राप्ताः परपिण्डोपजीविनः।
न भवेम यथा राजंस्तथा नीतिर्विधीयताम्।।
यदि त्वं हि पुरा राजन्निदं राज्यमवाप्तवान्।
ध्रुवं प्राप्स्याम च वयं राज्यमप्यवशे जने।।
`वैशंपायन उवाच।
धृतराष्ट्रस्तु पुत्रस्य श्रुत्वा वचनमीदृशम्।
मुहूर्तमिव संचिन्त्य दुर्योधनमथाब्रवीत्।।
धर्मनित्यस्तथा पाण्डुः सुप्रीतो मयि कौरवः।
सर्वेषु ज्ञातिषु तथा मदीयेषु विशेषतः।।
नात्र किंचन जानाति भोजनादि चिकीर्षितम्।
निवेदयति तत्सर्वं मयि धर्मभृतां वरः।।
तस्य पुत्रो यथा पाण्डुस्तथा धर्मपरः सदा।
गुणावाँल्लोकविख्यातो नगरे च प्रतिष्ठितः।।
स कथं शक्यतेऽस्माभिरपाक्रष्टुं नरर्षभः।
राज्यमेष हि नः प्राप्तः ससहयो विशेषतः।।
भृता हि पाण्डुनाऽमात्या बलं च सततं मतम्।
धृताः पुत्राश्च पौत्राश्च तेषामपि विशेषतः।।
ते तथा संस्तुतास्तात विषये पाण्डुना नराः।
कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान्।।
नैते विषयमिच्छेयुर्धर्मत्यागे विशेषतः।
ते वयं कौरवेन्द्राणामेतेषां च महात्मनाम्।।
कथं न वाच्यतां तात गच्छेम जगतस्तथा।।
दुर्योधन उवाच।
मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः।
यतः पुतस्ततो द्रोणो भविता नात्र संशयः।।
कृपः शारद्वतश्चैव यत एव वयं ततः।
बागिनेयं ततो द्रौणिं न त्यक्ष्यति कथंचन।।
क्षत्ता तु बन्धुरस्माकं प्रच्छन्नस्तु ततः परैः।
न चैकः स समर्थोऽस्मान्पाण्डवार्थे प्रबाधितुम्।।
सुविस्रब्धान्पाण्डुसुतान्सह मात्रा विवासय।
वारणावतमद्यैव नात्र दोषो भविष्यति।।
विनिद्राकरणं घोरं हृदि शल्यमिवार्पितम्।
शोपकपावकमुद्धूतं कर्मणानेन नाशय।।'
।। इति श्रीमन्महाभारते आदिपर्वणि
संभवपर्वणि द्विपञ्चाशदधिकशततमोऽध्यायः।। 152 ।।