आदिपर्व
अध्यायः १२८
वैशंपायन उवाच।
एवमुक्तस्तया राजा तां देवीं पुनरब्रवीत्।
धर्मविद्धर्मसंयुक्तमिदं वचनमुत्तमम्।।
पाण्डुरुवाच।
एवमेतत्पुरा कुन्ति व्युषिताश्वश्चकार ह।
यथा त्वयोक्तं कल्याणि स ह्यासीदमरोपमः।।
अथ त्विदं प्रवक्ष्यामि धर्मतत्त्वं निबोध मे।
पुराणमृषिभिर्दृष्टं धर्मविद्भिर्महात्मभिः।।
अनावृताः किल पुरा स्त्रिय आसन्वरानने।
कामचारविहारिण्यः स्वतन्त्राश्चारुहासिनि।।
तासां व्युच्चरमाणानां कौमारात्सुभगे पतीन्।
नाधर्मोऽभूद्वरारोहे स हि धर्मः पुराऽभवत्।।
तं चैव धर्मं पौराणं तिर्यग्योनिगताः प्रजाः।
अद्याप्यनुविधीयन्ते कामक्रोधविवर्जिताः।।
प्रमाणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः।
उत्तरेषु च रम्भोरु कुरुष्वद्यापि पूज्यते।
स्त्रीणामनुग्रहकरः स हि धर्मः सनातनः।।
`नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः।
नान्तकः सर्वभूतानां न पुंसां वामलोचनाः।।
एवं तृष्णा तु नारीणां पुरुषं पुरुषं प्रति।
अगम्यागमनं स्त्रीणां नास्ति नित्यं शुचिस्मिते।।
पुत्रं वा किल पौत्रं वा कासांचिद्धातरं तथा।
रहसीह नरं दृष्ट्वा योनिरुत्क्लिद्यते तदा।।
एतत्स्वाभाविकं स्त्रीणां न निमित्तकृतं शुभे।'
अस्मिंस्तु लोके नचिरान्मर्यादेयं शुचिस्मिते।।
स्थापिता येन यस्माच्च तन्मे विस्तरतः शृणु।
बभूवोद्दालको नाम महर्षिरिति नः श्रुतम्।।
श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभवन्मुनिः।
मर्यादेयं कृता तेन धर्म्या वै श्वेतकेतुना।।
कोपात्कमलपत्राक्षि यदर्थं तन्निबोध मे।।
`श्वेतकेतोः पिता देवि तप उग्रं समास्थितः।
ग्रीष्मे पञ्चतपा भूत्वा वर्षास्वाकाशगोऽभवत्।।
शिशइरे सलिलस्थायी सह पत्न्या महातपाः।
उद्दालकं तपस्यन्तं नियमेन समाहितम्।।
तस्य पुत्रः श्वेतकेतुः परिचर्यां चकार ह।
अभ्यागच्छद्द्विजः कश्चिद्वलीपलितसंततः।।
तं दृष्ट्वैव मुनिः प्रीतः पूजयामास शास्त्रतः।
स्वागतेन च पाद्येन मृदुवाक्यैश्च भारत।।
शाकमूलफलाद्यैश्च वन्यैरन्यैरपूजयत्।
क्षुत्पिपासाश्रमेंणार्तः पूजितश्च महर्षिणा।।
विश्रान्तो मुनिमासाद्य पर्यपृच्छद्द्विजस्तदा।
उद्दालक महर्षे त्वं सत्यं मे ब्रूहि माऽनृतम्।।
ऋषिपुत्रः कुमारोऽयं दर्शनीयो विशेषतः।
तव पुत्रमिमं मन्ये कृतकृत्योऽसि तद्वद।।
उद्दालक उवाच।
मम पत्नी महाप्राज्ञ कुशिकस्य सुता मता।
मामेवानुगता पत्नी मम नित्यमनुव्रता।।
अरुन्धतीव पत्नीनां तपसा कर्शितस्तनी।
अस्यां जातः श्वेतकेतुर्मम पुत्रो महातपाः।।
वेदवेदाङ्गविद्विप्र मच्छासनपरायणः।
लोकज्ञः सर्वलोकेषु विश्रुतः सत्यवाग्घृणी।।
ब्राह्मण उवाच।
अपुत्री भार्यया चार्थी वृद्धोऽहं मन्दचाक्षुषः।
पित्र्यादृणादनिर्मुक्तः पूर्वमेवाकृतस्त्रियः।।
प्रजारणिस्तु पत्नी ते कुलशीलसमन्विता।
सदृशी मम गोत्रेण वहाम्येनां क्षमस्व मे।।
पाण्डुरुवाच।
इत्युक्त्वा मृगशावाक्षीं चीरकृष्णाजिनाम्बराम्।
यष्ट्याधारः स्रस्तगात्रो मन्दचक्षुरबुद्धिमान्।।
स्वव्यापाराक्षमां श्रेष्ठमचित्तामात्मनि द्विजः।'
श्वेतकेतोः किल पुरा समक्षं मातरं पितुः।।
जग्राह ब्राह्मणः पापौ गच्छाव इति चाब्रवीत्।
ऋषिपुत्रस्तदा कोपं चकारामर्षितस्तदा।।
मातरं तां तथा दृष्ट्वा नीयमानां बलादिव।
`तपसा दीप्तवीर्यो हि श्वेतकेतुर्न चक्षमे।।
संगृह्य मातरं हस्ते श्वेतकेतुरभाषत।
दुर्ब्राह्मण विमुञ्च त्वं मातरं मे पतिव्रताम्।।
स्वयं पिता मे ब्रह्मर्षिः क्षमावान्ब्रह्मवित्तमः।
शापानुग्रहयोः शक्तः तूष्णींभूतो महाव्रतः।।
तस्य पत्नी दमोपेता मम माता विशेषतः।
पतिव्रतां तपोवृद्धां साध्वाचारैरलङ्कृताम्।।
अप्रमादेन ते ब्रह्मन्मातृभूतां विमुञ्च वै।।
एवमुक्त्वा तु याचन्तं विमुञ्चेति मुहुर्मुहुः।
प्रत्यवोचद्द्विजो राजन्नप्रगल्भमिदं वचः।।
ब्राह्मण उवाच।
अपत्यार्थी श्वेतकेतो वृद्धोऽहं मन्दचाक्षुषः।
पिता ते ऋणनिर्मुक्तस्त्वया पुत्रेण काश्यप।।
ऋणादहमनिर्मुक्तो वृद्धोऽहं विगतस्पृहः।
मम को दास्यति सुतां कन्यां संप्राप्तयौवनाम्।।
प्रजारणिमिमां पत्नीं विमुञ्च त्वं महातपः।
एकया प्रजया प्रीतो मातरं ते ददाम्यहम्।।
एवमुक्तः श्वेतकेतुर्लज्जया क्रोधमेयिवान्।'
क्रुद्धं तं तु पिता दृष्ट्वा श्वेतकेतुमुवाच ह।।
मा तात कोपं कार्षीस्त्वमेष धर्मः सनातनः।
अनावृता हि सर्वेषां वर्णानामङ्गना भुवि।।
यथा गावः स्थिताः पुत्र स्वेस्वे वर्णे तथा प्रजाः।
`तथैव च कुटुम्बेषु न प्रमाद्यन्ति कर्हिचित्।।
ऋतुकाले तु संप्राप्ते भर्तारं न जहुस्तदा।'
ऋषिपुत्रोऽथ तं धर्मं श्वेतकेतुर्न चक्षमे।।
चकार चैव मर्यादामिमां स्त्रीपुंसयोर्भुवि।
मानुषेषु महाभागे न त्वेवान्येषु जन्तुषु।।
तदाप्रभृति मर्यादा स्थितेयमिति नः श्रुतम्।
व्युच्चरन्त्याः पतिं नार्या अद्यप्रभृति पातकम्।।
भ्रूणहत्यासमं घोरं भविष्यत्यसुखावहम्।
`अद्याप्यनुविधीयन्ते कामक्रोधविवर्जिताः।।
उत्तरेषु महाभागे कुरुष्वेवं यशस्विनि।
पुराणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः।।'
भार्यां तथा व्युच्चरतः कौमारब्रह्मचारिणीम्।
पतिव्रतामेतदेव भविता पातकं भुवि।।
नियुक्ता पतिना भार्या यद्यपत्यस्य कारणात्।
न कुर्यात्तत्तथा भीरु सैनः सुमहदाप्नुयात्।
इति तेन पुरा भीरु मर्यादा स्थापिता बलात्।।
उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना।
सौदासेन च रम्भोरु नियुक्ता पुत्रजन्मनि।।
मदयन्ती जगामर्षिं वसिष्ठमिति नः श्रुतम्।
तस्माल्लेभे च सा पुत्रमश्मकं नाम भामिनी।।
एवं कृतवती सापि भर्तुः प्रियचिकीर्षया।
अस्माकमपि ते जन्म विदितं कमलेक्षणे।।
कृष्णद्वैपायनाद्भीरु कुरूणां वंशवृद्धये।
अत एतानि सर्वाणि कारणानि समीक्ष्य वै।।
ममैतद्वचनं धर्म्यं कर्तुमर्हस्यनिन्दिते।
ऋतावृतौ राजपुत्रि स्त्रिया भर्ता पतिव्रते।।
नातिवर्तव्य इत्येवं धर्मं धर्मविदो विदुः।
शेषेष्वन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति।।
धर्ममेवं जनाः सन्तः पुराणं परिचक्षते।
भर्ता भार्यां राजपुत्रि धर्म्यं वाऽधर्म्यमेव वा।।
यद्ब्रूयात्तत्तथा कार्यमिति वेदविदो विदुः।
विशेषतः पुत्रगृद्धी हीनः प्रजननात्स्वयम्।।
यथाऽहमनवद्याङ्गि पुत्रदर्शनलालसः।
अयं रक्ताङ्गुलिनखः पद्मपत्रनिभः शुभे।।
प्रसादनार्थं सुश्रोणि शिरस्यभ्युद्यतोऽञ्जलिः।
मन्नियोगात्सुकेशान्ते द्विजातेस्तपसाऽधिकात्।।
पुत्रान्गुणसमायुक्तानुत्पादयितुमर्हसि।
त्वत्कृतेऽहं पृथुश्रोणि गच्छेयं पुत्रिणां गतिम्।।
वैशंपायन उवाच।
एवमुक्ता ततः कुन्ती पाण्डुं परपुरञ्जयम्।
प्रत्युवाच वरारोहा भर्तुः प्रियहिते रता।।
`अधर्मः सुमहानेषु स्त्रीणां भरतसत्तम।
यत्प्रसादयते भर्ता प्रसाद्यः क्षत्रियर्षभ।
शृणु चेदं महाबाहो मम प्रीतिकरं चः।।'
पितृवेश्मन्यहं बाला नियुक्ताऽतिथिपूजने।
उग्रं पर्यचरं तत्र ब्राह्मणं संशितव्रतम्।।
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः।
तमहं संशितात्मानं सर्वयत्नैरतोषयम्।।
स मेऽभिचारसंयुक्तमाचष्ट भगवान्वरम्।
मन्त्रं त्विमं च मे प्रादादब्रवीच्चैव मामिदम्।।
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि।
अकामो वा सकामो वा वशं ते समुपैष्यति।।
तस्य तस्य प्रसादात्ते राज्ञि पुत्रो भविष्यति।
इत्युक्ताऽहं तदा तेन पितृवेश्मनि भारत।।
ब्राह्मणस्य वचस्तथ्यं तस्य कालोऽयमागतः।
अनुज्ञाता त्वया देवमाह्वयेयमहं नृप।।
`यां मे विद्यां महाराज अददात्स महायशाः।
तयाऽऽहूतः सुरः पुत्रं प्रदास्यति सुरोपमम्।
अनपत्यकृतं यस्ते शोकं वीर विनेष्यति।।'
।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि अष्टाविंशत्यधिकशततमोऽध्यायः।। 128 ।।