🪷

श्रीविद्यातारकोपनिषत्

Shrividyatarakopanishat

उपनिषद् · 🌺 देवी · Sanskrit · ⏱ 2 min

अन्य नाम · Also known as श्रीविद्यातारकोपनिषत्

Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.

अक्षर का आकार

शं नो मित्रः शं वरुणः इति शान्तिः

प्रथमः पादः

अथैनमगस्त्यः पप्रच्छ हयग्रीवं किं तारकं किं तरति । स होवाच हयग्रीवः । तारदीर्घानुलम्बिपूर्वकं प्रथमं खण्डं ततो द्वितीयं खण्डं ततस्तृतीयं खण्डं ततश्चतुर्थं खण्डं ब्रह्मात्मसच्चिदानन्दात्मकमन्त्रमित्युपासितव्यम् । अकारः प्रथमकूटाक्षरो भवति । उकारो द्वितीयकूटाक्षरो भवति । मकारस्तृतीयकूटाक्षरो भवति । अर्धमातृका चतुर्थकूटाक्षरो भवति । बिन्दुः पञ्चमकूटाक्षरो भवति । नादः षष्ठकूटाक्षरो भवति । तारकत्वात्तारको भवति । तदेव मन्त्रतारकं भवति । तदेव मन्त्रतारकब्रह्म त्वं विद्धि । तदेवोपासितव्यम् । गर्भजन्ममरणसंसारमहद्भयात्तं तारयति । तारकमित्येतत्तारकं ब्राह्मणो नित्यं महीयते । स पाप्मानं तरति । स मृत्युं तरति । स ब्रह्महत्यां तरति । स भ्रूणहत्यां तरति । स वीरहत्यां तरति । स सर्वं तरति । स संसारं तरति । सोऽविमुक्तमाश्रितो भवति ।

अकाराक्षरसंभूता वाग्भवा विश्वभाविता ।
उकाराक्षरसंभूता तेजसः कामराजका ॥

प्राज्ञो मकारसंभूता तार्तीया च तृतीयका ।
अर्धमात्रा षोडशी च ब्रह्मानन्दैकविग्रहा ॥

तस्याः सान्निध्यवशतो जगदानन्ददायिनी ।
उत्पत्तिस्थितिसंहारकारिणी सर्वदेहिनाम् ॥

त्रिकूटा भवति ज्ञेया मूलप्रकृतिसङ्गता ।
प्रकृतिः प्रणवत्वाच्च सा त्रिकूटत्रयात्मिका ॥

एवं यच्चान्यत् त्रिकालातीतम् । चतुष्कूटात्मिकैव सर्वकूटात्मिका ब्रह्ममयी । तुर्यात्मब्रह्मा सोऽयमात्मा चतुष्पाज्जगतः स्थानं न बहिःप्रज्ञं नोभयतःप्रज्ञं सप्ताङ्ग एकोनविंशतिमुखः । स्थूलभुग्वैश्वानरात्मिकां कामपीठालयां मित्रेशनाथात्मिकां जाग्रद्दशाधिष्ठायिनीमिच्छाशक्त्यात्मिकां कामेश्वरीं प्रथमकूटां मन्यन्ते ।

इति प्रथमः पादः

द्वितीयः पादः

स्वप्नस्थानेऽनन्तः संज्ञासप्ताङ्ग एकोनविंशतिमुखः प्रविभक्तोऽभूत् । तैजसात्मिकां जालन्धरपीठालयां षष्ठीशनाथात्मिकां वज्रेश्वरीं विष्ण्वात्मिकां क्रियारूपां स्वप्नावस्थानस्थितिरूपामिच्छाशक्तिस्वरूपिणीं द्वितीयकूटां मन्यन्ते ।

इति द्वितीयः पादः

श्रीविद्यातारकोपनिषत्

तृतीयः पादः

यत्र सुप्तो न कञ्चन कामं कामयते तत्सुषुप्तम् । पश्यन्ति यत् सुषुप्तिस्थान एकीभूतप्रज्ञानघन एवानन्देऽभूत् । इच्छाशक्तिरूपां स्वप्नावस्थानसुषुप्तिदशाधिष्ठायिनीं सानन्दकलां तृतीयकूटां मन्यन्ते ।

इति तृतीयः पादः

चथुर्थ: पाद:

एषा सर्वेश्वर्येषा सर्वोत्तमैषान्तर्याम्येषा योनिः सर्वेषां प्रभवाप्ययौ हि भूतानाम् । नोभयतःप्रज्ञां प्रज्ञानघनां न प्रज्ञां नाप्रज्ञामदृष्टामव्यवहार्यामग्राह्यामलक्षणामचिन्त्यामव्यपदेश्यामेकात्मप्रत्ययसारां प्रपञ्चोपशमनीं शान्तां शिवामद्वैतां षोडशाक्षरीं स्फुरत्तादृशाधिष्ठायिनीं चतुर्थखण्डात्मिकां मन्यन्ते । सात्मा विज्ञेया । सदोज्ज्वलाविद्या । तत्कार्यहीना स्वात्मबन्धहरा सर्वदाद्वैतानन्दरूपा सर्वाधिष्ठानसन्मात्रा निरस्ताविद्यातमोमोहाहमेवेति संभाव्याहमों तत्सद्यत् परंब्रह्म चतुष्कूटा परंज्योतिस्साहमोमित्यात्मानमादाय मनसा चतुष्कूटामेककार्यं तदा चतुष्कूटाहमिति तत्पराः प्रवदन्ति । येन ते संसारिण आत्मना विरागा एव । न संसारिणः । य एवं वेद स मुक्तो भवति स मुक्तो भवति इत्यगस्त्यः । इत्युपनिषत् ।

इति चतुर्थ: पाद:

इति श्रीविद्यातारकोपनिषत् समाप्ता

स्रोत · Source

अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.

#anya-upanishadah

सम्बन्धित पाठ · Related reading

और उपनिषद्पुस्तकालयदेवी पूजा बुक करें