स्वात्मनिरूपणम्
वेदान्त · Sanskrit · ⏱ 12 min
अन्य नाम · Also known as स्वात्मनिरूपणम्
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 15 (Miscellaneous Prakaranas, Vol. 1), Sri Vani Vilas Press, 1910.
श्रीगुरुचरणद्वन्द्वं वन्देऽहं मथितदुःसहद्वन्द्वम् ।
भ्रान्तिग्रहोपशान्तिं पांसुमयं यस्य भसितमातनुते ॥ १ ॥
देशिकवरं दयालुं वन्देऽहं निहतनिखिलसंदेहम् ।
यच्चरणद्वयमद्वयमनुभवमुपदिशति तत्पदस्वार्थम् ॥ २ ॥
संसारदावपावकसंतप्तः सकलसाधनोपेतः ।
स्वात्मनिरूपणनिपुणैर्वाक्यैः शिष्यः प्रबोध्यते गुरुणा ॥
अस्ति स्वयमित्यस्मिन्नर्थे कस्यास्ति संशयः पुंसः ।
अत्रापि संशयश्चेत्संशयिता यः स एव भवसि त्वम् ॥
नामिति वेत्ति योऽसौ सत्यं ब्रह्मैव वेत्ति नास्तीति ।
अहमस्मीति विजानन्ब्रह्मैवासौ स्वयं विजानाति ॥ ५ ॥
ब्रह्म त्वमेव तस्मान्नाहं ब्रह्मेति मोहमात्रमिदम् ।
मोहेन भवति भेदः क्लेशाः सर्वे भवन्ति तन्मूलाः ॥ ६ ॥
न क्लेशपञ्चकमिदं भजते कृतकोशपञ्चकविवेकः ।
अत एव पञ्च कोशान्कुशलधियः संततं विचिन्वन्ति ॥
अन्नप्राणमनोमयविज्ञानानन्दपञ्चकोशानाम् ।
एकैकान्तरभाजां भजति विवेकात्प्रकाशतामात्मा ॥ ८ ॥
वपुरिदमन्नमयाख्यः कोशो नात्मा जडो घटप्रायः ।
प्रागुत्पत्तेः पश्चात्तदभावस्यापि दृश्यमानत्वात् ॥ ९ ॥
कोशः प्राणमयोऽयं वायुविशेषो वपुष्यवच्छिन्नः ।
अस्य कथमात्मता स्यात्क्षुत्तृष्णाभ्यामुपेयुषः पीडाम् ॥
कुरुते वपुष्यहंतां गेहादौ यः करोति ममतां च ।
रागद्वेषविधेयो नासावात्मा मनोमयः कोशः ॥ ११ ॥
सुप्तौ स्वयं विलीना बोधे व्याप्ता कलेबरं सकलम् ।
विज्ञानशब्दवाच्या चित्प्रतिबिम्बो न बुद्धिरप्यात्मा ॥
सुप्तिगतैः सुखलेशैरभिमनुते यः सुखी भवामीति ।
आनन्दकोशनामा सोऽहंकारः कथं भवेदात्मा ॥ १३ ॥
यः स्फुरति बिम्बभूतः स भवेदानन्द एव सकलात्मा ।
प्रागूर्ध्वमपि च सत्त्वादविकारित्वादबाध्यमानत्वात् ॥
अन्नमयादेरस्मादपरं यदि नानुभूयते किंचित् ।
अनुभवितान्नमयादेरस्तीत्यस्मिन्न कश्चिदपलापः ॥ १५ ॥
स्वयमेवानुभवत्वाद्यद्यप्येतस्य नानुभाव्यत्वम् ।
सकृदप्यभावशङ्का न भवेद्बोधस्वरूपसत्तायाः ॥ १६ ॥
अनुभवति विश्वमात्मा विश्वेनासौ न चानुभूयेत ।
न खलु प्रकाश्यतेऽसौ विश्वमशेषं प्रकाशयन्भानुः ॥
तदिदं तादृशमीदृशमेतावत्तावदिति च यन्न भवेत् ।
ब्रह्म तदित्यवधेयं नो चेद्विषयो भवेत्परोक्षं च ॥ १८ ॥
इदमिदमिति प्रतीते वस्तुनि सर्वत्र बाध्यमानेऽपि ।
अनिदमबाध्यं तत्त्वं सत्त्वादेतस्य न च परोक्षत्वम् ॥
नावेद्यमपि परोक्षं भवति ब्रह्म स्वयंप्रकाशत्वात् ।
सत्यं ज्ञानमनन्तं ब्रह्मेत्येतस्य लक्षणं प्रथते ॥ २० ॥
सति कोशशक्त्युपाधौ संभवतस्तस्य जीवतेश्वरते ।
नो चेत्तयोरभावाद्विगतविशेषं विभाति निजरूपम् ॥
सति सकलदृश्यबाधे न किमप्यस्तीति लोकसिद्धं चेत् ।
यन्न किमपीति सिद्धं ब्रह्म तदेवेति वेदतः सिद्धम् ॥ २२ ॥
एवं मतिरहितानां तत्त्वमसीत्यादिवाक्यचिन्तनया ।
प्रतिभात्येष परोक्षवदात्मा प्रत्यक्प्रकाशमानोऽपि ॥ २३ ॥
तस्मात्पदार्थशोधनपूर्वं वाक्यस्य चिन्तयन्नर्थम् ।
देशिकदयाप्रभावादपरोक्षयति क्षणेन चात्मानम् ॥ २४ ॥
देहेन्द्रियादिधर्मानात्मन्यारोपयन्नभेदेन ।
कर्तृत्वाद्यभिमानी बोधः स्यात्त्वंपदस्य वाच्योऽर्थः ॥
देहस्य चेन्द्रियाणां साक्षी तेभ्यो विलक्षणत्वेन ।
प्रतिभाति योऽवबोधः प्रोक्तोऽसौ त्वंपदस्य लक्ष्योऽर्थः ॥
वेदावसानवाचा संवेद्यं सकलजगदुपादानम् ।
सर्वज्ञताद्युपेतं चैतन्यं तत्पदस्य वाच्योऽर्थः ॥ २७ ॥
विविधोपाधिविमुक्तं विश्वातीतं विशुद्धमद्वैतम् ।
अक्षरमनुभववेद्यं चैतन्यं तत्पदस्य लक्ष्योऽर्थः ॥ २८ ॥
सामानाधिकरण्यं तदनु विशेषणविशेष्यता चेति ।
अथ लक्ष्यलक्षकत्वं भवति पदार्थात्मनां च संबन्धः ॥
एकत्र वृत्तिरर्थे शब्दानां भिन्नवृत्तिहेतूनाम् ।
सामानाधिकरण्यं भवतीत्येवं वदन्ति लाक्षणिकाः ॥ ३० ॥
प्रत्यक्त्वपरोक्षत्वे परिपूर्णत्वं च सद्वितीयत्वम् ।
इतरेतरं विरुद्धं तत इह भवितव्यमेव लक्षणया ॥ ३१ ॥
मानान्तरोपरोधान्मुख्यार्थस्यापरिग्रहे जाते ।
मुख्याविनाकृतेऽर्थे या वृत्तिः सैव लक्षणा प्रोक्ता ॥ ३२ ॥
निखिलमपि वाच्यमर्थं त्यक्त्वा वृत्तिस्तदन्वितेऽन्यार्थे ।
जहतीति लक्षणा स्याद्गङ्गायां घोषवदिह न ग्राह्या ॥
वाच्यार्थमत्यजन्त्या यस्या वृत्तेः प्रवृत्तिरन्यार्थे ।
इयमजहतीति कथिता शोणो धावतिवदत्र न ग्राह्या ॥
जहदजहतीति सा स्याद्या वाच्यार्थैकदेशमपहाय ।
बोधयति चैकदेशं सोऽयं द्विज इतिवदाश्रयेदेनाम् ॥
सोऽयं द्विज इति वाक्यं त्यक्त्वा प्रत्यक्परोक्षदेशाद्यम् ।
द्विजमात्रलक्षकत्वात्कथयत्यैक्यं पदार्थयोरुभयोः ॥ ३६ ॥
तद्वत्तत्त्वमसीति त्यक्त्वा प्रत्यक्परोक्षतादीनि ।
चिद्वस्तु लक्षयित्वा बोधयति स्पष्टमसिपदेनैक्यम् ॥
इत्थं बोधितमर्थं महता वाक्येन दर्शितैक्येन ।
अहमित्यपरोक्षयतां वेदो वेदयति वीतशोकत्वम् ॥ ३८ ॥
प्रायः प्रवर्तकत्वं विधिवचसां लोकवेदयोर्दृष्टम् ।
सिद्धं बोधयतोऽर्थं कथमिव तद्भवति तत्त्वमस्यादेः ॥
विधिरेव न प्रवृत्तिं जनयत्यभिलषितवस्तुबोधोऽपि ।
राजा याति सुतोऽभूदिति बोधेन प्रवर्तते लोकः ॥ । ४० ॥
ऐक्यपरैः श्रुतिवाक्यैरात्मा शश्वत्प्रकाश्यमानोऽपि ।
देशिकदयाविहीनैरपरोक्षयितुं न शक्यते पुरुषैः ॥ ४१ ॥
विरहितकाम्यनिषिद्धो विहितानुष्ठाननिर्मलस्वान्तः ।
भजति निजमेव बोधं गुरुणा किमिति त्वया न मन्तव्यम् ॥
कर्मभिरेव न बोधः प्रभवति गुरुणा विना दयानिधिना ।
आचार्यवान्हि पुरुषो वेदेत्यर्थस्य वेदसिद्धत्वात् ॥ ४३ ॥
वेदोऽनादितया वा यद्वा परमेश्वरप्रणीततया ।
भवति परमं प्रमाणं बाधो नास्ति स्वतश्च परतो वा ॥
नापेक्षते यदन्यद्यदपेक्षन्तेऽखिलानि मानानि ।
वाक्यं तन्निगमानां मानं ब्रह्माद्यतीन्द्रियावगतौ ॥ ४५ ॥
मानं प्रबोधयन्तं बोधं मानेन ये बुभुत्सन्ते ।
एधोभिरेव दहनं दग्धुं वाञ्छन्ति ते महात्मानः ॥ ४६ ॥
वेदोऽनादिरमुष्य व्यञ्जक ईशः स्वयंप्रकाशात्मा ।
तदभिव्यक्तिमुदीक्ष्य प्रोक्तोऽसौ सूरिभिः प्रमाणमिति ॥
रूपाणामवलोके चक्षुरिवान्यन्न कारणं दृष्टम् ।
तद्वददृष्टावगतौ वेदवदन्यो न वेदको हेतुः ॥ ४८ ॥
निगमेषु निश्चितार्थं तन्त्रे कश्चिद्यदि प्रकाशयति ।
तदिदमनुवादमात्रं प्रामाण्यं तस्य सिध्यति न किंचित् ॥
अंशद्वयवति निगमे साधयति द्वैतमेव कोऽप्यंशः ।
अद्वैतमेव वस्तु प्रतिपादयति प्रसिद्धमपरोंऽशः ॥ ५० ॥
अद्वैतमेव सत्यं तस्मिन्द्वैतं न सत्यमध्यस्तम् ।
रजतमिव शुक्तिकायां मृगतृष्णायामिवोदकस्फुरणम् ॥
आरोपितं यदि स्यादद्वैतं वस्त्ववस्तुनि द्वैते ।
तदयुक्तमेव यस्मात्सत्येऽध्यासो भवत्यसत्यानाम् ॥ ५२ ॥
यद्यारोपणमुभयोस्तद्व्यतिरिक्तस्य कस्यचिदभावात् ।
आरोपणं न शून्ये तस्मादद्वैतसत्यता ग्राह्या ॥ ५३ ॥
प्रत्यक्षाद्यनवगतं श्रुत्या प्रतिपादनीयमद्वैतम् ।
द्वैतं न प्रतिपाद्यं तस्य स्वत एव लोकसिद्धत्वात् ॥ ५४ ॥
अद्वैतं सुखरूपं दुःसहदुःखं सदा भवेद्द्वैतम् ।
यत्र प्रयोजनं स्यात्प्रतिपादयति श्रुतिस्तदेवासौ ॥ ५५ ॥
निगमगिरा प्रतिपाद्यं वस्तु यदानन्दरूपमद्वैतम् ।
स्वाभाविकं स्वरूपं जीवत्वं तस्य केचन ब्रुवते ॥ ५६ ॥
स्वाभाविकं यदि स्याज्जीवत्वं तस्य विशदविज्ञप्तेः ।
सकृदपि न तद्विनाशं गच्छेदुष्णप्रकाशवद्वह्नेः ॥ ५७ ॥
यद्वदयो रसविद्धं काञ्चनतां याति तद्वदेवासौ ।
जीवः साधनशक्त्या परतां यातीति केचिदिच्छन्ति ॥
तदिदं भवति न युक्तं गतवति तस्मिंश्चिरेण रसवीर्ये ।
प्रतिपद्यते प्रणाशं हैमो वर्णोऽप्ययःसमारूढः ॥ ५९ ॥
जीवत्वमपि तथेदं बहुविधसुखदुःखलक्षणोपेतम् ।
गतमिव साधनशक्त्या प्रतिभात्येव प्रयाति न विनाशम् ॥
तस्मात्स्वतो यदि स्याज्जीवः सततं स एव जीवः स्यात् ।
एवं यदि परमात्मा परमात्मैवायमिति भवेद्युक्तम् ॥
यदि वा परेण साम्यं जीवश्चेद्भजति साधनबलेन ।
कालेन तदपि कियता नश्यत्येवेति निश्चितं सकलैः ॥
तस्मात्परं स्वकीयं देहं मोहात्मकं च संसारम् ।
स्वज्ञानेन ग्रसित्वा पूर्णः स्वयमेव शिष्यते नान्यत् ॥
सत्यं ज्ञानमनन्तं प्रकृतं परमात्मरूपमद्वैतम् ।
अवबोधयन्ति निखिलाः श्रुतयः स्मृतिभिः समं समस्ताभिः ॥
अद्वैतबोधकानां निखिलानां निगमवाक्यजालानाम् ।
वाक्यान्तराणि सकलान्यभिधीयन्तेऽस्य शेषभूतानि ॥
यस्मिन्महिरवदुदिते तिमिरवदपयान्ति कर्तृतादीनि ।
ज्ञानं विरहितभेदं कथमिव तद्भवति तत्त्वमस्यादेः ॥
कर्मप्रकरणनिष्ठं ज्ञानं कर्माङ्गमिष्यते प्राज्ञैः ।
भिन्नप्रकरणभाजः कर्माङ्गत्वं कथं भवेज्ज्ञप्तेः ॥ ६७ ॥
अधिकारिविषयभेदौ कर्मज्ञानात्मकावुभौ काण्डौ ।
एवं सति कथमनयोरङ्गाङ्गित्वं परस्परं घटते ॥ ६८ ॥
ज्ञानं कर्मणि न स्याज्ज्ञाने कर्मेदमपि तथा न स्यात् ।
तत्कथमनयोरुभयोस्तपनतमोवत्समुच्चयो घटते ॥ ६९ ॥
तस्मान्मोहनिवृत्तौ ज्ञानं न सहायमन्यदर्थयते ।
यद्वद्घनतरतिमिरप्रकरपरिध्वंसने सहस्रांशुः ॥ ७० ॥
ज्ञानं तदेवममलं साक्षी विश्वस्य भवति परमात्मा ।
संबध्यते न धर्मैः साक्षी तैरेव सच्चिदानन्दः ॥ ७१ ॥
रज्ज्वादेरुरगाद्यैः संबन्धवदस्य दृश्यसंबन्धः ।
सततमसङ्गोऽयमिति श्रुतिरप्यमुमर्थमेव साधयति ॥
कर्तृ च कर्म च यस्य स्फुरति ब्रह्मैव तन्न जानाति ।
यस्य न कर्तृ न कर्म स्फुटतरमयमेव वेदितुं क्रमते ॥
कर्तृत्वादिकमेतन्मायाशक्त्या प्रपद्यते निखिलम् ।
इति केचिदाहुरेषा भ्रान्तिर्ब्रह्मातिरेकतो नान्यत् ॥ ७४ ॥
तस्मिन्ब्रह्मणि विदिते विश्वमशेषं भवेदिदं विदितम् ।
कारणमृदि विदितायां घटकरकाद्या यथावगम्यन्ते ॥
तदिदं कारणमेकं विगतविशेषं विशुद्धचिद्रूपम् ।
तस्मात्सदेकरूपान्मायोपहितादभूदिदं विश्वम् ॥ ७६ ॥
कारणमसदिति केचित्कथयन्त्यसतो भवेन्न कारणता ।
अङ्कुरजननी शक्तिः सति खलु बीजे समीक्ष्यते सकलैः ॥
कारणमसदिति कथयन्वन्ध्यापुत्रेण निर्वहेत्कार्यम् ।
किं च मृगतृष्णिकाम्भः पीत्वोदन्यां महीयसीं शमयेत् ॥
यस्मान्न सोऽयमसतो वादः संभवति शास्त्रयुक्तिभ्याम् ।
तस्मात्सदेव तत्त्वं सर्वेषां भवति कारणं जगताम् ॥ ७९ ॥
जगदाकारतयापि प्रथते गुरुशिष्यविग्रहतयापि ।
ब्रह्माकारतयापि प्रतिभातीदं परात्परं तत्त्वम् ॥ ८० ॥
सत्यं जगदिति भानं संसृतये स्यादपक्वचित्तानाम् ।
तस्मादसत्यमेतन्निखिलं प्रतिपादयन्ति निगमान्ताः ॥
परिपक्वमानसानां पुरुषवराणां पुरातनैः सुकृतैः ।
बृह्मैवेदं सर्वं जगदिति भूयः प्रबोधयत्येषः ॥ ८२ ॥
अनवगतकाञ्चनानां भूषणधीरेव भूषणे हैमे ।
एवमविवेकभाजां जगति जनानां न तात्त्विकी धिषणा ॥
अहमालम्बनसिद्धं कस्य परोक्षं भवेदिदं ब्रह्म ।
तदपि विचारविहीनैरपरोक्षयितुं न शक्यते मुग्धैः ॥
अहमिदमिति च मतिभ्यां सततं व्यवहरति सर्वलोकोऽपि ।
प्रथमा प्रतीचि चरमा निवसति वपुरिन्द्रियादिबाह्यार्थे ॥
वपुरिन्द्रियादिविषये याहंबुद्धिर्महत्यसौ भ्रान्तिः ।
तद्बुद्धिरतस्मिन्नित्यध्यासत्वेन शास्यमानत्वात् ॥ ८६ ॥
तस्मादशेषसाक्षी परमात्मैवाहमर्थ इत्युचितम् ।
अजडवदेव जडोऽयं सत्संबन्धाद्भवत्यहंकारः ॥ ८७ ॥
तस्मात्सर्वशरीरेष्वहमहमित्येव भासते स्पष्टः ।
यः प्रत्ययो विशुद्धस्तस्य ब्रह्मैव भवति मुख्योऽर्थः ॥ ८८ ॥
गोशब्दार्थो गोत्वं तदपि व्यक्तिः प्रतीयतेऽर्थतया ।
अहमर्थः परमात्मा तद्वद्भान्त्या भवत्यहंकारः ॥ ८९ ॥
दग्धृत्वादिकमयसः पावकसङ्गेन भासते यद्वत् ।
तद्वच्चेतनसङ्गादहमि प्रतिभान्ति कर्तृतादीनि ॥ ९० ॥
देहेन्द्रियादिदृश्यव्यतिरिक्तं विमलमतुलमद्वैतम् ।
अहमर्थ इति विदित्वा तद्व्यतिरिक्तं न कल्पयेत्किंचित् ॥
यद्वत्सुखदुःखानामवयवभेदादनेकता देहे ।
तद्वदिहासति भेदेऽप्यनुभववैविध्यमात्मनामेषाम् ॥ ९२ ॥
किमिदं किमस्य रूपं कथमिदमासीदमुष्य को हेतुः ।
इति न कदापि विचिन्त्यं चिन्त्यं मायेति धीमता विश्वम् ॥
दन्तिनि दारुविकारे दारु तिरोभवति सोऽपि तत्रैव ।
जगति तथा परमात्मा परमात्मन्यपि जगत्तिरोधत्ते ।
आत्ममये महति पटे विविधजगच्चित्रमात्मना लिखितम् ।
स्वयमेव केवलमसौ पश्यन्प्रमुदं प्रयाति परमात्मा ॥ ९५ ॥
चिन्मात्रममलमक्षयमद्वयमानन्दमनुभवारूढम् ।
ब्रह्मैवास्ति तदन्यन्न किमप्यस्तीति निश्चयो विदुषाम् ॥
व्यवहारस्य दशेयं विद्याविद्येति भेदपरिभाषा ।
नास्त्येव तत्त्वदृष्ट्या तत्त्वं ब्रह्मैव नान्यदस्त्यस्मात् ॥ ९७ ॥
अस्त्यन्यदिति मतं चेत्तदपि ब्रह्मैतदस्तितारूपम् ।
व्यतिरिक्तमस्तिताया नास्तितया शून्यमेव तत्सिद्धम् ॥
तत्त्वावबोधशक्त्या सुस्थितया बाधितापि सा माया ।
आदेहपातमेषामाभात्यात्मानमपि निजं विदुषाम् ॥ ९९ ॥
एष विशेषो विदुषां पश्यन्तोऽपि प्रपञ्चसंसारम् ।
पृथगात्मनो न किंचित्पश्येयुः सकलनिगमनिर्णीतात् ॥
किं चिन्त्यं किमचिन्त्यं किं कथनीयं किमप्यकथनीयम् ।
किं कृत्यं किमकृत्यं निखिलं ब्रह्मेति जानतां विदुषाम् ॥
निखिलं दृश्यविशेषं दृग्रूपत्वेन पश्यतां विदुषाम् ।
बन्धो नापि न मुक्तिर्न परात्मत्वं न चापि जीवत्वम् ॥
असकृदनुचिन्तितानामव्याहततरनिजोपदेशानाम् ।
प्रामाण्यपरमसीम्नां निगमनमिदमेव निखिलनिगमानाम् ॥
इति बोधितः स गुरुणा शिष्यो हृष्टः प्रणम्य तं पदयोः ।
स्वानुभवसिद्धमर्थं स्वयमेवान्तर्विचारयामास ॥ १०४ ॥
अजरोऽहमक्षरोऽहं प्राज्ञोऽहं प्रत्यगात्मबोधोऽहम् ।
परमानन्दमयोऽहं परमशिवोऽहं भवामि परिपूर्णः ॥
आद्योऽहमात्मभाजामात्मानन्दानुभूतिरसिकोऽहम् ।
आबालगोपमखिलैरहमित्यनुभूयमानमहिमाहम् ॥ १०६ ॥
इहपरसुखविमुखोऽहं निजसुखबोधानुभूतिभरितोऽहम् ।
इतिमतिदूरतरोऽहं भावेतरसुखनिषक्तचित्तोऽहम् ॥
ईशोऽहमीश्वराणामीर्ष्याद्वेषानुषङ्गरहितोऽहम् ।
ईक्षणविषयमतीनामीप्सितपुरुषार्थसाधनपरोऽहम् ॥
उदयोऽहमेव जगतामुपनिषदुद्यानकृतविहारोऽहम् ।
उद्वेलशोकसागरबाडबमुखहव्यवाहनाचिरहम् ॥ १०९ ॥
ऊर्जस्वलनिजविभवैरूर्ध्वमधस्तिर्यगश्नुवानोऽहम् ।
ऊहापोहविचारैरुररीकृतवत्प्रतीयमानोऽहम् ॥ ११० ॥
ऋषिरहमृष्यगणोऽहं दृष्टिरहं दृश्यमानमहमेव ।
ऋद्धिरहं वृद्धिरहं तृप्तिरहं तृप्तिदीपदीप्तिरहम् ॥ १११ ॥
एकोऽहमेतदीदृशमेवमितिस्फुरितभेदरहितोऽहम् ।
एष्टव्योऽहमनीहैरन्तः सुकृतानुभूतिभूतोऽहम् ॥ ११२ ॥
ऐक्यावभासकोऽहं वाक्यपरिज्ञानपावनमतीनाम् ।
ऐशमहमेव तत्त्वं नैशतमःप्रायमोहमिहिरोऽहम् ॥ ११३ ॥
ओजोऽहमोषधीनामोतप्रोतायमानभुवनोऽहम् ।
ओंकारसारसोल्लसदात्मसुखामोदमत्तभृङ्गोऽहम् ॥ ११४ ॥
औषधमहमशुभानामौपाधिकधर्मजालरहितोऽहम् ।
औदार्यातिशयोऽहं विविधचतुर्वर्गवितरणपरोऽहम् ॥
अङ्कुशमहमखिलानां महत्तया मत्तवारणेन्द्राणाम् ।
अम्बरमिव विमलोऽहं शम्बररिपुजातविकृतिरहितोऽहम् ॥
अस्तविकल्पमतीनामस्खलदुपदेशगम्यमानोऽहम् ।
अस्थिरसुखविमुखोऽहं सुस्थिरसुखबोधसंपदुचितोऽहम् ॥
करुणारसभरितोऽहं कबलितकमलासनादिलोकोऽहम् ।
कलुषाकृतिविधुरोऽहं कल्मषसुकृतोपलेपरहितोऽहम् ॥
खानामगोचरोऽहं खातीतोऽहं खपुष्पभवगोऽहम् ।
खलजनदुरासदोऽहं खण्डज्ञानापनोदनपरोऽहम् ॥ ११९ ॥
गलितद्वैतकथोऽहं देहीभवदखिलमूलहृदयोऽहम् ।
गन्तव्योऽहमनीहैर्गत्यागतिरहितपूर्णबोधोऽहम् ॥ १२० ॥
घनतरविमोहतिमिरप्रकरप्रध्वंसभानुनिकरोऽहम् ।
घटिकावासररजनीवत्सरयुगकल्पकालभेदोऽहम् ॥ १२२ ॥
चरदचरदात्मकोऽहं चतुरमतिश्लाघनीयचरितोऽहम् ।
चपलजनदुर्गमोऽहं चञ्चलभवजलधिपारदेशोऽहम् ॥
छन्दः सिन्धुनिगूढज्ञानसुखास्वादमोदमानोऽहम् ।
छलपदविहितमतीनां छन्नोऽहं शान्तिमार्गगम्योऽहम् ॥
जलजासनादिगोचरपञ्चमहाभूतमूलभूतोऽहम् ।
जगदानन्दकरोऽहं जन्मजरामरणरोगरहितोऽहम् ॥
झंकृतिहुंकृतिशिञ्जितबृंहितमुखविविधनादभेदोऽहम् ।
झटितिघटितात्मवेदनदीपपरिस्फुरितहृदयभवनोऽहम् ॥
ज्ञानमहं ज्ञेयमहं ज्ञाताहं ज्ञानसाधनगणोऽहम् ।
ज्ञातृज्ञानज्ञेयविनाकृतमस्तित्वमात्रमेवाहम् ॥ १२६ ॥
तत्त्वातीतपदोऽहं तनुरहमस्मीति भावरहितोऽहम् ।
तामसदुरधिगमोऽहं तत्त्वंपदबोधबोध्यहृदयोऽहम् ॥
दैवतदैत्यनिशाचरमानवतिर्यङ्महीधरादिरहम् ।
देहेन्द्रियरहितोऽहं दक्षिणपूर्वादिदिग्विभागोऽहम् ॥
धर्माधर्ममयोऽहं धर्माधर्मादिबन्धरहितोऽहम् ।
धार्मिकजनसुलभोऽहं धन्योऽहं धातुरादिभूतोऽहम् ॥
नामादिविरहितोऽहं नरकस्वर्गापवर्गरहितोऽहम् ।
नादान्तवेदितोऽहं नानाविधनिखिलनिगमसारोऽहम् ॥
परजीवभेदबाधकपरमार्थज्ञानशुद्धचित्तोऽहम् ।
प्रकृतिरहं विकृतिरहं परिणतिरहमस्मि भागधेयानाम् ॥
फणधरभूधरवारणविग्रहविधृतप्रपञ्चसारोऽहम् ।
फालतलोदितलोचनपावकपरिभूतपञ्चबाणोऽहम् ॥ १३२ ॥
बद्धो भवामि नाहं बन्धान्मुक्तस्तथापि नैवाहम् ।
बोध्यो भवामि नाहं बोधोऽहं नैव बोधको नाहम् ॥
भक्तिरहं भजनमहं भुक्तिरहं भुक्तिमुक्तिरहमेव ।
भूतानुशासनोऽहं भूतभवद्भव्यमूलभूतोऽहम् ॥ १३४ ॥
मान्योऽहमस्मि महतां मन्दमतीनाममाननीयोऽहम् ।
मदरागमानमोहितमानसदुर्वासनादुरापोऽहम् ॥ १३५ ॥
यजनयजमानयाजकयागमयोऽहं यमादिरहितोऽहम् ।
यमवरुणयक्षवासवराक्षसमरुदीशवह्निरूपोऽहम् ॥ १३६ ॥
रक्षाविधानशिक्षावीक्षितलीलावलोकमहिमाहम् ।
रजनीदिवसविरामस्फुरदनुभूतिप्रमाणसिद्धोऽहम् ॥
लक्षणलक्ष्यमयोऽहं लाक्षणिकोऽहं लयादिरहितोऽहम् ।
लाभालाभमयोऽहं लब्धव्यानामलभ्यमानोऽहम् ॥ १३८ ॥
वर्णाश्रमरहितोऽहं वर्णमयोऽहं वरेण्यगण्योऽहम् ।
वाचामगोचरोऽहं वचसामर्थेन गम्यमानोऽहम् ॥ १३९ ॥
शमदमविरहितमनसां शास्त्रशतैरप्यगम्यमानोऽहम् ।
शरणमहमेव विदुषां शकलीकृतविविधसंशयगणोऽहम् ॥
षड्भावविरहितोऽहं षड्गुणरहितोऽहमहितरहितोऽहम् ।
षट्कोशविरहितोऽहं षट्त्रिंशत्तत्त्वजालरहितोऽहम् ॥
संवित्सुखात्मकोऽहं समाधिसंकल्पकल्पवृक्षोऽहम् ।
संसारविरहितोऽहं साक्षात्कारोऽहमात्मविद्यायाः ॥
हव्यमहं कव्यमहं हेयोपादेयभावशून्योऽहम् ।
हरिरहमस्मि हरोऽहं विधिरहमेवास्मि कारणं तेषाम् ॥
क्षालितकलुषभयोऽहं क्षपितभवक्लेशजालहृदयोऽहम् ।
क्षान्ताद्यक्षरसुघटितविविधव्यवहारमूलमहमेव ॥ १४४ ॥
बहुभिः किमेभिरुक्तैरहमेवेदं चराचरं विश्वम् ।
शीकरफेनतरङ्गाः सिन्धोरपराणि न खलु वस्तूनि ॥
शरणं न भवति जननी न पिता न सुता न सोदरा नान्ये ।
परमं शरणमिदं स्याच्चरणं मम मूर्ध्नि देशिकन्यस्तम् ॥
आस्ते देशिकचरणं निरवधिरास्ते तदीक्षणे करुणा ।
आस्ते किमपि तदुक्तं किमतः परमस्ति जन्मसाफल्यम् ॥
कारुण्यसारसान्द्राः काङ्क्षितवरदानकल्पकविशेषाः ।
श्रीगुरुचरणकटाक्षाः शिशिराः शमयन्ति चित्तसंतापम् ॥
कबलितचञ्चलचेतोगुरुतरमण्डूकजातपरितोषा ।
शेते हृदयगुहायां चिरतरमेकैव चिन्मयी भुजगी ॥
मयि सुखबोधपयोधौ महति ब्रह्माण्डबुद्बुदसहस्रम् ।
मायामयेन मरुता भूत्वा भूत्वा मुहुस्तिरोधत्ते ॥ १५० ॥
गुरुकरुणयैव नावा प्राक्तनभाग्यानुकूलमारुतया ।
दुःसहदुःखतरङ्गैस्तुङ्गः संसारसागरस्तीर्णः ॥ १५१ ॥
सति तमसि मोहरूपे विश्वमपश्यं तदेतदित्यखिलम् ।
उदितवति बोधभानौ किमपि न पश्यामि किं न्विदं चित्रम् ॥
इत्यात्मबोधलाभं मुहुरनुचिन्त्य प्रमोदमानेन ।
प्रारब्धकर्मणोऽन्ते परं पदं प्राप्यते हि कैवल्यम् ॥ १५३ ॥
मोहान्धकारहरणं संसारोद्वेलसागरोत्तरणम् ।
स्वात्मनिरूपणमेतत्प्रकरणमन्तर्विचिन्त्यतां सद्भिः ॥
श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
स्वात्मनिरूपणं संपूर्णम् ॥
The Works of Sri Sankaracharya, Volume 15 (Miscellaneous Prakaranas, Vol. 1), Sri Vani Vilas Press, 1910
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 15 (Miscellaneous Prakaranas, Vol. 1), Sri Vani Vilas Press, 1910.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 16 (Miscellaneous Prakaranas, Vol. 2), Sri Vani Vilas Press, 1910.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 15 (Miscellaneous Prakaranas, Vol. 1), Sri Vani Vilas Press, 1910.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 15 (Miscellaneous Prakaranas, Vol. 1), Sri Vani Vilas Press, 1910.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 16 (Miscellaneous Prakaranas, Vol. 2), Sri Vani Vilas Press, 1910.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 16 (Miscellaneous Prakaranas, Vol. 2), Sri Vani Vilas Press, 1910.