🧘

योगतारावली

Yogataravali

वेदान्त · Sanskrit · ⏱ 3 min

अन्य नाम · Also known as योगतारावली

Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 16 (Miscellaneous Prakaranas, Vol. 2), Sri Vani Vilas Press, 1910.

अक्षर का आकार

वन्दे गुरूणां चरणारविन्दे
संदर्शितस्वात्मसुखावबोधे ।
जनस्य ये जाङ्गलिकायमाने
संसारहालाहलमोहशान्त्यै ॥ १ ॥

सदाशिवोक्तानि सपादलक्ष-
लयावधानानि वसन्ति लोके ।
नादानुसंधानसमाधिमेकं
मन्यामहे मान्यतमं लयानाम् ॥ २ ॥

सरेचपूरैरनिलस्य कुम्भैः
सर्वासु नाडीषु विशोधितासु ।
अनाहताख्यो बहुभिः प्रकारै-
रन्तः प्रवर्तेत सदा निनादः ॥ ३ ॥

नादानुसंधान नमोऽस्तु तुभ्यं
त्वां साधनं तत्त्वपदस्य जाने ।
भवत्प्रसादात्पवनेन साकं
विलीयते विष्णुपदे मनो मे ॥ ४ ॥

जालन्धरोड्याणनमूलबन्धा-
ञ्जल्पन्ति कण्ठोदरपायुमूलान् ।
बन्धत्रयेऽस्मिन्परिचीयमाने
बन्धः कुतो दारुणकालपाशात् ॥ ५ ॥

ओड्याणजालन्धरमूलबन्धै-
रुन्निद्रितायामुरगाङ्गनायाम् ।
प्रत्यङ्मुखत्वात्प्रविशन्सुषुम्नां
गमागमौ मुञ्चति गन्धवाहः ॥ ६ ॥

उत्थापिताधारहुताशनोल्कै-
राकुञ्चनैः शश्वदपानवायोः ।
संतापिताच्चन्द्रमसः पतन्तीं
पीयूषधारां पिबतीह धन्यः ॥ ७ ॥

बन्धत्रयाभ्यासविपाकजातां
विवर्जितां रेचकपूरकाभ्याम् ।
विशोषयन्तीं विषयप्रवाहं
विद्यां भजे केवलकुम्भरूपाम् ॥ ८ ॥

अनाहते चेतसि सावधानै-
रभ्यासशूरैरनुभूयमाना ।
संस्तम्भितश्वासमनःप्रचारा
सा जृम्भते केवलकुम्भकश्रीः ॥ ९ ॥

सहस्रशः सन्तु हठेषु कुम्भाः
संभाव्यते केवलकुम्भ एव ।
कुम्भोत्तमे यत्र तु रेचपूरौ
प्राणस्य न प्राकृतवैकृताख्यौ ॥ १० ॥

त्रिकूटनाम्नि स्तिमितेऽन्तरङ्गे
खे स्तम्भिते केवलकुम्भकेन ।
प्राणानिलो भानुशशाङ्कनाड्यौ
विहाय सद्यो विलयं प्रयाति ॥ ११ ॥

प्रत्याहृतः केवलकुम्भकेन
प्रबुद्धकुण्डल्युपभुक्तशेषः ।
प्राणः प्रतीचीनपथेन मन्दं
विलीयते विष्णुपदान्तराले ॥ १२ ॥

निरङ्कुशानां श्वसनोद्गमानां
निरोधनैः केवलकुम्भकाख्यैः ।
उदेति सर्वेन्द्रियवृत्तिशून्यो
मरुल्लयः कोऽपि महामतीनाम् ॥ १३ ॥

न दृष्टिलक्ष्याणि न चित्तबन्धो
न देशकालौ न च वायुरोधः ।
न धारणाध्यानपरिश्रमो वा
समेधमाने सति राजयोगे ॥ १४ ॥

अशेषदृश्योज्झितदृङ्मयाना-
मवस्थितानामिह राजयोगे ।
न जागरो नापि सुषुप्तिभावो
न जीवितं नो मरणं विचित्रम् ॥ १५ ॥

अहंममत्वाद्व्यपहाय सर्वं
श्रीराजयोगे स्थिरमानसानाम् ।
न द्रष्टृता नास्ति च दृश्यभावः
सा जृम्भते केवलसंविदेव ॥ १६ ॥

नेत्रे ययोन्मेषनिमेषशून्ये
वायुर्यया वर्जितरेचपूरः ।
मनश्च संकल्पविकल्पशून्यं
मनोन्मनी सा मयि संनिधत्ताम् ॥ १७ ॥

चित्तेन्द्रियाणां चिरनिग्रहेण
श्वासप्रचारे शमिते यमीन्द्राः ।
निवातदीपा इव निश्चलाङ्गाः
मनोन्मनीमग्नधियो भवन्ति ॥ १८ ॥

उन्मन्यवस्थाधिगमाय विद्वन्
उपायमेकं तव निर्दिशामः ।
पश्यन्नुदासीनतया प्रपञ्चं
संकल्पमुन्मूलय सावधानः ॥ १९ ॥

प्रसह्य संकल्पपरंपराणां
संभेदने संततसावधानम् ।
आलम्बनाशादपचीयमानं
शनैः शनै: शान्तिमुपैति चेतः ॥ २० ॥

निश्वासलोपैर्निभृतैः शरीरै-
र्नेत्राम्बुजैरर्धनिमीलितैश्च ।
आविर्भवन्तीममनस्कमुद्रा-
मालोकयामो मुनिपुंगवानाम् ॥ २१ ॥

अमी यमीन्द्राः सहजामनस्का-
दहंममत्वे शिथिलायमाने ।
मनोतिगं मारुतवृत्तिशून्यं
गच्छन्ति भावं गगनावशेषम् ॥ २२ ॥

निवर्तयन्तीं निखिलेन्द्रियाणि
प्रवर्तयन्तीं परमात्मयोगम् ।
संविन्मयीं तां सहजामनस्कां
कदा गमिष्यामि गतान्यभावः ॥ २३ ॥

प्रत्यग्विमर्शातिशयेन पुंसां
प्राचीनगन्धेषु पलायितेषु ।
प्रादुर्भवेत्काचिदजाड्यनिद्रा
प्रपञ्चचिन्तां परिवर्जयन्ती ॥ २४ ॥

विच्छिन्नसंकल्पविकल्पमूले
निःशेषनिर्मूलितकर्मजाले ।
निरन्तराभ्यासनितान्तभद्रा
सा जृम्भते योगिनि योगनिद्रा ॥ २५ ॥

विश्रान्तिमासाद्य तुरीयतल्पे
विश्वाद्यवस्थात्रितयोपरिस्थे ।
संविन्मयीं कामपि सर्वकालं
निद्रां सखे निर्विश निर्विकल्पाम् ॥ २६ ॥

प्रकाशमाने परमात्मभानौ
नश्यत्यविद्यातिमिरे समस्ते ।
अहो बुधा निर्मलदृष्टयोऽपि
किंचिन्न पश्यन्ति जगत्समग्रम् ॥ २७ ॥

सिद्धिं तथाविधमनोविलयां समाधौ
श्रीशैलशृङ्गकुहरेषु कदोपलप्स्ये ।
गात्रं यदा मम लताः परिवेष्टयन्ति
कर्णे यदा विरचयन्ति खगाश्च नीडान् ॥ २८ ॥

विचरतु मतिरेषा निर्विकल्पे समाधौ
कुचकलशयुगे वा कृष्णसारेक्षणानाम् ।
चरतु जडमते वा सज्जनानां मते वा
मतिकृतगुणदोषा मां विभुं न स्पृशन्ति ॥ २९ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभग-
वत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
योगतारावली संपूर्णा ॥

स्रोत · Source

The Works of Sri Sankaracharya, Volume 16 (Miscellaneous Prakaranas, Vol. 2), Sri Vani Vilas Press, 1910
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.

#prakaranagranthah

सम्बन्धित पाठ · Related reading

🧘Vedanta
अपरोक्षानुभूतिः
Aparoksha Anubhuti

Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 15 (Miscellaneous Prakaranas, Vol. 1), Sri Vani Vilas Press, 1910.

Sanskrit13 min
🧘Vedanta
ब्रह्मज्ञानावलीमाला
Brahmajnanavalimala

Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 16 (Miscellaneous Prakaranas, Vol. 2), Sri Vani Vilas Press, 1910.

Sanskrit1 min
🧘Vedanta
दशश्लोकी
Dashashloki

Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 15 (Miscellaneous Prakaranas, Vol. 1), Sri Vani Vilas Press, 1910.

Sanskrit2 min
🧘Vedanta
वाक्यवृत्तिः
Vakya Vrtti

Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 15 (Miscellaneous Prakaranas, Vol. 1), Sri Vani Vilas Press, 1910.

Sanskrit4 min
🧘Vedanta
अनात्मश्रीविगर्हणप्रकरणम्
Anatmashrivigarhana Prakaranam

Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 16 (Miscellaneous Prakaranas, Vol. 2), Sri Vani Vilas Press, 1910.

Sanskrit3 min
🧘Vedanta
ब्रह्मानुचिन्तनम्
Brahmanucintanam

Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 16 (Miscellaneous Prakaranas, Vol. 2), Sri Vani Vilas Press, 1910.

Sanskrit3 min
और वेदान्तपुस्तकालय