लघुवाक्यवृत्तिः
वेदान्त · Sanskrit · ⏱ 2 min
अन्य नाम · Also known as लघुवाक्यवृत्तिः
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 16 (Miscellaneous Prakaranas, Vol. 2), Sri Vani Vilas Press, 1910.
स्थूलो मांसमयो देहो
सूक्ष्मः स्याद्वासनामयः ।
ज्ञानकर्मेन्द्रियैः सार्धं
धीप्राणौ तच्छरीरगौ ॥ १ ॥
अज्ञानं कारणं साक्षी
बोधस्तेषां विभासकः ।
बोधाभासो बुद्धिगतः
कर्ता स्यात्पुण्यपापयोः ॥ २ ॥
स एव संसरेत्कर्म-
वशाल्लोकद्वये सदा ।
बोधाभासाच्छुद्धबोधं
विविच्यादतियत्नतः ॥ ३ ॥
जागरस्वप्नयोरेव
बोधाभासविडम्बना ।
सुप्तौ तु तल्लये बोधः
शुद्धो जाड्यं प्रकाशयेत् ॥ ४ ॥
जागरेऽपि धियस्तूष्णीं-
भावः शुद्धेन भास्यते ।
धीव्यापाराश्च चिद्भास्या-
श्चिदाभासेन संयुताः ॥ ५ ॥
वह्नितप्तजलं ताप-
युक्तं देहस्य तापकम् ।
चिद्भास्या धीस्तदाभास-
युक्तान्यं भासयेत्तथा ॥ ६ ॥
रूपादौ गुणदोषादि-
विकल्प्रा बुद्धिगाः क्रियाः ।
ताः क्रिया विषयैः सार्धं
भासयन्ती चितिर्मता ॥ ७ ॥
रूपाच्च गुणदोषाभ्यां
विविक्ता केवला चितिः ।
सैवानुवर्तते रूप-
रसादीनां विकल्पने ॥ ८ ॥
क्षणे क्षणेऽन्यथाभूता
धीविकल्पाश्चितिर्न तु ।
मुक्तासु सूत्रवद्बुद्धि-
विकल्पेषु चितिस्तथा ॥ ९ ॥
मुक्ताभिरावृतं सूत्रं
मुक्तयोर्मध्य ईक्ष्यते ।
तथा वृत्तिविकल्पैश्चि-
त्स्पष्टा मध्ये विकल्पयोः ॥ १० ॥
नष्टे पूर्वविकल्पे तु
यावदन्यस्य नोदयः ।
निर्विकल्पकचैतन्यं
स्पष्टं तावद्विभासते ॥ ११ ॥
एकद्वित्रिक्षणेष्वेवं
विकल्पस्य निरोधनम् ।
क्रमेणाभ्यस्यतां यत्ना-
द्ब्रह्मानुभवकाङ्क्षिभिः ॥ १२ ॥
सविकल्पकजीवोऽयं
ब्रह्म तन्निर्विकल्पकम् ।
अहं ब्रह्मेति वाक्येन
सोऽयमर्थोऽभिधीयते ॥ १३ ॥
सविकल्पकचिद्योऽहं
ब्रह्मैकं निर्विकल्पकम् ।
स्वतःसिद्धा विकल्पास्ते
निरोद्धव्याः प्रयत्नतः ॥ १४ ॥
शक्यः सर्वनिरोधेन
समाधिर्योगिनां प्रियः ।
तदशक्तौ क्षणं रुद्ध्वा
श्रद्धालुर्ब्रह्मतात्मनः ॥ १५ ॥
श्रद्धालुर्ब्रह्मतां स्वस्य
चिन्तयेद्बुद्धिवृत्तिभिः ।
वाक्यवृत्त्या यथाशक्ति
ज्ञात्वाद्धाभ्यम्यतां सदा ॥ १६ ॥
तच्चिन्तनं तत्कथन-
मन्योन्यं तत्प्रबोधनम् ।
एतदेकपरत्वं च
ब्रह्माभ्यासं विदुर्बुधाः ॥ १७ ॥
देहात्मधीवद्ब्रह्मात्म-
धदार्ढ्ये कृतकृत्यता ।
यदा तदायं म्रियतां
मुक्तोऽसौ नात्र संशयः ॥ १८ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छकरभगवतः कृतौ
लघुवाक्यवृत्तिः संपूर्णा ॥
The Works of Sri Sankaracharya, Volume 16 (Miscellaneous Prakaranas, Vol. 2), Sri Vani Vilas Press, 1910
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 15 (Miscellaneous Prakaranas, Vol. 1), Sri Vani Vilas Press, 1910.