🧘

तत्त्वोपदेशः

Tattvopadesha

वेदान्त · Sanskrit · ⏱ 7 min

अन्य नाम · Also known as तत्त्वोपदेशः

Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 16 (Miscellaneous Prakaranas, Vol. 2), Sri Vani Vilas Press, 1910.

अक्षर का आकार

तत्त्वंपदार्थशुद्ध्यर्थं गुरुः शिष्यं वचोऽब्रवीत् ।
वाक्ये तत्त्वमसीत्यत्र त्वंपदार्थं विवेचय ॥ १ ॥

न त्वं देहोऽसि दृश्यत्वादुपजात्यादिमत्त्वतः ।
भौतिकत्वादशुद्धत्वादनित्यत्वात्तथैव च ॥ २ ॥

अदृश्यो रूपहीनस्त्वं जातिहीनोऽप्यभौतिकः ।
शुद्धनित्योऽसि दृग्रूपो घटो यद्वन्न दृग्भवेत् ॥ ३ ॥

न भवानिन्द्रियाण्येषां करणत्वेन या श्रुतिः ।
प्रेरकस्त्वं पृथक्तेभ्यो न कर्ता करणं भवेत् ॥ ४ ॥

नानैतान्येकरूपस्त्वं भिन्नस्तेभ्यः कुतः शृणु ।
न चैकेन्द्रियरूपस्त्वं सर्वत्राहंप्रतीतितः ॥ ५ ॥

न तेषां समुदायोऽसि तेषामन्यतमस्य च ।
विनाशेऽप्यात्मधीस्तावदस्ति स्यान्नैवमन्यथा ॥ ६ ॥

प्रत्येकमपि तान्यात्मा नैव तत्र नयं शृणु ।
नानास्वामिकदेहोऽयं नश्येद्भिन्नमताश्रयः ॥ ७ ॥

नानात्माभिमतं नैव विरुद्धविषयत्वतः ।
स्वाम्यैक्ये तु व्यवस्था स्यादेकपार्थिवदेशवत् ॥ ८ ॥

न मनस्त्वं न वा प्राणो जडत्वादेव चैतयोः ।
गतमन्यत्र मे चित्तमित्यन्यत्वानुभूतितः ॥ ९ ॥

क्षुत्तृड्भ्यां पीडितः प्राणो ममायं चेति भेदतः ।
तयोर्द्रष्टा पृथक्ताभ्यां घटद्रष्टा घटाद्यथा ॥ १० ॥

सुप्तौ लीनास्ति या बोधे सर्वं व्याप्नोति देहकम् ।
चिच्छायया च संबद्धा न सा बुद्धिर्भवान्द्विज ॥ ११ ॥

नानारूपवती बोधे सुप्तौ लीनातिचञ्चला ।
यतो दृगेकरूपस्त्वं पृथक्तस्य प्रकाशकः ॥ १२ ॥

सुप्तौ देहाद्यभावेऽपि साक्षी तेषां भवान्यतः ।
स्वानुभूतिस्वरूपत्वान्नान्यस्तम्यास्ति भासकः ॥ १३ ॥

प्रमाणं बोधयन्तं तं बोधं मानेन ये जनाः ।
बुभुत्स्यन्ते त एधोभिर्दग्धुं वाञ्छन्ति पावकम् ॥ १४ ॥

विश्वमात्मानुभवति तेनासौ नानुभूयते ।
विश्व प्रकाशयत्यात्मा तेनासौ न प्रकाश्यते ॥ १५ ॥

ईदृशं तादृशं नैतन्न परोक्षं सदेव यत् ।
तद्ब्रह्म त्वं न देहादिदृश्यरूपोऽसि सर्वदृक् ॥ १६ ॥

इदंत्वेनैव यद्भाति सर्वं तच्च निषिध्यते ।
अवाच्यतत्त्वमनिदं न वेद्यं स्वप्रकाशतः ॥ १७ ॥

सत्यं ज्ञानमनन्तं च ब्रह्मलक्षणमुच्यते ।
सत्यत्वाज्ज्ञानरूपत्वादनन्तत्वात्त्वमेव हि ॥ १८ ॥

सति देहाद्युपाधौ स्याज्जीवस्तस्य नियामकः ।
ईश्वरः शक्त्युपाधित्वाद्द्वयोर्बाधे स्वयंप्रभः ॥ १९ ॥

अपेक्ष्यतेऽखिलैर्मानैर्न यन्मानमपेक्षते ।
वेदवाक्यं प्रमाणं तद्ब्रह्मात्मावगतौ मतम् ॥ २० ॥

अतो हि तत्त्वमस्यादिवेदवाक्यं प्रमाणतः ।
ब्रह्मणोऽस्ति यया युक्त्या सास्माभिः संप्रकीर्त्यते ॥ २१ ॥

शोधिते त्वंपदार्थे हि तत्त्वमस्यादि चिन्तितम् ।
संभवेन्नान्यथा तम्माच्छोधनं कृतमादितः ॥ २२ ॥

देहेन्द्रियादिधर्मान्यः स्वात्मन्यारोपयन्मृषा ।
कर्तृत्वाद्यभिमानी च वाच्यार्थस्त्वंपदस्य सः ॥ २३ ॥

देहेन्द्रियादिसाक्षी यस्तेभ्यो भाति विलक्षणः ।
स्वयं बोधस्वरूपत्वाल्लक्ष्यार्थस्त्वंपदस्य सः ॥ २४ ॥

वेदान्तवाक्यसंवेद्यविश्वातीताक्षराद्वयम् ।
विशुद्धं यत्स्वसंवेद्यं लक्ष्यार्थस्तत्पदस्य सः ॥ २५ ॥

सामानाधिकरण्यं हि पदयोस्तत्व मोर्द्वयोः ।
संबन्धस्तेन वेदान्तैर्ब्रह्मैक्यं प्रतिपाद्यते ॥ २६ ॥

भिन्नप्रवृत्तिहेतुत्वे पदयोरेकवस्तुनि ।
वृत्तित्वं यत्तथैवैक्यं विभक्त्यन्तकयोस्तयोः ॥ २७ ॥

सामानाधिकरण्यं तत्संप्रदायिभिरीरितम् ।
तथा पदार्थयोरेव विशेषणविशेष्यता ॥ २८ ॥

अयं सः सोऽयमितिवत्संबन्धो भवति द्वयोः ।
प्रत्यक्त्वं सद्वितीयत्वं परोक्षत्वं च पूर्णता ॥ २९ ॥

परस्परविरुद्धं स्यात्ततो भवति लक्षणा ।
लक्ष्यलक्षणसंबन्धः पदार्थप्रत्यगात्मनोः ॥ ३० ॥

मानान्तरोपरोधाच्च मुख्यार्थस्यापरिग्रहे ।
मुख्यार्थस्याविनाभूते प्रवृत्तिर्लक्षणोच्यते ॥ ३१ ॥

त्रिविधा लक्षणा ज्ञेया जहत्यजहती तथा ।
अन्योभयात्मिका ज्ञेया तत्राद्या नैव संभवेत् ॥ ३२ ॥

वाच्यार्थमखिलं त्यक्त्वा वृत्तिः स्याद्या तदन्विते ।
गङ्गायां घोष इतिवज्जहती लक्षणा हि सा ॥ ३३ ॥

वाच्यार्थस्यैकदेशस्य प्रकृते त्याग इष्यते ।
जहती संभवेन्नैव संप्रदायविरोधत ॥ ३४ ॥

वाच्यार्थमपरित्यज्य वृत्तिरन्यार्थके तु या ।
कथितेयमजहती शोणोऽयं धावतीतिवत् ॥ ३५ ॥

न संभवति साप्यत्र वाच्यार्थेऽतिविरोधतः ।
विरोधांशपरित्यागो दृश्यते प्रकृते यतः ॥ ३६ ॥

वाच्यार्थस्यैकदेशं च परित्यज्यैकदेशकम् ।
या बोधयति सा ज्ञेया तृतीया भागलक्षणा ॥ ३७ ॥

सोऽयं विप्र इदं वाक्यं बोधयत्यादितस्तथा ।
तत्कालत्वविशिष्टं च तथैतत्कालसंयुतम् ॥ ३८ ॥

अतस्तयोर्विरुद्धं तत्तत्कालत्वादिधर्मकम् ।
त्यक्त्वा वाक्यं यथा विप्रपिण्डं बोधयतीरितम् ॥ ३९ ॥

तथैव प्रकृते तत्त्वमसीत्यत्र श्रुतौ शृणु ।
प्रत्यक्त्वादीन्परित्यज्य जीवधर्मांस्त्वमःपदात् ॥ ४० ॥

सर्वज्ञत्वपरोक्षादीन्परित्यज्य ततःपदात् ।
शुद्धं कूटस्थमद्वैतं बोधयत्यादरात्परम् ॥ ४१ ॥

तत्त्वमोः पदयोरैक्यमेव तत्त्वमसीत्यलम् ।
इत्थमैक्यावबोधेन सम्यग्ज्ञानं दृढं नयैः ॥ ४२ ॥

अहं ब्रह्मेति विज्ञानं यस्य शोकं तरत्यसौ ।
आत्मा प्रकाशमानोऽपि महावाक्यैस्तथैकता ॥ ४३ ॥

तत्त्वमोर्बोध्यतेऽथापि पौर्वापर्यानुसारतः ।
तथापि शक्यते नैव श्रीगुरोः करुणां विना ॥ ४४ ॥

अपरोक्षयितुं लोके मूढैः पण्डितमानिभिः ।
अन्तःकरणसंशुद्धौ स्वयं ज्ञानं प्रकाशते ॥ ४५ ॥

वेदवाक्यैरतः किं स्याद्गुरुणेति न सांप्रतम् ।
आचार्यवान्पुरुषो हि वेदेत्येवं श्रुतिर्जगौ ॥ ४६ ॥

अनादाविह संसारे बोधको गुरुरेव हि ।
अतो ब्रह्मात्मवस्त्वैक्यं ज्ञात्वा दृश्यमसत्तया ॥ ४७ ॥

अद्वैते ब्रह्मणि स्थेयं प्रत्यब्रह्मात्मना सदा ।
तत्प्रत्यक्षात्परिज्ञातमद्वैतब्रह्मचिह्ननम् ॥ ४८ ॥

प्रतिपाद्यं तदेवात्र वेदान्तैर्न द्वयं जडम् ।
सुखरूपं चिदद्वैतं दुःखरूपमसज्जडम् ॥ ४९ ॥

वेदान्तैस्तद्द्वयं सम्यङ्निर्णीतं वस्तुतो नयात् ।
अद्वैतमेव सत्यं त्वं विद्धि द्वैतमसत्सदा ॥ ५० ॥

शुद्धे कथमशुद्धः स्यादृश्यं मायामयं ततः ।
शुक्तौ रूप्यं मृषा यद्वत्तथा विश्व परात्मनि ॥ ५१ ॥

विद्यते न स्वतः सत्त्वं नासतः सत्त्वमस्ति वा ।
बाध्यत्वान्नैव सद्द्वैतं नासत्प्रत्यक्षभानतः ॥ ५२ ॥

सदसन्न विरुद्धत्वादतोऽनिर्वाच्यमेव तत् ।
यः पूर्वमेक एवासीत्सृष्ट्वा पश्चादिदं जगत् ॥ ५३ ॥

प्रविष्टो जीवरूपेण स एवात्मा भवान्परः ।
सच्चिदानन्द एव त्वं विस्मृत्यात्मतया परम् ॥ ५४ ॥

जीवभावमनुप्राप्तः स एवात्मासि बोधतः ।
अद्वयानन्दचिन्मात्रः शुद्धः साम्राज्यमागतः ॥ ५५ ॥

कर्तृत्वादीनि यान्यासंस्त्वयि ब्रह्माद्वये परे ।
तानीदानीं विचार्य त्वं किंस्वरूपाणि वस्तुतः ॥ ५६ ॥

अत्रैव शृणु वृत्तान्तमपूर्वं श्रुतिभाषितम् ।
कश्चिद्गान्धारदेशीयो महारत्नविभूषितः ॥ ५७ ॥

स्वगृहे स्वाङ्गणे सुप्तः प्रमत्तः सन्कदाचन ।
रात्रौ चौरः समागत्य भूषणानां प्रलोभितः ॥ ५८ ॥

बद्ध्वा देशान्तरं चौरैर्नीतः सन्गहने वने ।
भूषणान्यपहृत्यापि बद्धाक्षकरपादकः ॥ ५९ ॥

निक्षिप्तो विपिनेऽतीव कुशकण्टकवृश्चिकैः ।
व्यालव्याघ्रादिभिश्चैव संकुले तरुसंकटे ॥ ६० ॥

व्यालादिदुष्टसत्वेभ्यो महारण्ये भयातुरः ।
शिलाकण्टकदर्भाद्यैर्देहस्य प्रतिकूलकैः ॥ ६१ ॥

क्रियमाणे विलुठने विशीर्णाङ्गोऽसमर्थकः ।
क्षुत्तृडातपवाय्वग्न्यादिभिस्तप्तोऽतितापकैः ॥ ६२ ॥

बन्धमुक्तौ तथा देशप्राप्तावेव सुदुःखधीः ।
ददृशे कंचिदाक्रोशन्नैकं तत्रैव तस्थिवान् ॥ ६३ ॥

तथा रागादिभिर्वर्गैः शत्रुभिर्दुःखदायिभिः ।
चौरैर्देहाभिमानाद्यैः स्वानन्दधनहारिभिः ॥ ६४ ॥

ब्रह्मानन्दे प्रमत्तः स्वाज्ञाननिद्रावशीकृतः ।
बद्धस्त्वं बन्धनैर्भोगतृष्णाज्वरादिभिर्दृढम् ॥ ६५ ॥

अद्वयानन्दरूपात्त्वां प्रच्याव्यातीव धूर्तकैः ।
दूरनीतोऽसि देहेषु संसारारण्यभूमिषु ॥ ६६ ॥

सर्वदुःखनिदानेषु शरीरादित्रयेषु च ।
नानायोनिषु कर्मान्धवासनानिर्मितासु च ॥ ६७ ॥

प्रवेशितोऽसि सृष्टोऽसि बद्धः स्वानन्ददृष्टितः ।
अनादिकालमारभ्य दुःखं चानुभवन्सदा ॥ ६८ ॥

जन्ममृत्युजरादोषनरकादिपरम्पराम् ।
निरन्तरं विषण्णोऽनुभवन्नत्यन्तशोकवान् ॥ ६९ ॥

अविद्याभूतबन्धस्य निवृत्तौ दुःखदस्य च ।
स्वरूपानन्दसंप्राप्तौ सत्योपायं न लब्धवान् ॥ ७० ॥

यथा गान्धारदेशीयश्चिरं देवाद्दयालुभिः ।
कैश्चित्पान्थैः परिप्राप्तैर्मुक्तदृष्ट्यादिबन्धनः ॥ ७१ ॥

सः स्वस्थैरुपदिष्टश्च पण्डितो निश्चितात्मकः ।
ग्रामाद्ग्रामान्तरं गच्छेन्मेधावी मार्गतत्परः ॥ ७२ ॥

गत्वा गान्धारदेशं स स्वगृहं प्राप्य पूर्ववत् ।
बान्धवैः संपरिष्वक्तः सुखी भूत्वा स्थितोऽभवत् ॥ ७३ ॥

त्वमप्येवमनेकेषु दुःखदायिषु जन्मसु ।
भ्रान्तो दैवाच्छुभे मार्गे जातश्रद्धः सुकर्मकृत् ॥ ७४ ॥

वर्णाश्रमाचारपरोऽवाप्तपुण्यमहोदयः ।
ईश्वरानुग्रहाल्लब्धो ब्रह्मविद्गुरुसत्तमः ॥ ७५ ॥

विधिवत्कृतसंन्यासो विवेकादियुतः सुधीः ।
प्राप्तो ब्रह्मोपदेशोऽद्य वैराग्याभ्यासतः परम् ॥ ७६ ॥

पण्डितस्तत्र मेधावी युक्त्या वस्तु विचारयन् ।
निदिध्यासनसंपन्नः प्राप्तो हि त्वं परं पदम् ॥ ७७ ॥

अतो ब्रह्मात्मविज्ञानमुपदिष्टं यथाविधि ।
मयाचार्येण ते धीर सम्यक्तत्र प्रयत्नवान् ॥ ७८ ॥

भूत्वा विमुक्तबन्धस्त्वं छिन्नद्वैतात्मसंशयः ।
निर्द्वन्द्वो निःस्पृहो भूत्वा विचरस्व यथासुखम् ॥ ७९ ॥

वस्तुतो निष्प्रपञ्चोऽसि नित्यमुक्तः स्वभावतः ।
न ते बन्धविमोक्षौ स्तः कल्पितौ तौ यतस्त्वयि ॥ ८० ॥

न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ ८१ ॥

श्रुतिसिद्धान्तसारोऽयं तथैव त्वं स्वया धिया ।
संविचार्य निदिध्यास्य निजानन्दात्मकं परम् ॥ ८२ ॥

साक्षात्कृत्वा परिच्छिन्नाद्वैतब्रह्माक्षरं स्वयम् ।
जीवन्नेव विनिर्मुक्तो विश्रान्तः शान्तिमाश्रय ॥ ८३ ॥

विचारणीया वेदान्ता वन्दनीयो गुरुः सदा ।
गुरूणां वचनं पथ्यं दर्शनं सेवनं नृणाम् ॥ ८४ ॥

गुरुर्ब्रह्म स्वयं साक्षात्सेव्यो वन्द्यो मुमुक्षुभिः ।
नोद्वेजनीय एवायं कृतज्ञेन विवेकिना ॥ ८५ ॥

यावदायुस्त्वया वन्द्यो वेदान्तो गुरुरीश्वरः ।
मनसा कर्मणा वाचा श्रुतिरेवैष निश्चयः ॥ ८६ ॥

भावाद्वैतं सदा कुर्यात्क्रियाद्वैतं न कर्हिचित् ।
अद्वैतं त्रिषु लोकेषु नाद्वैतं गुरुणा सह ॥ ८७ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
तत्त्वोपदेशः संपूर्णः ॥

स्रोत · Source

The Works of Sri Sankaracharya, Volume 16 (Miscellaneous Prakaranas, Vol. 2), Sri Vani Vilas Press, 1910
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.

#prakaranagranthah

सम्बन्धित पाठ · Related reading

🧘Vedanta
अपरोक्षानुभूतिः
Aparoksha Anubhuti

Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 15 (Miscellaneous Prakaranas, Vol. 1), Sri Vani Vilas Press, 1910.

Sanskrit13 min
🧘Vedanta
ब्रह्मज्ञानावलीमाला
Brahmajnanavalimala

Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 16 (Miscellaneous Prakaranas, Vol. 2), Sri Vani Vilas Press, 1910.

Sanskrit1 min
🧘Vedanta
दशश्लोकी
Dashashloki

Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 15 (Miscellaneous Prakaranas, Vol. 1), Sri Vani Vilas Press, 1910.

Sanskrit2 min
🧘Vedanta
वाक्यवृत्तिः
Vakya Vrtti

Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 15 (Miscellaneous Prakaranas, Vol. 1), Sri Vani Vilas Press, 1910.

Sanskrit4 min
🧘Vedanta
अनात्मश्रीविगर्हणप्रकरणम्
Anatmashrivigarhana Prakaranam

Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 16 (Miscellaneous Prakaranas, Vol. 2), Sri Vani Vilas Press, 1910.

Sanskrit3 min
🧘Vedanta
ब्रह्मानुचिन्तनम्
Brahmanucintanam

Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 16 (Miscellaneous Prakaranas, Vol. 2), Sri Vani Vilas Press, 1910.

Sanskrit3 min
और वेदान्तपुस्तकालय