दत्तस्तवस्त्रोत्रम
स्तोत्र · 🏹 श्री राम · Sanskrit · ⏱ 1 min
अन्य नाम · Also known as दत्तस्तवस्त्रोत्रम
Sanskrit text from Sanskrit Wikisource.
॥ श्री दत्तस्तवस्त्रोत्रम ॥
भूतप्रेतपिशाचाद्या यस्य स्मरणमात्रतः ॥
दूरादेव पलायन्ते दत्तात्रेयं नमामि तं ॥ १ ॥
यन्नमस्मरणाद्-दैन्यं पापं तापश्च नश्यति ॥
भीतिग्रहर्तिदु:स्वप्नं दत्तात्रेयं नमामि तं ॥ २ ॥
दद्रुस्फोटककुष्ठादि महामारी विषूचिका ॥
नश्यन्ति अन्येSपि रोगाश्च दत्तात्रेयं नमामि तं ॥ ३ ॥
संगजा देशकालोत्था अपि सांक्रमिका गदा: ॥
शाम्यन्ति यत्स्मरणतो दत्तात्रेयं नमामि तं ॥ ४ ॥
सर्पवृश्चिकदष्टानां विषार्तानां शरीरिणाम ॥
यन्नाम शान्तिदं शीघं दत्तात्रेयं नमामि तं ॥ ५ ॥
त्रिविधोत्पातशमनं विविधारिष्टनाशनम ॥
यन्नाम क्रूरभीतिघ्नं दत्तात्रेयं नमामि तं ॥ ६ ॥
वैयादिकृतम्न्त्रादिप्रयोगा यस्य कीर्तनात ॥
नश्यन्ति देवबाधाश्च दत्तात्रेयं नमामि तं ॥ ७ ॥
यच्छिष्यस्मरणात्सद्यो गतनष्टादि लभ्यते ॥
य ईश: सर्वतस्त्राता दत्तात्रेयं नमामि तं ॥ ८ ॥
जयलाभयशःकामदातुर्दत्तस्य यः स्तवम ॥
भोगमोक्षप्रदस्येमं पठेद्-दत्तप्रियो भवेत ॥ ९ ॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं
दत्तस्तवस्तोत्रं संपूर्णम ॥
Sanskrit Wikisource, page "दत्तस्तवस्त्रोत्रम", revision 33132.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.