अच्युताष्टकम् (श्रीधरवेङ्कटेशकृतम्)
अष्टकम् · 🪷 भगवान विष्णु · Sanskrit · ⏱ 1 min
अन्य नाम · Also known as अच्युताष्टकम् (श्रीधरवेङ्कटेशकृतम्)
Sanskrit text from Sanskrit Wikisource.
अभिलपननिसर्गादच्युताख्ये भजे त्वां
हरसि मदघबृन्दं त्वद्भुबुक्षावशात् त्वम् ।
अघहृदिति तवाम्ब प्रत्युत ख्यातिदोऽहं
त्वयि मम वद का वा सङ्गतिर्दैन्यवाचाम् ॥ १॥
चिरातीता सान्दीपनितनुभुवः कालभवन-
प्रपत्तिस्तं पित्रोः पुनरगमयत् सन्निधिमिति ।
यशः कृष्णस्येदं कथमहह न त्वां रसनया
यदि श्रीकृष्णाख्ये भजति स तादनीं मुनिसुतः ॥ २॥
हरेर्यच्चोरत्वं यदपि च तथा जारचरितं
तदेतत् सर्वांहस्ततिकृते सङ्कथनतः ।
इतीदं माहात्म्यं मधुमथन ते दीपितमिदं
वदन्त्याः कृष्णाख्ये तवहि विचरन्त्या विलसितम् ॥ ३॥
सभायां द्रौपत्याऽंशुकसृतिभिया तद्रसनया
धृता तस्याश्चेलं प्रतनु तदवस्थं विदधती ।
व्यतानीश्शैलाभं वसनविसरं चाम्ब हरता-
मियान् गोविन्दाख्ये वद वसनराशिस्तव कुतः ॥ ४॥
अधिरसनमयि त्वामच्युताख्ये दधानं
वनजभवमुखानां वन्द्यमाहुर्महान्तः ।
सतु विनमति मातश्चाश्वगोश्वादनादीन्
भवति ननु विचित्रा पद्धतिस्तावकानाम् ॥ ५॥
जननि मुरभिदाख्ये जाह्नवीनिम्नगैका
समजनि पदपद्माच्चक्रिणस्त्वाश्रितानाम् ।
परिणमति समस्ताः पादवार्घिन्दुरेको
जगति ननु तटिन्यो जाह्नवीसह्यजाद्याः ॥ ६॥
समवहितमपश्यन् सन्निधौ वैनतेयं
प्रसभविधुतपद्मापाणिरीशोऽच्युताख्ये ।
समवितुमुपनीतः सागजेन्द्रं त्वया द्राक्
वद जननि विना त्वां केन वा किं तदाभूत् ॥ ७॥
यदेष स्तौमि त्वां त्रियुगचरणत्रायिणि ततो
महिम्नः का हानिस्तवतु मम सम्पन्निरवधिः ।
शुना लीलाकामं भवति सुरसिन्धुर्भगवती
तदेषा किम्भूता सतु सपदि सन्तापभरितः ॥ ८॥
इति श्रीश्रीधरवेङ्कटेशार्यकृतौ अच्युताष्टकं सम्पूर्णम् ॥
Sanskrit Wikisource, page "अच्युताष्टकम् (श्रीधरवेङ्कटेशकृतम्)", revision 56872.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 18 (Stotras, Vol. 2), Sri Vani Vilas Press, 1910.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 18 (Stotras, Vol. 2), Sri Vani Vilas Press, 1910.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 18 (Stotras, Vol. 2), Sri Vani Vilas Press, 1910.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.