आदिपर्व

अध्यायः ११४

Adi Parva (Sanskrit) · Adhyaya 114
अक्षर का आकार

भीष्म उवाच।

पुनर्भरतवंशस्य हेतुं सन्तानवृद्धये।
वक्ष्यामि नियतं मातस्तन्मे निगदतः शृणु।।

ब्राह्मणो गुणवान्कश्चिद्धनेनोपनिमन्त्र्यताम्।
विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत्प्रजाः।।

`वैशंपायन उवाच।

भीष्मस्य तु वचः श्रुत्वा धर्महेत्वर्थसंहितम्।
माता सत्यवती भीष्मं पुनरेवाभ्यभाषत।।

औचथ्यमधिकृत्येदमङ्गं च यदुदाहृतम्।
पौराणी श्रुतिरित्येषा प्राप्तकालमिदं कुरु।।

त्वं हि पुत्र कुलस्यास्य ज्येष्ठः श्रेष्ठश्च भारत।
यथा च ते पितुर्वाक्यं मम कार्यं तथाऽनघ।।

मम पुत्रस्तव भ्राता यवीयान्सुप्रियश्च ते।
बाल एव गतः स्वर्गं भारतो भरतर्षभ।।

इमे महिष्यौ तस्येह काशिराजसुते उभे।
रूपयौवनसंपन्ने पुत्रकामे च भारत।।

धर्म्यमेतत्परं ज्ञात्वा सन्तानाय कुलस्य च।
आभ्यां मम नियोगात्तु धर्मं चरितुमर्हसि।।

भीष्म उवाच।

असंशयं परो धर्मस्त्वयाः मातः प्रकीर्तितः।
त्वमप्येतां प्रतिज्ञां तु वेत्थ या मयि वर्तते।।

अमरत्वस्य वा हेतोस्त्रैलोक्यसदनस्य वा।
उत्सृजेयमहं प्राणान्न तु सत्यं कथंचन।।

सत्यवत्युवाच।

जानामि त्वयि धर्मज्ञ सत्यं सत्यपराक्रम।
इच्छंस्त्वमिह लोकांस्त्रीन्सृजेरन्यानरिन्दम।।

यथा तु नः कुलं चैव धर्मश्च न पराभवेत्।
सुहृदश्च प्रहृष्टाः स्युस्तथा त्वं कर्तुमर्हसि।।

भीष्म उवाच।

त्वमेव कुलवृद्धासि गौरवं तु परं त्वयि।
सोपायं कुलसन्ताने वक्तुमर्हसि नः परम्।।

स्त्रियो हि परमं गुह्यं धारयन्ति सदा कुले।
पुरुषांश्चैव मायाभिर्बह्वीभिरुपगृह्णते।।

सा सत्यवति संपश्य धर्मं सत्यपरायणे।
यथा न जह्यां सत्यं च न सीदेच्च कुलं हि नः।।'

वैशंपायन उवाच।

ततः सत्यवती भीष्मं वाचा संसज्जमानया।
विहसन्तीव सव्रीडमिदं वचनमब्रवीत्।।

सत्यमेतन्महाबाहो यथा वदसि भारत।
विश्वासात्ते प्रवक्ष्यामि सन्तानाय कुलस्य नः।।

न ते शक्यमनाख्यातुमापद्धर्मं तथाविधम्।
त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं परा गतिः।।

`यत्त्वं वक्ष्यसि तत्कार्यमस्माभिरिति मे मतिः।'
तस्मान्निशम्य सत्यं मे कुरुष्व यदनन्तरम्।
`शृणु भीष्म वचो मह्यं धर्मार्थसहितं हितम्।।

न च विस्रम्भकथितं भवान्सूचितुमर्हति।
यस्तु राजा वसुर्नाम श्रुतस्ते भरतर्षभ।।

तस्य शुक्लादहं मत्स्या धृता कुक्षौ पुरा किल।
मातरं मे जलाद्धृत्वा दाशः परमधर्मवित्।।

मां तु स्वगृहमानीय दुहितृत्वेऽभ्यकल्पयत्।
धर्मयुक्तः स धर्मेण पिता चासीत्ततो मम।।'

धर्मयुक्तस्य धर्मार्थं पितुरासीत्तरी मम।
सा कदाचिदहं तत्र गता प्रथमयौवनम्।।

अथ धर्मविदां श्रेष्ठः परमर्षिः पराशरः।
आजगाम तरीं धीमांस्तरिष्यन्यमुनां नदीम्।।

स तार्यमाणो यमुनां मामुपेत्याब्रवीत्तदा।
सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं वचः।
उक्त्वा जन्म कुलं मह्यं नासि दाशसुतेति च।।

तमहं शापभीता च पितुर्भीता च भारत।
वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे।।

`प्रेक्ष्य तांस्तु महाभागान्पारावारे ऋषीन्स्थितान्।
यमुनातीरविन्यस्तान्प्रदीप्तानिव पावकान्।।

पुरस्तादरुणश्चैव तरुणः संप्रकाशते।
येनैषा ताम्रवस्त्रेव द्यौः कृता प्रविजृम्भिता।।

उक्तमात्रो मया तत्र नीहारमसृजत्प्रभुः।
पराशरः सत्यधृतिर्द्वीपे च यमुनाम्भसि।।'

अभिभूय स मां बालां तेजसा वशमानयत्।
तमसा लोकमावृत्य नौगतामेव भारत।।

मत्स्यगन्धो महानासीत्पुरा मम जुगुप्सितः।
तमपास्य शुभं गन्धमिमं प्रादात्स मे मुनिः।।

ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम्।
द्वोपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि।।

कन्यात्वं च ददौ प्रीतः पुनर्विद्वांस्तपोधनः।
तस्य वीर्यमहं दृष्ट्वा तथा युक्तं महात्मनः।।

विस्मिता व्यथिता चैव प्रादामात्मानमेव च।
ततस्तदा महात्मा स कन्यायां मयि भारत।
प्रहृष्टोऽजनयत्पुत्रं द्वीप एव पराशरः।।'

पाराशर्यो महायोगी स बभूव महानृषिः।
कन्यापुत्रो मम पुरा द्वैपायन इति श्रुतः।।

यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः।
लोके व्यासत्वमापेदे कार्ष्ण्यात्कृष्णत्वमेव च।।

सत्यवादी शमपरस्तपस्वी दग्धकिल्बिषः।
सद्योत्पन्नः स तु महान्सह पित्रा ततो गतः।।

स नियुक्तो मया व्यक्तं त्वया चाप्रतिमद्युतिः।
भ्रातुः क्षेत्रेषु कल्याणमपत्यं जनयिष्यति।।

स हि मामुक्तवांस्तत्र स्मरेः कृच्छ्रेषु मामिति।
तं स्मरिष्ये महाबाहो यदि भीष्म त्वमिच्छसि।।

तव ह्यनुमते भीष्म नियतं स महातपाः।
विचित्रवीर्यक्षेत्रेषु पुत्रानुत्पादयिष्यति।।

वैशंपायन उवाच।

महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत्।
`देशकालौ च जानासि क्रियतामर्थसिद्धये।'

धर्ममर्थं च कामं च त्रीनेतान्योनुपश्यति।।

अर्थमर्थानुबन्धं च धर्मं धर्मानुबन्धनम्।
कामं कामानुबन्धं च विपरीतान्पृथक्पृथक्।।

यो विचिन्त्य धिया धीरो व्यवस्यति स बुद्धिमान्।
तदिदं धर्मयुक्तं च हितं चैव कुलस्य नः।।

उक्तं भवत्या यच्छ्रेयस्तन्मह्यं रोचते भृशम्।

वैशंपायन उवाच।

ततस्तस्मिन्प्रतिज्ञाते भीष्मेण कुरुनन्दन।।

कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम्।
स वेदान्विब्रुवन्धीमान्मातुर्विज्ञाय चिन्तितम्।।

प्रादुर्बभूवाविदितः क्षणेन कुरुनन्दन।
तस्मै पूजां ततः कृत्वा सुताय विधिपूर्वकम्।।

परिष्वज्य च बाहुभ्यां प्रस्रवैरभ्यषिञ्चत।
मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तु।।

तामद्भिः परिषिच्यार्तां महर्षिरभिवाद्य च।
मातरं पूर्वजः पुत्रो व्यासो वचनमब्रवीत्।।

भवत्या यदभिप्रेतं तदहं कर्तुमागतः।
शाधि मां धर्मतत्त्वज्ञे करवाणि प्रियं तव।।

तस्मै पूजां ततोऽकार्षीत्पुरोधाः परमर्षये।
स च तां प्रतिजग्राह विधिमन्मन्त्रपूर्वकम्।।

पूजितो मन्त्रपूर्वं तु विधिवत्प्रीतिमाप सः।
तमासनगतं माता पृष्ट्वा कुशलमव्ययम्।।

सत्यवत्यथ वीक्ष्यैनमुवाचेदमनन्तरम्।
मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे।।

तेषां पिता यथा स्वीमी तथा माता न संशयः।
विधानविहितः स त्वं यथा मे प्रथमः सुतः।।

विचित्रवीर्यो ब्रह्मर्षे तथा मेऽवरजः सुतः।
यथैव पितृतो भीष्मस्तथा त्वमपि मातृतः।।

भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे।
अयं शान्तनवः सत्यं पालयन्सत्यविक्रमः।।

बुद्धिं न कुरुतेऽपत्ये तथा राज्याऽनुशासने।
स त्वं व्यपेक्षया भ्रातुः सन्तानाय कुलस्य च।।

भीष्मस्य चास्य वचनान्नियोगाच्च ममानघ।
अनुक्रोशाच्च भूतानां सर्वेषां रक्षणाय च।।

आनृशंस्याच्च यद्ब्रूयां तच्छ्रुत्वा कर्तुमर्हसि।
यवीयसस्व भ्रातुर्भार्ये सुरसुतोपमे।।

रूपयौवनसंपन्ने पुत्रकामे च धर्मतः।
तयोरुत्पादयापत्यं समर्थो ह्यसि पुत्रक।।

अनुरूपं कुलस्यास्य संतत्याः प्रसवस्य च।

व्यास उवाच।

वेत्थ धर्मं सत्यवति परं चापरमेव च।।

तथा तव महाप्राज्ञे धर्मे प्रणिहिता मतिः।
तस्मादहं त्वन्नियोगाद्धर्ममुद्दिश्य कारणम्।।

ईप्सितं ते करिष्यामि दृष्टं ह्येतत्सनातनम्।
भ्रातुः पुत्रान्प्रदास्यामि मित्रावरुणयोः समान्।।

व्रतं चरेतां ते देव्यौ निर्दिष्टमिह यन्मया।
संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः।।

नहि मामव्रतोपेता उपेयात्काचिदङ्गना।

सत्यवत्युवाच।

सद्यो यथा प्रपद्येते देव्यौ गर्भं तथा कुरु।।

अराजकेषु राष्ट्रेषु प्रजाऽनाथा विनश्यति।
नश्यन्ति च क्रियाः सर्वा नास्ति वृष्टिर्न देवता।।

कथं चाराजकं राष्ट्रं शक्यं धारयितुं प्रभो।
तस्माद्गर्भं समाधत्स्व भीष्मः संवर्धयिष्यति।।

व्यास उवाच।

यदि पुत्रः प्रदातव्यो मया भ्रातुरकालिकः।
विरूपतां मे सहतां तयोरेतत्परं व्रतम्।।

यदि मे सहते गन्धं रूपं वेषं तथा वपुः।
अद्यैव गर्भं कौसल्या विशिष्टं प्रतिपद्यताम्।।

`तस्यापि च शतं पुत्रा भवितारो न संशयः।
गोप्तारः कुरुवंशस्य भवत्याः शोकनाशनाः।।'

वैशंपायन उवाच।

एवमुक्त्वा महातेजा व्यासः सत्यवतीं तदा।
शयने सा च कौसल्या शुचिवस्त्रा ह्यलङ्कृता।।

समागमनमाकाङ्क्षेदिति सोऽन्तर्हितो मुनिः।
ततोऽभिगम्य सा देवी स्नुषां रहसि संगताम्।।

धर्म्यमर्थसमायुक्तमुवाच वचनं हितम्।
कौसल्ये धर्मतन्त्रं त्वां यद्ब्रवीमि निबोध तत्।।

भरतानां समुच्छेदो व्यक्तं मद्भाग्यसंक्षयात्।
व्यथितां मां च संप्रेक्ष्य पितृवंशं च पीडितम्।।

भीष्मो बुद्धिमदान्मह्यं कुलस्यास्य विवृद्धये।
सा च बुद्धिस्त्वय्यधीना पुत्रि प्रापय मां तथा।।

नष्टं च भारतं वंशं पुनरेव समुद्धऱ।
पुत्रं जनय सुश्रोणि देवराजसमप्रभम्।।

स हि राज्यधुरं गुर्वीमुद्वक्ष्यति कुलस्य नः।
`एवमुक्त्वा तु सा देवी स्नुषां सत्यवती तदा।।'

सा धर्मतोऽनुनीयैनां कथंचिद्धर्मचारिणीम्।
भोजयामास विप्रांश्च देवर्षीनतिथींस्तथा।।

।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चतुर्दशाधिकशततमोऽध्यायः।। 114 ।।