🌅

श्रीवेंकटेशसुप्रभातम्

Shrivenkatesha Suprabhatam

सुप्रभातम् · 🪷 भगवान विष्णु · Sanskrit · ⏱ 3 min

अन्य नाम · Also known as श्रीवेंकटेशसुप्रभातम्

Sanskrit text attributed to प्रातिवाधि भयङ्करम् अन्नङ्गराचार्यः from श्रीवेङ्कतेशकाव्यकलापः, तिरुमलैतिरुपतिदेवस्थानमुद्रणालयः, तिरुपति, 1943.

अक्षर का आकार

कौसल्यासुप्रजा राम पूर्वा सन्ध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ १ ॥

उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ।
उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ २ ॥

मातस्समस्तजगतां मधुकैटभारेः
वक्षोविहारिणि मनोहरदिव्यरूपे ।
श्रीस्वामिनि श्रितजनप्रियदानशीले
श्रीवेंकटेशदयिते तव सुप्रभातम् ॥ ३ ॥

तव सुप्रभातमरविन्दलोचने
भवतु प्रसन्नमुखचन्द्रमण्डले ।
विधिशंकरेन्द्रवनिताभिरर्चिते
वृषशैलनाथदयिते दयानिधे ॥ ४ ॥

अत्र्यादिसप्तऋषयस्समुपास्य सन्ध्याम्
आकाशसिन्धुकमलानि मनोहराणि ।
आदाय पादयुगमर्चयितुं प्रपन्नाः
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ५ ॥

पञ्चाननाब्जभवषण्मुखवासवाद्याः
त्रैविक्रमादिचरितं विबुधाः स्तुवन्ति ।
भाषापतिः पठति वासरशुद्धिमारात्
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ६ ॥

ईषत्प्रफुल्लसरसीरुहनारिकेल-
पूगद्रुमादिसुमनोहरपालिकानाम् ।
आवाति मन्दमनिलस्सह दिव्यगन्धैः
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ७ ॥

उन्मील्य नेत्रयुगमुत्तमपञ्जरस्थाः
पात्रावशिष्टकदलीफलपायसानि ।
भुक्त्वा सलीलमथ केलिशुकाः पठन्ति
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ८ ॥

तन्त्रीप्रकर्षमधुरस्वनया विपञ्च्या
गायत्यनन्तचरितं तव नारदोऽपि ।
भाषासमग्रमसकृत्करचाररम्यं
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ९ ॥

भृङ्गावली च मकरन्दरसानुविद्ध-
झंकारगीतनिनदैस्सह सेवनाय ।
निर्यात्युपान्तसरसीकमलोदरेभ्यः
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ १० ॥

योषागणेन वरदध्नि विमथ्यमाने
घोपालयेषु दधिमन्थनतीव्रघोषाः ।
रोषात्कलिं विदधते ककुभश्च कुम्भाः
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ११ ॥

पद्मेशमित्रशतपत्रगतालिवर्गाः
हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्या ।
भेरीनिनादमिव बिभ्रति तीव्रनादं
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ १२ ॥

श्रीमन्नभीष्टवरदाखिललोकबन्धो
श्रीश्रीनिवास जगदेकदयैकसिन्धो ।
श्रीदेवतागृहभुजान्तरदिव्यमूर्ते
श्री वेंकटाचलपते तव सुप्रभातम् ॥ १३ ॥

श्रीस्वामिपुष्करणिकाप्लवनिर्मलाङ्गाः
श्रेयोर्थिनो हरविरिञ्चसनन्दनाद्याः ।
द्वारे वसन्ति वरवेलहतोत्तमाङ्गाः
श्रीवेंकटाचलपते तव सुप्रभातम् ॥ १४ ॥

श्रीशेषशैलगरुडाचलवेंकटाद्रि-
नारायणाद्रिवृषभाद्रिवृषाद्रिमुख्याम् ।
आख्यां त्वदीयवसतेरनिशं वदन्ति
श्रीवेंकटाचलपते तव सुप्रभातम् ॥ १५ ॥

सेवापराश्शिवसुरेशकृशानुधर्म-
रक्षोम्बुनाथपवमानधनाधिनाथाः ।
बद्धाञ्जलिप्रविलसन्निजशीर्षदेशाः
श्रीवेंकटाचलपते तव सुप्रभातम् ॥ १६ ॥

धाटीषु ते विहगराजमृगाधिराज-
नागाधिराजगजराजहयाधिराजाः ।
स्वस्वाधिकारमहिमादिकमर्थयन्ते
श्रीवेंकटाचलपते तव सुप्रभातम् ॥ १७ ॥

सूर्येन्दुभौमबुधवाक्पतिकाव्यसौरि-
स्वर्भानुकेतुदिविषत्परिषत्प्रधानाः ।
त्वद्दासदासचरमावधिदासदासाः
श्रीवेंकटाचलपते तव सुप्रभातम् ॥ १८ ॥

त्वत्पादधूलिभरितस्फुरितोत्तमाङ्गाः
स्वर्गापवर्गनिरपेक्षनिजान्तरङ्गाः ।
कल्पागमाकलनयाऽऽकुलतां लभन्ते
श्रीवेंकटाचलपते तव सुप्रभातम् ॥ १९ ॥

त्वद्गोपुराग्रशिखराणि निरीक्षमाणाः
स्वर्गापवर्गपदवीं परमां श्रयन्तः ।
मर्त्या मनुष्यभुवने मतिमाश्रयन्ते
श्रीवेंकटाचलपते तव सुप्रभातम् ॥ २० ॥

श्रीभूमिनायकदयादिगुणामृताब्धे
देवाधिदेव जगदेकशरण्यमूर्ते ।
श्रीमन्ननन्तगरुडादिभिरर्चिताङ्घ्रे
श्रीवेंकटाचलपते तव सुप्रभातम् ॥ २१ ॥

श्रीपद्मनाभ पुरुषोत्तम वासुदेव
वैकुण्ठ माधव जनार्दन चक्रपाणे ।
श्रीवत्सचिह्न शरणागतपारिजात
श्रीवेंकटाचलपते तव सुप्रभातम् ॥ २२ ॥

कन्दर्पदर्पहरसुन्दरदिव्यमूर्ते
कान्ताकुचाम्बुरुहकुड्मललोलदृष्टे ।
कल्याणनिर्मलगुणाकरदिव्यकीर्ते
श्रीवेंकटाचलपते तव सुप्रभातम् ॥ २३ ॥

मीनाकृते कमठ कोल नृसिंह वर्णिन्
स्वामिन् परश्वथतपोधन रामचन्द्र ।
शेषांशराम यदुनन्दन कल्किरूप
श्रीवेंकटाचलपते तव सुप्रभातम् ॥ २४ ॥

एलालवङ्गघनसारसुगन्धतीर्थं
दिव्यं वियत्सरिति हेमघटेषु पूर्णम् ।
धृत्वाऽद्य वैदिकशिखामणः प्रहृष्टाः
तिष्ठन्ति वेंकटपते तव सुप्रभातम् ॥ २५ ॥

भास्वानुदेति विकचानि सरोरुहाणि
संपूरयन्ति निनदैः ककुभो विहङ्गाः ।
श्रीवैष्णवास्सततमर्थितमङ्गलास्ते
धामाश्रयन्ति तव वेंकट सुप्रभातम् ॥ २६ ॥

ब्रह्मादयस्सुरवरास्समहर्षयस्ते
सन्तस्सनन्दनमुखास्तव योगिवर्याः ।
धामान्तिके तव हि मङ्गलवस्तुहस्ताः
श्रीवेंकटाचलपते तव सुप्रभातम् ॥ २७ ॥

लक्ष्मीनिवास निरवद्यगुणैकसिन्धो
संसारसागरसमुत्तरणैकसेतो ।
वेदान्तवेद्यनिजवैभव भक्तभोग्य
श्रीवेंकटाचलपते तव सुप्रभातम् ॥ २८ ॥

इत्थं वृषाचलपतेरिह सुप्रभातं
ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः ।
तेषां प्रभातसमये स्मृतिरङ्गभाजां
प्रज्ञां परार्थसुलभां परमां प्रसूते ॥ २९ ॥

॥ इति श्रीवेंकटेशसुप्रभातम् ॥

स्रोत · Source

श्रीवेङ्कतेशकाव्यकलापः, तिरुमलैतिरुपतिदेवस्थानमुद्रणालयः, तिरुपति, 1943
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.

#venkateshastotrani

सम्बन्धित पाठ · Related reading

🪔Aarti
ओ३म जय जगदीश हरे
Om Jai Jagdish Hare Aarti

सबसे अधिक गाई जाने वाली आरती, जो प्रायः हर पूजा के अन्त में की जाती है। जगदीश हरि की स्तुति, जो भक्तों के संकट क्षण भर में दूर करते हैं।

🪷 Lord VishnuHindi1 min
🙏Stotra
श्री विष्णु पुराण में कथित इन्द्र द्वारा कृत श्री लक्ष्मी स्तुति
Shri Vishnu Purana Mem Kathita Indra Dvara Krta Shri Lakshmi Stuti

Sanskrit text from Sanskrit Wikisource.

🪷 Lord VishnuSanskrit2 min
🌺Ashtakam
अच्युताष्टकम्
Acyuta Ashtakam

Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 18 (Stotras, Vol. 2), Sri Vani Vilas Press, 1910.

🪷 Lord VishnuSanskrit1 min
🙏Stotra
आनन्दलहरी
Ananda Lahari

Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 17 (Stotras, Vol. 1), Sri Vani Vilas Press, 1910.

🪷 Lord VishnuSanskrit3 min
🙏Stotra
हरिस्तुतिः
Hari Stuti

Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 18 (Stotras, Vol. 2), Sri Vani Vilas Press, 1910.

🪷 Lord VishnuSanskrit6 min
🌺Ashtakam
जगन्नाथाष्टकम्
Jagannatha Ashtakam

Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 18 (Stotras, Vol. 2), Sri Vani Vilas Press, 1910.

🪷 Lord VishnuSanskrit1 min
और सुप्रभातम्पुस्तकालयभगवान विष्णु पूजा बुक करें