आदिपर्व
अध्यायः १०
रुरुरुवाच।
मम प्राणसमा भार्या दष्टासीद्भुजगेन ह।
तत्र मे समयो घोर आत्मनोरग वै कृतः।।
भुजंगं वै सदा हन्यां यं यं पश्येयमित्युत।
ततोऽहं त्वां जिघांसामि जीवितेनाद्य मोक्ष्यसे।।
डुण्डुभ उवाच।
अन्ये ते भुजगा ब्रह्मन्ये दश्तीह मानवान्।
डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि।।
एकानर्थान्पृथग्धर्मानेकदुःखान्पृथक्सुखान्।
डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि।।
सौतिरुवाच।
इति श्रुत्वा वचस्तस्य डुण्डुभस्य रुरुस्तदा।
नावधीद्भयसंविग्नमृषिं मत्त्वाऽथ डुण्डुभम्।।
उवाच चैनं भगवान्रुरुः संशमयन्निव।
केन त्वं भुजग ब्रूहि कोऽसीमां विक्रियां गतः।।
डुण्डुभ उवाच।
अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात्।
सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः।।
रुरुरुवाच।
किमर्थं शप्तवान्कुद्धो द्विजस्त्वां भुजगोत्तम।
कियन्तं चैव कालं ते वपुरेतद्भविष्यसि।।
।। इति श्रीमन्महाभारते आदिपर्वणि
पौलोमपर्वणि दशमोऽध्यायः।। 10 ।।