🕉️

गणेशमन्त्रः

Ganeshamantrah

मंत्र · 🐘 श्री गणेश · Sanskrit · ⏱ 2 min

अन्य नाम · Also known as गणेशमन्त्रः

Sanskrit text from Sanskrit Wikisource.

अक्षर का आकार

गणादिं पूर्वमुच्चार्य वर्णादिं तदनंतरम् ॥
अनुस्वारः परतरः ॥अर्धेन्दुलसितम् ॥तारेण ऋद्धम् ॥
एतत्तव मनुस्वरूपम् ॥गकारः पूर्वरूपम् ॥
अकारो मध्यमरूपम् ॥अनुस्वारश्चान्त्यरूपम् ॥
बिन्दुरुत्तररूपम् ॥नादः संधानम् ॥
संहितासंधिः ॥सैषा गणेशविद्या ॥
गणकऋषिः ॥निचृद्गायत्रीच्छंदः ॥
गणपतिर्देवता ॥ॐ गं गणपतये नमः ॥७॥
॥गणेश गायत्री ॥
एकदंताय विद्महे । वक्रतुण्डाय धीमहि ॥
तन्नो दंतिः प्रचोदयात् ॥८॥
॥गणेश रूप ॥
एकदंतं चतुर्हस्तं पाशमंकुशधारिणम् ॥
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ॥
रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम् ॥
रक्तगंधानुलिप्तांगं रक्तपुष्पैः सुपूजितम् ॥
भक्तानुकंपिनं देवं जगत्कारणमच्युतम् ॥
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ॥
एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥९॥
॥अष्ट नाम गणपति ॥
नमो व्रातपतये । नमो गणपतये । नमः प्रमथपतये ।
नमस्तेऽस्तु लंबोदरायैकदंताय ।
विघ्ननाशिने शिवसुताय । श्रीवरदमूर्तये नमो नमः ॥१०॥
॥फलश्रुति ॥
एतदथर्वशीर्षं योऽधीते ॥स ब्रह्मभूयाय कल्पते ॥
स सर्वतः सुखमेधते ॥स सर्व विघ्नैर्नबाध्यते ॥
स पंचमहापापात्प्रमुच्यते ॥
सायमधीयानो दिवसकृतं पापं नाशयति ॥
प्रातरधीयानो रात्रिकृतं पापं नाशयति ॥
सायंप्रातः प्रयुंजानो अपापो भवति ॥
सर्वत्राधीयानोऽपविघ्नो भवति ॥
धर्मार्थकाममोक्षं च विंदति ॥
इदमथर्वशीर्षमशिष्याय न देयम् ॥
यो यदि मोहाद्दास्यति स पापीयान् भवति
सहस्रावर्तनात् यं यं काममधीते
तं तमनेन साधयेत् ॥११॥
अनेन गणपतिमभिषिंचति स वाग्मी भवति ॥
चतुर्थ्यामनश्नन् जपति स विद्यावान् भवति ।
स यशोवान् भवति ॥
इत्यथर्वणवाक्यम् ॥ब्रह्माद्याचरणं विद्यात्
न बिभेति कदाचनेति ॥१२॥
यो दूर्वांकुरैर्यजति स वैश्रवणोपमो भवति ॥
यो लाजैर्यजति स यशोवान् भवति ॥
स मेधावान् भवति ॥
यो मोदकसहस्रेण यजति
स वाञ्छितफलमवाप्नोति ॥
यः साज्यसमिद्भिर्यजति
स सर्वं लभते स सर्वं लभते ॥१३॥
अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा
सूर्यवर्चस्वी भवति ॥
सूर्यग्रहे महानद्यां प्रतिमासंनिधौ
वा जप्त्वा सिद्धमंत्रो भवति ॥
महाविघ्नात्प्रमुच्यते ॥महादोषात्प्रमुच्यते ॥
महापापात् प्रमुच्यते ॥
स सर्वविद्भवति स सर्वविद्भवति ॥
य एवं वेद इत्युपनिषत् ॥१४॥

स्रोत · Source

Sanskrit Wikisource, page "गणेशमन्त्रः", revision 40984.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.

#wikisource

सम्बन्धित पाठ · Related reading

और मंत्रपुस्तकालयश्री गणेश पूजा बुक करें