🪷

नारायणपूर्वतापिनीयोपनिषत्

Narayanapurvatapiniyopanishat

उपनिषद् · 🪷 भगवान विष्णु · Sanskrit · ⏱ 8 min

अन्य नाम · Also known as नारायणपूर्वतापिनीयोपनिषत् · Narayanapurvatapiniyopanishat

Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.

अक्षर का आकार

प्रथमः खण्डः

अथ ब्रह्माणं भगवन्तं सनत्कुमारः पप्रच्छ । कीदृशं नारायणाष्टाक्षरं भवतीति व्याचष्टे । अथ यो वै नारायणः स भगवान् परब्रह्मण आनन्दो भवति । ज्ञात्वा जीवन्मुक्तो भवति । सच्चिदानन्दस्वरूपपरवस्तु भवति । अष्टाक्षरं अष्टमूर्ति भवति । प्रथमरूपः पृथिवीरूपो भवति । द्वितीयमापो भवति । तृतीयस्तेजो भवति । चतुर्थो वायुर्भवति । पञ्चम आकाशो भवति । षष्ठश्चन्द्रमा भवति । सप्तमः सूर्यो भवति । अष्टमो यजमानः ॥

भूमिरापस्तथा तेजो वायुर्व्योम च चन्द्रमाः ।
सूर्यः पुमांस्तथाचेति मृर्तयश्चाष्ट कीर्तिताः ॥

अकारोकारमकारनादबिन्दुकलानुसन्धानध्यानाष्टविधा अष्टाक्षरं भवति । अकारः सद्योजातो भवति । उकारो वामदेवः । अघोरो मकारो भवति । तत्पुरुषो नादः । बिन्दुरीशानः । कला व्यापको भवति । अनुसन्धानो नित्यः । ध्यानस्वरूपं ब्रह्म । सर्वव्यापकोऽष्टाक्षरः ॥

नारायणः परं ब्रह्म ज्ञानं नारायणः परः ।
नारायणं महापुरुषं विश्वमात्मानमव्ययम् ॥

अन्तर्बहिश्च तत्सर्वं स्थितो नारायणः परः ।
सहस्रशीर्षं देवमक्षरं परमं पदम् ॥not valid shloka

नारायणं शिवं शान्तं सर्ववेदान्तगोचरम् ।
सृष्टिः स्थितिश्च संहारतिरोधानानुसंमतम् ।
पञ्चकृत्यस्य कर्तारं नारायणमनामयम् ॥

इत्याथर्वणरहस्ये नारायणपूर्वतापिनीये प्रथमः खण्डः

द्वितीयः खण्डः

स होवाच भगवान् ब्रह्मा नारायणाष्टाक्षरमन्त्रं व्याचष्टे । श्रीमन्नारायणस्य दशमन्त्राः कथ्यन्ते । ॐ नमो नारायणाय इत्यष्टाक्षरो मन्त्रः । स एव मन्त्रराजो भवति । एतन्नारायणस्य तारकं भवति । तदेवोपासितव्यं भवति । इत्युवाच भगवान्नारायणशब्दपरब्रह्मश्रीमहामायाप्रकृतिसर्वमेकजननीलक्ष्मीर्भवति । देवानां देवलक्ष्मीर्भवति । सिद्धानां सिद्धलक्ष्मीर्भवति । मुमुक्षूणां मोक्षलक्ष्मीर्भवति । योगिनां योगलक्ष्मीर्भवति । मुनीनां विवेकबुद्धिर्भवति । राज्ञां राज्यलक्ष्मीर्भवति । सृष्टिरूपा सरस्वती भवति । स्थितिरूपा महालक्ष्मीर्भवति । संहाररूपा रुद्राणी भवति । तिरोधानकरी पार्वती भवति । अनुग्रहरूपा उमा भवति । पञ्चकृत्यरूपा परमेश्वरी भवति । श्रीमहालक्ष्म्यै नम इति सप्ताक्षरो मन्त्रः ॥

सर्वेषामेव भूतानां महासौभाग्यदायिनी ।
महालक्ष्मीर्महादेवी सर्वलोकैकमोहिनी ॥

साम्राज्यदायिनी नित्यं सर्ववेदस्वरूपिणी ।
महाविद्या जगन्माता मुनीनां मोक्षदायिनी ।
ज्ञानिनां ज्ञानदा सत्यं दानवानां विनाशिनी ॥

इति महालक्ष्मीर्मूलप्रकृतिर्भवति । नारायणः स भगवान् परब्रह्मस्वरूपी सर्ववेदान्तगोचरः नित्यशुद्धबुद्धपरब्रह्मानन्दमयो भवति । तस्माल्लक्ष्मीनारायण इति स होवाच भगवान् य एवं वेद । इत्युपनिषत् ॥

इत्याथर्वणरहस्ये नारायणपूर्वतापिनीये द्वितीयः खण्डः

नारायणपूर्वतापिनीयोपनिषत्

तृतीयः खण्डः

स होवाच भगवान् ब्रह्मा नारायणमन्त्रः कीदृशो भवति । "ॐ नारायणाय विद्महे वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात्" इति गायत्री भवति । इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पाꣳसुरे। "अतो देवा भवन्तु नो यतो विष्णुर्विचक्रमे । पृथिव्याः सप्तधामभिः" इति मन्त्रद्वयेन नारायणप्रतिपादितं भवति । "स ब्रह्मा स शिवः स हरिः सेन्द्रः सोऽक्षरः परमः स्वराट्" । नारायणायेति पञ्चाक्षरं भवति । ॐ नमो विष्णव इति षडक्षरं विज्ञातम् । नमो नारायणायेति सप्ताक्षरं भवति । ॐ नमो भगवते वासुदेवायेति द्वादशं परिकीर्तितम् । ॐ श्रीं ह्रीं क्लीं नमो नारायणाय स्वाहा । यस्य कस्यापि न देयम् ।

पुत्रो देयः शिरो देयं न देया षोडशाक्षरी ।
न वदेद्यस्य कस्यापि किं तु शिष्याय तां वदेत् ॥

ॐ श्रीं ह्रीं नमो भगवते लक्ष्मीनारायणाय विष्णवे वासुदेवाय स्वाहा ॥

श्रीमहाविष्णवे तुभ्यं नमो नारायणाय च ।
गोविन्दाय च रुद्राय हरये ब्रह्मरूपिणे ॥

नारायण महाविष्णो श्रीधरानन्त केशव ।
वासुदेव जगन्नाथ हृषीकेश नमो नमः ॥

इत्यनुष्टुब्द्वयं मन्त्रं व्याख्यातम् । अथ मालामन्त्रं व्याख्यास्यामः । स होवाच भगवान् ब्रह्मा य एवं वेद । इत्युपनिषत् ॥

इत्याथर्वणरहस्ये नारायणपूर्वतापिनीये तृतीयः खण्डः

चतुर्थः खण्डः

स होवाच भगवान् पितामह: गायत्रीं व्याचष्टे । गोविन्दाय विद्महे वासुदेवाय धीमहि । तन्नो नारायणः प्रचोदयात् । कामदेवाय विद्महे पुष्पबाणाय धीमहि । तन्नोऽनङ्गः प्रचोदयात् । महादेव्यै च विद्महे विष्णुपत्नी च धीमहि । तन्नो लक्ष्मीः प्रचोदयात । "विष्णोर्नुकं वीर्याणि प्रवोचं यः पार्थिवानि विमने रजाꣳसि यो अस्कभायदुत्तरꣳ सधस्थं विचक्रमाणस्त्रेधोरुगायः", "त्रिर्देवः पृथिवीमेष एताम् । विचक्रमे शतर्चसं महित्वा । प्रविष्णुरस्तु तवसस्तवीयान् । त्वेषꣳ ह्यस्य स्थविरस्य नाम ।"

सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमकृत ।
अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीर्निहिताधिवाचि ॥

"प्रतद्विष्णुस्तवने वीर्याय । मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेषु । अधिक्षियन्ति भुवनानि विश्वा ।", "य ईꣳ शृणोत्यलकꣳ शृणोति । न हि प्रवेद सुकृतस्य पन्थाम् ।" अक्षन्वन्तः कर्णवन्तः सखायो मनो जीवेष्वसमा बभूवुः । तस्माल्लक्ष्मीनारायणं सर्वबीजं सर्वभूताधिवासं यो वेत्ति स विद्वान् भवति । उपासकानां मोक्षप्राप्तिर्भवति । स जीवन्मुक्तो भवति । स होवाच भगवान् उपासनविधिं व्याचष्टे । ब्रह्मा ऋषिर्भवति । गायत्री छन्द उच्यते । श्रीमन्नारायणपरमात्मा देवता । प्रणवं बीजम् । नमः शक्तिरुच्यते । कीलकं नारायणेति ॥

धर्मार्थकाममोक्षेषु विनियोगोऽथ भावना ।

महोल्काय वीरोल्काय वृद्धोल्काय पृथूलकाय विद्युल्काय ज्वलदुल्काय च षडङ्गकल्पिताः नमःस्वाहावषड्वौषट्पदान्ता अङ्गन्यासा भवन्ति ।

नीलजीमूतसंकाशं पीतकौशेयवाससम् ।
किरीटकुण्डलधरं कौस्तुभोद्भासितोरसम् ॥

शङ्खचक्रगदाखङ्गधारिणं वनमालिनम् ।
वामभागे महालक्ष्म्यालिङ्गितार्धशरीरिणम् ॥

सनकादिभिः संसेव्यं स्तूयमानं महर्षिभिः ।
ब्रह्मादिभिः सदा ध्येयं ध्यात्वा नारायणं विभुम् ॥

कर्मणा मनसा वाचा संस्मरेत् प्रजपेत् सुधीः ।
अयुतं जपमात्रेण सर्वज्ञानप्रदो भवेत् ॥

लक्षमात्रं तु प्रजपेत् स्वस्वरूपं भवेन्मनुः ।
अत ऊर्ध्वं सदा ध्यायेत् साक्षान्नारायणो हरिः ॥

स होवाच भगवान् य एवं वेद । इत्युपनिषत् ॥

इत्याथर्वणरहस्ये नारायणपूर्वतापिनीये चतुर्थ: खण्ड:

पश्चमः खण्डः

स होवाच भगवान् ब्रह्मा दशकळात्मकोऽवतारः कथ्यते ॥

जरा पालिनिका शान्तिरीश्वरी रतिकामिका ।
वरदा ह्लादिनी प्रीतिर्दीर्घा दशकला हरेः ॥

नारायणादवतारा मन्त्ररूपा जायन्ते । ॐ नमो नारायणाय स्वाहा । एवं दशाक्षरो महामन्त्रो भवति । तत्र प्रथमो मत्स्यावतार: । द्वितीयः कूर्मः । तृतीयो वराहः । चतुर्थो नरसिम्हः । पञ्चमो वामनः । षष्ठो जमदग्निः । सप्तमो रामचन्द्रः । अष्टमः कृष्णः परमात्मा । नवमो बुद्धावतारः । दशमः कल्किर्जनार्दनः । ॐ मत्स्यावताराय नमः । श्रीं कूर्मावताराय नमः । ह्रीं वराहावताराय नमः । हुं नृसिंहावताराय नमः ।सौः वामनावताराय नमः । ऐं परशुरामावताराय नमः । ग्लौं रामचन्द्राय नमः । क्लीं कृष्णाय नमः । ब्लूं बुद्धावताराय नमः । सः कल्क्यवताराय नमः इति । प्रजापतिः प्रजायते । तस्मान्नारायणः प्रजायते । ब्रह्मा जायते । ब्रह्मणःसकाशात् पञ्चमहाभूतानि तन्मात्राणि जायन्ते । ज्ञानेन्द्रियकर्मेन्द्रियाणि मनोबुद्धिचित्ताहंकारा जायन्ते । प्रकृतिर्जायते । चतुर्विंशतितत्त्वात्मको नारायणः । पञ्चविंशतितत्त्वात्मकः पुरुषत्वं परब्रह्म भवेत् । शिवश्च नारायणः । शक्रश्च नारायणः । दिशश्च नारायणः । ऊर्ध्वञ्च नारायण: । अन्तश्च नारायणः । नारायणः सर्वं खल्विदं ब्रह्म । तस्मान्नारायणादण्डजस्वेदजोद्भिज्जजरायुजमनसिजादयः सर्वे महाभूताः प्रजायन्ते ॥

अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्ती‍ꣳ सरूपाम् ।
अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥

अण्डजाः सर्वखगरूपा जायन्ते । स्वेदजाः क्रिमिकीटादयः । उद्भिज्जास्तरुगुल्मलतादयः । जरायुजा नरपशुमृगादयो जायन्ते । मनसिजा नारदादयः सर्वे ऋषयः । नारायणः स्थावरजङ्गमात्मको भवति । अष्टवसवो नारायणः । एकादशरुद्रा नारायणः । नारायणात् द्वादशादित्याः । सर्वे देवा ऋषयो मुनयः सिद्धगन्धर्वयक्षरक्षःपिशाचाः सर्वे नारायणः । नारायण एवेदं सर्वम् । लक्ष्मीर्मूलप्रकृतिरिति विज्ञायते । वस्त्वेकं परब्रह्म नारायणः सनातनः ॥

साक्षान्नारायणो देव: परब्रह्माभिधीयते ।
सच्चिदानन्दात्मकाः स्युर्विष्णौ नित्ये प्रकल्पिताः ।
नानाविधानि रूपाणि हाटके कंटकादिवत् ॥

"चत्वारि वाक्परिमिता पदानि । तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता नेङ्गयन्ति । तुरीयं वाचो मनुष्या वदन्ति ।" परापश्यन्तीमध्यमावैखरीरूपासरस्वतीति चतुर्विधा वाचो वदन्ति । वैखरी सर्वविद्यासु प्रशस्ता ॥

अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥

आयुर्वेदो धनुर्वेदो गान्धर्वं मन्त्रशास्त्रकम् ।
विद्याश्वाष्टादश प्रोक्ता नारायणनिवेशिताः ॥

तस्य निश्वसितमेव ऋग्वेदो यजुर्वेदः सामवेदो ह्यथर्वाङ्गिरश्चेति । सर्ववेदवेदान्तानां नारायणपरब्रह्मण्येव तात्पर्यम् । स होवाच भगवान् य एवं वेद । इत्युपनिषत् ॥

इत्याथर्वणरहस्ये नारायणपूर्वतापिनीये पञ्चमः खण्डः

षष्ठः खण्डः

स होवाच भगवान् ब्रह्मा नारायणयन्त्रमन्त्रावरणपूजामाचचक्षे । त्रिकोणं प्रथमं भवति । द्वितीयं षट्कोणं भवति । वृत्तमष्टदलं तृतीयम् । चतुर्थं द्वादशदलम् । पञ्चमं षोडशदलम् । चतुर्विंशतिः षष्ठम् । द्वात्रिंशतिः
editor added just ':' (visargas) here, but very hard to type सप्तमम् । अष्टमं भूपुरम् । एवं यन्त्रं समालिखेत् । मध्ये लक्ष्मीनारायणं विक्षेपशक्त्यावरणं शक्तिप्रभाशक्तित्रिकोणदेवताः पट्कोणं वृद्धोल्कादयः पूज्याः । सर्वज्ञानित्वतृप्त्यनादिबोधस्वतन्त्रनित्यमलुप्तानन्तं षट्कोणशक्तयः । सनकसनन्दनसनत्सुजातसनत्कुमारसनातननारदतुम्बुरुसमन्तादयोऽष्टदलाः ।

वसिष्ठवालखिल्यविश्वामित्रकश्यपात्रिभरद्वाजाङ्गीरसजामदग्निगौतमागस्त्यजाबालिकपिला द्वादशदलाः । मत्स्यकूर्मवराहनारसिंहवामनरामरामकृष्णबुद्धकल्किसद्योजातवामदेवा अघोरतत्पुरुषेशानपरमेश्वराः षोडशदलाः । शंखचक्रगदापद्मखड्गश्रीवत्सकौस्तुभवनमालादिकिरीटकुण्डलकेयूरहाराङ्गदशार्ङ्गिशरनन्दकपद्मवेणुबर्हिपिञ्छशेषानन्तगरुडविष्वक्सेनब्रह्माणश्चतुर्विंशतिदलाः केशवादिचतुर्विंशत्यनुक्रमम् । हरिश्रीकृष्णमुकुन्दकुमुदाक्षपुण्डरीकाक्षधामकशङ्खवर्णसर्वनेत्रसुखसुप्रतीका द्वात्रिंशद्दलाः । ऐरावतपुण्डरीकवामनकुमुदाञ्जनपुष्पदन्तसार्वभौमसुप्रतीकाक्षाश्चतुरश्रदेवताः । ॐ नमो नारायणायाष्टाक्षरसंज्ञावरणदेवतापूजा कर्तव्या । स होवाच भगवान् य एवं वेद । इत्युपनिषत् ॥

इत्याथर्वणरहस्ये नारायणपूर्वतापिनीये षष्ठः खण्डः

इति नारायणपूर्वतापिनीयोपनिषत् समाप्ता

स्रोत · Source

अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.

#anya-upanishadah

सम्बन्धित पाठ · Related reading

🪷Upanishad
नारायणाथर्वशिरउपनिषत्
Narayanatharvashira Upanishat

Sanskrit text attributed to (ऋषयः) from ईशादिविंशोत्तरशतोपनिषदः, निर्णयसागर-मुद्रणालय, १९४८.

🪷 Lord VishnuSanskrit2 min
🪷Upanishad
नृसिंहषट्चक्रोपनिषत्
Nrsimhashatcakropanishat

Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.

🪷 Lord VishnuSanskrit2 min
🪷Upanishad
शारीरकोपनिषत्
Sharirakopanishat

Sanskrit text from Sanskrit Wikisource.

🪷 Lord VishnuSanskrit2 min
🪷Upanishad
नृसिंहतापनी उपनिषद्-1
Nrsimhatapani Upanishad (1)

Sanskrit text from Sanskrit Wikisource.

🪷 Lord VishnuSanskrit17 min
🪔Aarti
ओ३म जय जगदीश हरे
Om Jai Jagdish Hare Aarti

सबसे अधिक गाई जाने वाली आरती, जो प्रायः हर पूजा के अन्त में की जाती है। जगदीश हरि की स्तुति, जो भक्तों के संकट क्षण भर में दूर करते हैं।

🪷 Lord VishnuHindi1 min
🙏Stotra
श्री विष्णु पुराण में कथित इन्द्र द्वारा कृत श्री लक्ष्मी स्तुति
Shri Vishnu Purana Mem Kathita Indra Dvara Krta Shri Lakshmi Stuti

Sanskrit text from Sanskrit Wikisource.

🪷 Lord VishnuSanskrit2 min
और उपनिषद्पुस्तकालयभगवान विष्णु पूजा बुक करें