गोपालाष्टकम् (परमहंसस्वामिब्रह्मानन्दकृतम्)
अष्टकम् · 🦚 श्री कृष्ण · Sanskrit · ⏱ 1 min
अन्य नाम · Also known as गोपालाष्टकम् (परमहंसस्वामिब्रह्मानन्दकृतम्)
Sanskrit text from Sanskrit Wikisource.
श्री गणेशाय नमः ॥
यस्माद्विश्वं जातमिदं चित्रमतर्क्यं यस्मिन्नानन्दात्मनि नित्यं रमते वै ।
यत्रान्ते संयाति लयं चैतदशेषं तं गोपालं सन्ततकालं प्रति वन्दे ॥ १॥
यस्याज्ञानाज्जन्मजरारोगकदम्बं ज्ञाते यस्मिन्नश्यति तत्सर्वमिहाशु ।
गत्वा यत्रायाति पुनर्नो भवभूमिं तं गोपालं सन्ततकालं प्रति वन्दे ॥ २॥
तिष्ठन्नन्तर्यो यमयत्येतदजस्रं यं कश्चिन्नो वेद जनोऽप्यात्मनि सन्तम् ।
सर्वं यस्येदं च वशे तिष्ठति विश्वं तं गोपालं सन्ततकालं प्रति वन्दे ॥ ३॥
धर्मोऽधर्मेणेह तिरस्कारमुपैति काले यस्मिन्मत्स्यमुखैश्चारुचरित्रैः ।
नानारूपैः पाति तदा योऽवनिबिम्बं तं गोपालं सन्ततकालं प्रति वन्दे ॥ ४॥
प्राणायामैर्ध्वस्तसमस्तेन्द्रियदोषा रुध्वा चित्तं यं हृदि पश्यन्ति समाधौ ।
ज्योतीरूपं योगिजनामोदनिमग्नास्तं गोपालं सन्ततकालं प्रति वन्दे ॥ ५॥
भानुश्चन्द्रश्चोडुगणैश्चैव हुताशो यस्मिन्नैवाभाति तडिच्चापि कदापि ।
यद्भासा चाभाति समस्तं जगदेतत् तं गोपालं सन्ततकालं प्रति वन्दे ॥ ६॥
सत्यज्ञानं मोदमवोचुर्निगमा यं यो ब्रह्मेन्द्रादित्यगिरीशार्चितपादः ।
शेतेऽनन्तोऽनन्ततनावम्बुनिधौ यस्तं गोपालं सन्ततकालं प्रति वन्दे ॥ ७॥
शैवाः प्राहुर्यं शिवमन्ये गणनाथं शक्तिं चैकेऽर्कं च तथान्ये मतिभेदात् ।
नानाकारैर्भाति य एकोऽखिलशक्तिस्तं गोपालं सन्ततकालं प्रति वन्दे ॥ ८॥
श्रीमद्गोपालाष्टकमेतत् समधीते भक्त्या नित्यं यो मनुजो वै स्थिरचेताः ।
हित्वा तूर्णं पापकलापं स समेति पुण्यं विष्णोर्धाम यतो नैव निपातः ॥ ९॥
इति श्रीपरमहंसस्वामिब्रह्मानन्दविरचितं श्री गोपालाष्टकं सम्पूर्णम् ॥
Sanskrit Wikisource, page "गोपालाष्टकम् (परमहंसस्वामिब्रह्मानन्दकृतम्)", revision 56891.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 18 (Stotras, Vol. 2), Sri Vani Vilas Press, 1910.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 18 (Stotras, Vol. 2), Sri Vani Vilas Press, 1910.
Sanskrit text from Sanskrit Wikisource.