श्रीकृष्णचैतन्यसहस्रनामस्तोत्रम्
सहस्रनाम · 🦚 श्री कृष्ण · Sanskrit · ⏱ 8 min
अन्य नाम · Also known as श्रीकृष्णचैतन्यसहस्रनामस्तोत्रम्
Sanskrit text from Sanskrit Wikisource.
नमस्तस्मै भगवते चैतन्याय महात्मने । कलिकल्मषनाशाय भवाब्धितारणाय च ॥१॥
ब्रह्मणा हरिदासेन श्रीरूपाय प्रकाशितम् । तत्सर्वं कथयिष्यामि सावधानं निशामय ॥२॥
श्रुत्वैवं वैष्णवाः सर्वे प्रहृष्टाः प्रेमविह्वलाः । सादरं परिपप्रच्छुः प्रेमगद्गदया गिरा ॥३॥
वैष्णवानां हि कृपया स्मृत्वा वाक्यं पितुस्तदा । सणोन्त्य भगवद्रूपं नामानि कथयामि वै ॥४॥
ध्यानम् ।
ॐ अस्य श्रीकृष्णचैतन्यसहस्रनामस्तोत्रस्य नारायणः ऋषिः अनुष्टुप् छन्दः
श्रीमद्भगवद्भक्तिर्देवता श्रीराधाकृष्णप्रीतये श्रीकृष्णचैतन्य नामसहस्रपथे विनियोगः ।
ॐ नमः प्रेमसमुच्चयाय गोपीजनवल्लभाय महात्मने । ॐ विश्वम्भरः सदानन्दो विश्वजिद्विश्वभावनः ।
महानुभावो विश्वात्मा गौराङ्गो गौरभावनः ॥५॥
हेमप्रभो दीर्घबाहुर्दीर्घग्रीवः शुचिर्वसुः । चैतन्यश्चेतनश्चेतश्चित्तरूपी प्रभुः स्वयम् ॥६॥
राधाङ्गी राधिकाभावो राधान्वेशी प्रियंवदः । नीतिज्ञः सर्वधर्मज्ञो भक्तिमान् पुरुषोत्तमः ॥७॥
अनुभावी महाधैर्यः शास्त्रज्ञो नित्यनूतनः । प्रभावी भगवान् कृष्णश्चैतन्यो रसविग्रहः ॥८॥
अनादिनिधनो धाता धरणीमन्दनः शुचिः । वराङ्गश्चञ्चलो दक्षः प्रतापी साधुसङ्गतः ॥९॥
उन्मादी उन्मदो वीरो धीरग्राणी रसप्रियः । रक्ताम्बरो दण्डधरः संन्यासी यतिभूषणः ॥१०॥
दण्डी छत्री चक्रपाणिः कृपालुः सर्वदर्शनः । निरायुधः सर्वशास्ता कलिदोषप्रनाशनः ॥११॥
गुरुवर्यः कृपासिन्धुर्विक्रमी च जनार्दनः । म्लेच्छग्राही कुनीतिघ्नो दुष्टहारी कृपाकुलः ॥१२॥
ब्रह्मचारी यतिवरो ब्रह्मण्यो ब्राह्मणः सुधीः । द्विजराजश्चक्रवर्ती कविः कृपणवत्सलः ॥१३॥
निरीहः पावकोऽर्थज्ञो निर्धूमः पावकोपमः । नारवन्द्यो हराकारो भविष्णुर्नरनायकः ॥१४॥
दानवीरो युद्धवीरो दयावीरो वृकोदरः । ज्ञानवीरो महावीरः शान्तिवीरः प्रतापनः ॥१५॥
श्रीजिष्णुर्भ्रमिको जिष्णुः सहिष्णुश्चारुदर्शनः । नरो वरीयान् दुर्दर्शो नवद्वीपसुधाकरः ॥१६॥
चन्द्रहास्यश्चन्द्रनखो बलिमदुदरो बली । सूर्यप्रभः सूर्यकांशुः सूर्याङ्गो मणिभूषणः ॥१७॥
कम्भुकण्ठः कपोलश्रीर्निम्ननाभिः सुलोचनः । जगन्नाथसुतो विप्रो रत्नाङ्गो रत्नभूषणः ॥१८॥
तीर्थार्थी तीर्थदस्तीर्थस्तीर्थाङ्गस्तीर्थसाधकः । तीर्थास्पदस्तीर्थवासस्तीर्थसेवी निराश्रयः ॥१९॥
तीर्थालादी तीर्थप्रदो ब्राह्मको ब्रह्मणो भ्रमी । श्रीवासपण्डितानन्दो रामानन्दप्रियङ्करः ॥२०॥
गदाधरप्रियो दासो विक्रमी शङ्करप्रियः । योगी योगप्रदो योगो योगकारी त्रियोगकृत् ॥२१॥
सर्वः सर्वस्वदो भूमा सर्वाङ्गः सर्वसम्भवः । वाणिर्बाणायुधो वादी वाचस्पतिरयोनिजः ॥२२॥
बुद्धिः सत्यं बलं तेजो धृतिमान् जङ्गमकृतिः । मुरारिर्वर्धनो धाता नृहरिः मानवर्धनः ॥२३॥
निष्कर्मा कर्मदो नाथः कर्मज्ञः कर्मनाशकः । अनर्घः कारकः कर्म क्रियार्हः कर्मबाधकः ॥२४॥
निर्गुणो गुणवानीशो विधाता सामगोऽजितः । जितश्वासो जितप्राणो जितानङ्गो जितेन्द्रियः ॥२५॥
कृष्णभावी कृष्णनामी कृष्णात्मा कृष्णनायकः । अद्वैतो द्वैतसाहित्यो द्विभावः पालको वशी ॥२६॥
श्रीवासः श्रीधराहव्यो हलनायकसारवित् । विश्वरूपानुजश्चन्द्रो वरीयान् माधवोऽच्युतः ॥२७॥
रूपासक्तः सदाचारो गुणज्ञो बहुभावकः । गुणहीनो गुणातीतो गुणग्राही गुणार्णवः ॥२८॥
ब्रह्मानन्दो नित्यानन्दः प्रेमानन्दोऽतिनन्दकः । निन्द्यहारी निन्द्यवर्जी निन्द्यघ्नः परितोषकः ॥२९॥
यज्ञबाहुर्विनीतात्मा नामयज्ञप्रचारकः । कलिवर्यः सुचिनांशुः पर्यांसुः पावकोपमः ॥३०॥
हिरण्यगर्भः सूक्ष्मात्मा वैराज्यो विरजापतिः । विलासी प्रभावी स्वांशी परावस्थः शिरोमणिः ॥३१॥
मायाघ्नो मायिको मायी मायावादी विचक्षणः । कृष्णाच्छादी कृष्णजल्पी विषयघ्नो निराकृतिः ॥३२॥
सङ्कल्पशून्यो मायीशो मायाद्वेशी व्रजप्रियः । व्रजाधीशो व्रजपतिर्गोपगोकुलनन्दनः ॥३३॥
व्रजवासी व्रजभावो व्रजनायकसत्तमः । गुप्तप्रियो गुप्तभावो वाञ्छितः सत्कुलाश्रयः ॥३४॥
रागानुगो रागसिन्धू रागात्मा रागवर्धनः । रागोद्गतः प्रेमसाक्षी भट्टनाथः सनातनः ॥३५॥
गोपालभट्टगः प्रीतो लोकनाथप्रियः पटुः । द्विभुजः षड्भुजो रूपी राजदर्पविनाशनः ॥३६॥
काशिमिश्रप्रियो वन्द्यो वन्दनीयः शचिप्रसूः । मिश्रपुरन्दराधिसो रघुनाथप्रियो रयः ॥३७॥
सार्वभौमदर्पहारी अमोघारिर्वसुप्रियः । सहजः सहजाधीशः शाश्वतः प्रणयातुरः ॥३८॥
किलकिञ्चिदभावार्तः पाण्डुगण्डः शुचातुरः । प्रलापी बहुवाक् शुद्धः ऋजुर्वक्रगतिः शिवः ॥३९॥
घत्तायितोऽरविन्दाक्षः प्रेमवैचित्यलक्षकः । प्रियाभिमानी चतुरः प्रियावर्ती प्रियोन्मुखः ॥४०॥
लोमाञ्चितः कम्पधरः अश्रुमुखो विशोकहा । हास्यप्रियो हास्यकारी हास्ययुग् हास्यनागरः ॥४१॥
हास्यग्रामी हास्यकरस्त्रिभङ्गी नर्तनाकुलः । ऊर्ध्वलोमा ऊर्ध्वहस्त ऊर्ध्वरावी विकारवान् ॥४२॥
भवोल्लासी धीरशान्तो धीरङ्गो धीरनायकः । देवास्पदो देवधामा देवदेवो मनोभवः ॥४३॥
हेमाद्रिर्हेमलावण्यः सुमेरुर्ब्रह्मसादनः । ऐरावतस्वर्णकान्तिः शरघ्नो वाञ्छितप्रदः ॥४४॥
करोभोरूः सुदीर्घाक्षः कम्पभ्रूचक्षुनासिकः । नामग्रन्थी नामसङ्ख्या भावबद्धस्तृषाहरः ॥४५॥
पापाकर्षी पापहारी पापघ्नः पापशोधकः । दर्पहा धनदोऽरिघ्नो मानहा रिपुहा मधुः ॥४६॥
रूपहा वेशहा दिव्यो दीनबन्धुः कृपामयः । सुधक्षरः सुधास्वादी सुधामा कमनीयकः ॥४७॥
निर्मुक्तो मुक्तिदो मुक्तो मुक्ताख्यो मुक्तिबाधकः । निःशङ्को निरहङ्कारो निर्वैरो विपदापहः ॥४८॥
विदग्धो नवलावण्यो नवद्वीपद्विज प्रभुः । निरङ्कुशो देववन्द्यः सुराचार्यः सुरारिहा ॥४९॥
सुरवर्यो निन्द्यहारी वादघ्नः परितोषकः । सुप्रकाशो बृहद्बाहुर्मित्रज्ञः कविभूषणः ॥५०॥
वरप्रदो वरपाङ्गो वरयुग् वरनायकः । पुष्पहासः पद्मगन्धिः पद्मरागः प्रजागरः ॥५१॥
ऊर्ध्वगः सत्पथाचारी प्राणद ऊर्ध्वगायकः । जनप्रियो जनाह्लादो जनकऋषि जनस्पृहः ॥५२॥
अजन्मा जन्मनिलयो जनानदो जनार्द्रधीः । जगन्नाथो जगद्बन्धुर्जगद्देवो जगत्पतिः ॥५३॥
जनकारी जनामोदो जनकानन्दसाग्रहः । कलिप्रियः कलिश्लाघ्यः कलिमानविवर्धनः ॥५४॥
कलिवर्यः सदानन्दः कलिकृत् कलिधन्यमान् । वर्धामनः श्रुतिधरः वर्धनो वृद्धिदायकः ॥५५॥
सम्पदः शारणो दक्षो घृणाङ्गी कलिरक्षकः । कलिधन्यः समयज्ञः कलिपुण्यप्रकाशकः ॥५६॥
निश्चिन्तो धीरललितो धीरवाक् प्रेयसीप्रियः । वामास्पर्शी वामभावो वामरूपो मनोहरः ॥५७॥
अतीन्द्रियः सुराध्यक्षो लोकाध्यक्षः कृतकृतः । युगादिकृद् युगकरो युगज्ञो युगनायकः ॥५८॥
युगावर्तो युगासीमः कालवान् कालशक्तिधृक् । प्रणयः शाश्वतो हृष्टो विश्वजिद् बुद्धिमोहनः ॥५९॥
सन्ध्याता ध्यानकृद् ध्यानी ध्यानमङ्गलसन्धिमान् । विस्रुतात्मा हृदिस्थिरो ग्रामनियप्रग्राहकः ॥६०॥
स्वरमूर्च्छी स्वरालापी स्वरमूर्तिविभूषणः । गानग्राही गानलुब्धो गायको गानवर्धनः ॥६१॥
गानमान्यो ह्यप्रमेयः सत्कर्ता विश्वधृक् सहः । क्षीराब्धिकमथाकारः प्रेमगर्भझषाकृतिः ॥६२॥
बीभत्सुर्भावहृदयः अदृश्यो बर्हिदर्शकः । ज्ञानरुद्धो धीरबुद्धिरखिलात्मप्रियः सुधीः ॥६३॥
अमेयः सर्वविद्भानुर्बभ्रूर्बहुशिरो रुचिः । उरुश्रवाः महादीर्घो वृषकर्मा वृषाकृतिः ॥६४॥
श्रुतिस्मृतिधरो वेदः श्रुतिज्ञः श्रुतिबाधकः । हृदिस्पृश आस आत्मा श्रुतिसारो विचक्षणः ॥६५॥
कलापी निरनुग्राही वैद्यविद्याप्रचारकः । मीमांसकारिर्वेदाङ्ग वेदार्थप्रभवो गतिः ॥६६॥
परावरज्ञो दुष्पारो विरहाङ्गी सतां गतिः । असङ्ख्येयोऽप्रमेयात्मा सिद्धिदः सिद्धिसाधनः ॥६७॥
धर्मसेतुर्धर्मपरो धर्मात्मा धर्मभावनः । उदीर्णसंशयच्छिन्नो विभूतिः शाश्वतः स्थिरः ॥६८॥
शुद्धात्मा शोभनोत्कण्ठोऽनिर्देश्यः साधनप्रियः । ग्रन्थप्रियो ग्रन्थमयः शास्त्रयोनिर्महाशयः ॥६९॥
अवर्णो वर्णनिलयो नाश्रमी चतुराश्रमः । अविप्र विप्रकृत् स्तुत्यो राजन्यो राज्यनाशकः ॥७०॥
अवश्यो वश्यताधीनः श्रीभक्तिव्यवसायकः । मनोजवः पुरयिता भक्तिकीर्तिरनामयः ॥७१॥
निधिवर्जी भक्तिनिधिर्दुर्लभो दुर्गभावकृत् । कर्तनीः कीर्तिरतुलः अमृतो मुरजप्रियः ॥७२॥
शृङ्गारः पञ्चमो भावो भावयोनिरनन्तरः । भक्तिजित् प्रेमभोजी च नवभक्तिप्रचारकः ॥७३॥
त्रिगर्तस्त्रिगुणामोदस्त्रिवाञ्छी प्रीतिवर्धनः । नियन्ता श्रमगोऽतीतः पोषणो विगतज्वरः ॥७४॥
प्रेमज्वरो विमानार्हः अर्थहा स्वप्ननाशनः । उत्तारणो नामपुण्यः पापपुण्यविवर्जितः ॥७५॥
अपराधहरः पाल्यः स्वस्तिदः स्वस्तिभूषणः । पूतात्मा पूतगः पूतः पूतभावो महास्वनः ॥७६॥
क्षेत्रज्ञः क्षेत्रविजयी क्षेत्रवासो जगत्प्रसूः । भयहा भयदो भास्वान् गौणभावसमन्वितः ॥७७॥
मण्डितो मण्डलकरो वैजयन्तीपवित्रकः । चित्राङ्गश्चित्रितश्चित्रो भक्तचित्तप्रकाशकः ॥७८॥
बुद्धिगो बुद्धिदो बुद्धिर्बुद्धिधृग् बुद्धिवर्धनः । प्रेमाद्रिधृक् प्रेमवहो रतिवोढ रतिस्पृशः ॥७९॥
प्रेमचक्षुः प्रेमगह्नः प्रेमहृत् प्रेमपूरकः । गम्भीरगो बहिर्वासो भावानुष्ठितगो पतिः ॥८०॥
नैकरूपो नैकभावो नैकात्मा नैकरूपधृक् । श्लथसन्धिः क्षीणधर्मस्त्यक्तपाप उरुश्रवः ॥८१॥
उरुगाय उरुग्रीव उरुभाव उरुक्रमः । निर्धूतो निर्मलो भावो निरीहो निरनुग्रहः ॥८२॥
निर्धूमोऽग्निः सुप्रतापस्तीव्रतापो हुताशनः । एको महद्भूतव्यापी पृथग्भूतः अनेकशः ॥८३॥
निर्णयी निरनुज्ञातो दुष्टग्रामनिवर्तकः । विप्रबन्धुः प्रियो रुच्यो रोचकाङ्गो नराधिपः ॥८४॥
लोकाध्यक्षः सुवर्णाभः कनकाब्जः शिखामणिः । हेमकुम्भो धर्मसेतुर्लोकनाथो जगद्गुरुः ॥८५॥
लोहिताक्षो नामकर्मा भावस्थो हृद्गुहाशयः । रसप्राणो रतिज्येष्ठो रसाब्धिरतिराकुलः ॥८६॥
भावसिन्धुर्भक्तिमेघो रसवर्षी जनाकुलः । पीताब्जो नीलपीताभो रतिभोक्ता रसायनः ॥८७॥
अव्यक्तः स्वर्णराजीवो विवर्णी साधुदर्शनः । अमृत्युः मृत्युदोऽरुद्धः सन्धाता मृत्युवञ्चकः ॥८८॥
प्रेमोन्मत्तः कीर्तनर्त्तः सङ्कीर्तनपिता सुरः । भक्तिग्रामः सुसिद्धार्थः सिद्धिदः सिद्धिसाधनः ॥८९॥
प्रेमोदरः प्रेमवाहू लोकभर्ता दिशाम्पतिः । अन्तः कृष्णो बहिर्गौरो दर्शको रतिविस्तरः ॥९०॥
सङ्कल्पसिद्धो वाञ्छात्मा अतुलः सच्छरीरभृत् । ऋड्धार्थः करुणापाङ्गो नदकृद् भक्तवत्सलः ॥९१॥
अमत्सरः परानन्दः कौपीनी भक्तिपोषकः । अकैतवो नाममाली वेगवान् पूर्णलक्षणः ॥९२॥
मिताशनो विवर्ताक्षो व्यवसाया व्यवस्थितः । रतिस्थानो रतिवनः पश्चात्तुष्टः शमाकुलः ॥९३॥
क्षोभणो विरभो मार्गो मार्गधृग् वर्त्मदर्शकः । नीचाश्रमी नीचमानी विस्तारो बीजमव्ययः ॥९४॥
मोहकायः सूक्ष्मगतिर्महेज्यः सत्त्रवर्धनः । सुमुखः स्वापनोऽनादिः सुकृत् पापविदारणः ॥९५॥
श्रीनिवासो गभीरात्मा शृङ्गारकनकादृतः । गभीरो गहनो वेधा साङ्गोपाङ्गो वृषप्रियः ॥९६॥
उदीर्णरागो वैचित्री श्रीकरः स्तवनार्हकः । अश्रुचक्षुर्जलाब्यङ्ग पूरितो रतिपूरकः ॥९७॥
स्तोत्रायणः स्तवाध्यक्षः स्तवनीयः स्तवाकुलः । ऊर्ध्वरेतः सन्निवासः प्रेममूर्तिः शतानलः ॥९८॥
भक्तबन्धुर्लोकबन्धुः प्रेमबन्धुः शताकुलः । सत्यमेधा श्रुतिधरः सर्वशस्त्रभृतांवरः ॥९९॥
भक्तिद्वारो भक्तिगृहः प्रेमागारो निरोधहा । उद्घूर्णो घूर्णितमना आघूर्नितकलेवरः ॥१००॥
भवभ्रान्तिजसन्देहः प्रेमराशिः शुचापहः । कृपाचार्यः प्रेमसङ्गो वयुनः स्थिरयौवनः ॥१०१॥
सिन्धुगः प्रेमसङ्गाहः प्रेमवश्यो विचक्षणः । पद्मकिञ्जल्कसङ्काशः प्रेमादारो नियामकः ॥१०२॥
विरक्तो विगतारातिर्नापेक्षो नारददृतः । नतस्थो दक्षिणः क्षामः शठजीवप्रतारकः ॥१०३॥
नामप्रवर्तकोऽनर्थो धर्मोगुर्वादिपुरुषः । न्यग्रोधो जनको जातो वैनत्यो भक्तिपादपः ॥१०४॥
आत्ममोहः प्रेमलीधः आत्मभावानुगो विराट् । माधुर्यवत् स्वात्मरतो गौरख्यो विप्ररूपधृक् ॥१०५॥
राधारूपी महाभावी राध्यो राधनतत्परः । गोपीनाथात्मकोऽदृश्यः स्वाधिकारप्रसाधकः ॥१०६॥
नित्यास्पदो नित्यरूपी नित्यभावप्रकाशकः । सुस्थभावश्चपलधीः स्वच्छगो भक्तिपोषकः ॥१०७॥
सर्वत्रगस्तीर्थभूतो हृदिस्थः कमलासनः । सर्वभावानुगाधीशः सर्वमङ्गलकारकः ॥१०८॥
इत्येतत्कथितं नित्यं साहस्रं नामसुन्दरम् । गोलोकवासिनो विष्णोर्गौररूपस्य शार्ङ्गिनः ॥१०९॥
इदं गौरसहस्राख्याम् आमयघ्नं शुचापहम् । प्रेमभक्तिप्रदं नृणां गोविन्दाकर्षकं परम् ॥११०॥
प्रातःकाले च मध्याह्ने सन्ध्यायां मध्यरात्रिके । यः पठेत्प्रयतो भक्त्या चैतन्ये लभते रतिम् ॥१११॥
नामात्मको गौरदेवो यस्य चेतसि वर्तते । स सर्वं विषयं त्यक्त्वा भावानन्दो भवेद्ध्रुवम् ॥११२॥
यस्मै कस्मै न दातव्यम् दाने तु भक्तिहा भवेत् । विनीताय प्रशान्ताय गौरभक्ताय धीमते ॥११३॥
तस्मै देयं ततो ग्राह्यमिति वैष्णवशासनम् ॥
इति श्रीकविकर्णपूरविरचितम् श्रीकृष्णचैतन्यचन्द्रस्य सहस्रनामस्तोत्रं संपूर्णम् ॥
॥ परब्रह्म प्रातःस्मरणस्तोत्रम् ॥
प्रातः स्मरामि हृदि संस्फुरदात्मतत्वं सच्चित् सुखं परमहंसगतिं तुरीयम् । यत् स्वप्नजागसुषुप्तिमवैति नित्यं तत् ब्रह्म निष्कलमहं न च भूतसंधः ॥१॥
प्रातर्भजामि मनसा वचसामगम्यं वाचो विभान्ति निखिला यदनुग्रहेण । यं नेति नेति वचनैर्निगमा अवोचं स्तं देवदेवमजमच्युतमाहुरग्र्यम् ॥२॥
प्रातर्नमामि तमसः परमर्कवर्णं पूर्णं सनातनपदं पुरूषोत्तमाख्यम् । यस्मिन्निदं जगदशेषमशेषमूर्तौ रज्ज्वां भुजंगम इव प्रतिमासितं वै ॥३॥
श्लोकत्रयमिदं पुण्यं लोकत्रयविभूषणम् । प्रातः काले पठेद्यस्तु स गच्छेत्परमं पदम् ॥४॥
Sanskrit Wikisource, page "श्रीकृष्णचैतन्यसहस्रनामस्तोत्रम्", revision 33066.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
श्रीकृष्ण की आरती, जिसमें गिरिधर कृष्णमुरारी के मोर-मुकुट, मुरली और वृन्दावन की छवि का वर्णन है।