🌺

श्रीरघुनाथाष्टकम्

Shriraghunatha Ashtakam

अष्टकम् · 🏹 श्री राम · Sanskrit · ⏱ 1 min

अन्य नाम · Also known as श्रीरघुनाथाष्टकम्

Sanskrit text from Sanskrit Wikisource.

अक्षर का आकार

श्री गणेशाय नमः ।

शुनासीराधीशैरवनितलज्ञप्तीडितगुणं
प्रकृत्याऽजं जातं तपनकुलचण्डांशुमपरम् ।
सिते वृद्धिं ताराधिपतिमिव यन्तं निजगृहे
ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ १॥

निहन्तारं शैवं धनुरिव इवेक्षुं नृपगणे
पथि ज्याकृष्टेन प्रबलभृगुवर्यस्य शमनम् ।
विहारं गार्हस्थ्यं तदनु भजमानं सुविमलं
ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ २॥

गुरोराज्ञां नीत्वा वनमनुगतं दारसहितं
ससौमित्रिं त्यक्त्वेप्सितमपि सुराणां नृपसुखम् ।
विरुपाद्राक्षस्याः प्रियविरहसन्तापमनसं
ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ ३॥

विराधं स्वर्नीत्वा तदनु च कबन्धं सुररिपुं
गतं पम्पातीरे पवनसुतसम्मेलनसुखम् ।
गतं किष्किन्धायां विदितगुणसुग्रीवसचिवं
ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ ४॥

प्रियाप्रेक्षोत्कण्ठं जलनिधिगतं वानरयुतं
जले सेतुं बद्ध्वाऽसुरकुल निहन्तारमनघम् ।
विशुद्धामर्धाङ्गीं हुतभुजि समीक्षन्तमचलं
ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ ५॥

विमानं चारुह्याऽनुजजनकजासेवितपद
मयोध्यायां गत्वा नृपपदमवाप्तारमजरम् ।
सुयज्ञैस्तृप्तारं निजमुखसुरान् शान्तमनसं
ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ ६॥

प्रजां संस्थातारं विहितनिजधर्मे श्रुतिपथं
सदाचारं वेदोदितमपि च कर्तारमखिलम् ।
नृषु प्रेमोद्रेकं निखिलमनुजानां हितकरं
सतीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ ७॥

तमः कीर्त्याशेषाः श्रवणगदनाभ्यां द्विजमुखास्तरिष्यन्ति
ज्ञात्वा जगति खलु गन्तारमजनम् ॥
अतस्तां संस्थाप्य स्वपुरमनुनेतारमखिलं
ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ ८॥

रघुनाथाष्टकं हृद्यं रघुनाथेन निर्मितम् ।
पठतां पापराशिघ्नं भुक्तिमुक्तिप्रदायकम् ॥ ९॥

॥ इति पण्डित श्रीशिवदत्तमिश्रशास्त्रि विरचितं श्रीरघुनाथाष्टकं सम्पूर्णम् ॥

स्रोत · Source

Sanskrit Wikisource, page "श्रीरघुनाथाष्टकम्", revision 33117.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.

#wikisource

सम्बन्धित पाठ · Related reading

और अष्टकम्पुस्तकालयश्री राम पूजा बुक करें